पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तेऽवयवाः । श्रीश्च लक्ष्मीश्च पत्न्यौ भार्ये । अहश्च रात्रिश्च ते पार्श्वे । नक्षत्राणि रूपम् । अश्विनौ व्यात्तं मुखम् । इष्णन इषाण स्वर्गस्य लोकस्य ईशानः । एतद्गुणविशिष्टः नाम मोक्षस्य ईशानः सर्वलोकस्य च स एव देवानामीशान इति ॥२२॥
इति शौनकप्रणीतं पुरुपसूक्तभाष्यं समाप्तम् ॥
म० ऋषिरादित्यं स्तुत्वा प्रार्थयते । हे आदित्य, श्री लक्ष्मीश्च ते तव पत्न्यौ । जायास्थानीये त्वद्वश्ये इत्यर्थ । यया सर्वजनाश्रयणीयो भवति सा श्री श्रीयतेऽनया श्री सपदित्यर्थः । यया लक्ष्यते दृश्यते जनै सा लक्ष्मी । सौन्दर्यमित्ययः । अहोरात्रे तव पार्श्वे पार्श्वस्थानीये । नक्षत्राणि गगनगास्तारा तव रूपम् । तवैव तेजसा भासमानत्वात् 'तेजसा गोलक सूर्यो नक्षत्राण्यम्बुगोलका' इति ज्योति शास्त्रोक्तेः । अश्विनौ द्यावापृथिव्यौ तव व्यात्तं विकासितमुखस्थानीये अश्नुवाते व्याप्नुतस्तौ अश्विनौ 'अश्विनौ द्यावापृथिव्यौ इमे हीदᳪ सर्वमश्नुवाता' इति श्रुते । य ईदृशस्तं त्वा याचे । इष्णन्कर्मफलमिच्छन्सन् इषाण इच्छ 'इषु इच्छायाम्' विकरणव्यत्यय । यद्वा 'इष आभीक्ष्ण्ये' क्र्यादिः अत्रेच्छार्थ । किमेषणीयं तत्राह । अमुं परलोकं मे मम इषाण मम परलोकः समीचीनोऽस्त्वितीच्छा । अमोघेच्छत्वादिष्टं भवतीत्यर्थः । सर्वं मे मम इषाण सर्वलोकात्मकोऽहं भवेयमितीच्छेत्यर्थ । मुक्तो भवेयमित्यर्थः । 'सर्वं खल्विदं ब्रह्म' इति सामश्रुतेः ॥ २२ ॥
श्रीमन्महीधरकृते वेददीपे मनोहरे ।
नरमेधाध्याय एष एकत्रिंशोऽयमीरितः॥ ३१॥

द्वात्रिंशोऽध्यायः।
तत्र प्रथमा।
तदे॒वाग्निस्तदा॑दि॒त्यस्तद्वा॒युस्तदु॑ च॒न्द्रमा॑: ।
तदे॒व शु॒क्रं तद्ब्रह्म॒ ता आप॒: स प्र॒जाप॑तिः ।। १ ।।
उ० इदानीं सर्वे मन्त्राः प्राक्प्रवायुमित्यस्मादनुवाकात्सर्वमेधसंबद्धाः । ब्रह्मण आर्षम् । तदेवाग्निः द्वे अनुष्टुभौ । विज्ञानात्मा परेणात्मना विशिष्टाग्न्यादिषु ओतप्रोतत्वेनोपास्योऽभिधीयते । तदेव कारणमग्निः तदादित्यः तद्वायुः तत् उ चन्द्रमाः । उकार एवार्थे । तदेव शुक्र त्रयीलक्षणम् । तद्ब्रह्म परम् । ता आपः । सः प्रजापतिः ॥ १ ॥
म० पुरुषमन्त्रा उक्ताः । अथ सर्वमेधमन्त्रा उच्यन्ते प्रवायुमच्छेत्यस्मात्प्राक् ( ३३ । ५५)। स्वयंभुब्रह्मदृष्टा आत्मदेवत्याः सप्तमेऽहनि आप्तोर्यामसंज्ञिके सर्वहोमे विनियुक्ताः 'आप्तोर्याम सप्तममहर्भवति' इत्युपक्रम्य 'सर्वं जुहोति सर्वस्यास्यै सर्वस्यावरुद्ध्यै' ( १३ । ७ । १।९) इति श्रुते । द्वे अनुष्टुभौ । विज्ञानात्मा परेणात्मना विशिष्टोऽग्न्यादिष्वोतप्रोतत्वेनोपास्योऽभिधीयते । अग्निः तदेव कारणं ब्रह्मैव आदित्यस्तदेव वायुस्तदेव चन्द्रमास्तत् तदेव । उ एवार्थे । शुक्रं शुक्लं तत् प्रसिद्धम् । ब्रह्म त्रयीलक्षण तत् ब्रह्मैव । ताः प्रसिद्धाः आपः जलानि स प्रसिद्ध प्रजापतिरपि तदेव ब्रह्म ॥ १ ॥

द्वितीया।
सर्वे॑ निमे॒षा ज॑ज्ञिरे वि॒द्युत॒: पुरु॑षा॒दधि॑ ।
नै॑नमू॒र्ध्वं न ति॒र्यञ्चं॒ न मध्ये॒ परि॑ जग्रभत् ।। २ ।।
उ० सर्वे निमेषाः । सर्वे निमेषत्रुटिकाष्ठादयः कालविशेषाः जज्ञिरे जाताः विद्युतः विद्युत्पर्जन्यस्तनयित्नवः । पुरुषादधि सकाशात् । नच एनं पुरुष सर्वस्यापि जनकं सन्तं ऊर्ध्वं नच तिर्यञ्चं नच मध्ये परिजग्रभत् न परिगृह्राति कश्चिदपि । नह्यसौ प्रत्यक्षादीनां विषयः । आगमो हि तत्र प्रवर्तते । तदुक्तम् 'एष नेतिनेत्यात्मना अगृह्यो नहि गृह्यते' इत्यादि ॥ २ ॥ |
म० सर्वे निमेषाः त्रुटिकाष्ठाघट्यादयः कालविशेषा पुरुषात् अधि पुरुषसकाशाज्जज्ञिरे । कीदृशात्पुरुषात् । विद्युत विशेषेण द्योतते विद्युत् तस्मात् । किंच कश्चिदपि एनं पुरुषमूर्ध्वमुपरिभागे न परिजग्रभत्परिगृह्णाति । एनं तिर्यञ्च चतुर्दिक्षु न परि० मध्ये मध्यदेशेऽपि न गृह्णाति । न ह्यसौ प्रत्यक्षादीनां विषय इत्यर्थः । ‘स एष नेति नेत्यात्माऽगृह्यो न हि गृह्यते' इति श्रुते । जग्रभत् । ग्रहे शतरि जुहोत्यादित्वेन रुपम् ॥ २ ॥

तृतीया।
न तस्य॑ प्रति॒मा अ॑स्ति॒ यस्य॒ नाम॑ म॒हद्यश॑: ।
हि॒र॒ण्य॒ग॒र्भ इत्ये॒ष मा मा॑ हिᳪसी॒दित्ये॒षा यस्मा॒न्न जा॒त इत्ये॒ष: ।। ३ ।।
उ० न तस्य गायत्री द्विपदा । न तस्य पुरुषस्य प्रतिमा प्रतिमानभूतं किंचिद्विद्यते । यतो यस्य नाम महद्यश इत्येष वेदान्तविदः पठन्ति हिरण्यगर्भ इत्येष चतुर्ऋचोऽनुवाकोदूरविप्रकर्षेण हिरण्यगर्भं प्रतिमाभूतमाह । मामाहिᳪसीदित्येषा च ऋक् यस्मान्न जात इत्येषा च द्विकण्डिकोऽनुवाकः षोडशिदैवत्योऽदूरविप्रकर्षेणाभिवदति । आसा च कण्डिकानां ब्रह्मयज्ञेऽध्ययनं कर्तव्य प्रतीकग्रहणत्वात् ॥ ३ ॥
म० द्विपदा गायत्री । तस्य पुरुषस्य प्रतिमा प्रतिमानमुपमानं किंचिद्वस्तु नास्ति । अतएव नाम प्रसिद्धं महत् यशः यस्यास्ति । सर्वातिरिक्तयशा इत्यर्थः । हिरण्यगर्भ इत्येषोऽनुवाकश्चतुर्ऋच हिरण्यगर्भः यः प्राणतः यस्येमे य आत्मदा इति ( २५ । १०-१३)। मा मा हिंसीज्जनितेत्येका एषा ( १२ । १०२)। यस्मान्न जातः इन्द्रश्च सम्राडिति (८। ३६-३७) द्व्यृचोऽनुवाकः । एताः प्रतीकचोदिताः पूर्वं पठितत्वादादिमात्रेणोक्ताः ब्रह्मयज्ञे जपे च सर्वा अध्येयाः । एवं सर्वत्र ॥ ३॥ .