पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टादशी।
वेदा॒हमे॒तं पुरु॑षं म॒हान्त॑मादि॒त्यव॑र्णं॒ तम॑सः प॒रस्ता॑त् ।
तमे॒व वि॑दि॒त्वाति॑ मृ॒त्युमे॑ति॒ नान्यः पन्था॑ विद्य॒तेऽय॑नाय ।। १८ ।।
उ०. वेदाहम् वेद अहम् एतं पुरुषम् महान्तम् आदित्यवर्णम् तमसः परस्तात् । तम् एव विदित्वा अतिमृत्युम् एति न अन्यः पन्था विद्यते अयनाय । ऋषेः प्रतिवचनम्। अहमेतं पुरुषं वेद । महान्तं देशकालाद्यवच्छेदरहितम् । आदित्यवर्णं स्वप्रकाशम् । तमसः परस्तात् अविद्यायाः भेददर्शनम् । तमेव विदित्वा अतिमृत्युम् एति अतिक्रम्य मृत्युं तं पुरुषमनुप्रविशति । न अन्यः पन्था मार्गः तस्यायनाय गमनाय विद्यते ॥ १८॥
म० एतं महान्तं सर्वोत्कृष्टं पुरुषं सूर्यमण्डलस्थमहं वेद जानामि इति ऋषेर्वचनम् । कीदृशम् । आदित्यवर्णमादित्यस्येव वर्णो यस्य तम् । उपमान्तराभावात्स्वोपमम् । तथा तमसः परस्ताद्दूरतरम् । तमोरहितमित्यर्थः । तमःशब्देनाविद्योच्यते । तमेवादित्यं विदित्वा ज्ञात्वा मृत्युमत्येति अतिक्रामति परंब्रह्म गच्छति । अयनायाश्रयायान्यः पन्था मार्गः न विद्यते । सूर्यमण्डलान्तःपुरुषमात्मरूपं ज्ञात्वैव मुक्तिः ॥ १८ ॥

एकोनविंशी।
प्र॒जाप॑तिश्च॒रति॒ गर्भे॑ अ॒न्तरजा॑यमानो बहु॒धा वि जा॑यते ।
तस्य॒ योनिं॒ परि॑ पश्यन्ति॒ धीरा॒स्तस्मि॑न् ह तस्थु॒र्भुव॑नानि॒ विश्वा॑ ।। १९ ।।
उ० किंभूतं तं विशिष्यते । प्रजापतिश्चरति । प्रजापतिः चरति गर्भे अन्तः अजायमानः बहुधा विजायते । तस्य योनिम् परिपश्यन्ति धीराः तस्मिन् ह तस्थुः भुवनानि विश्वा । स एव पुरुष एकांशभूतः प्रजापतिः अस्य गर्भस्यान्तः अजायमानः चरति चतुर्विधेषु भूतेषु । स एव जायमानः बहुधाऽनेकप्रकारं विजायते । ये धीराः योगिनः ते तस्य योनिं परिपश्यन्ति सर्वत्यागेन परिहरन्ति । विश्वे त्रैलोक्ये भुवनानि तस्मिन्नातस्थुः ॥ १९ ॥
म० यः सर्वात्मा प्रजापतिः अन्तर्हृदि स्थितः सन् गर्भे चरति गर्भमध्ये प्रविशति । यश्चाजायमानोऽनुत्पद्यमानो नित्यः सन् बहुधा कार्यकारणरूपेण विजायते मायया प्रपञ्चरूपेणोत्पद्यते । धीराः ब्रह्मविदस्तस्य प्रजापतेः योनिं स्थानं स्वरूपं परिपश्यन्ति अहं ब्रह्मास्मीति जानन्ति । विश्वा विश्वानि सर्वाणि भुवनानि भूतजातानि तस्मिन् ह तस्मिन्नेव कारणात्मनि ब्रह्मणि तस्थुः स्थितानि । सर्वं तदात्मकमेवेत्यर्थः ॥ १९ ॥

विंशी।
यो दे॒वेभ्य॑ आ॒तप॑ति॒ यो दे॒वानां॑ पु॒रोहि॑तः ।
पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तो नमो॑ रु॒चाय॒ ब्राह्म॑ये ।। २० ।।
उ० यो देवेभ्यः । यः देवेभ्यः आतपति यः देवानां | पुरः हितः । पूर्वः यः देवेभ्यः जातः नमः रुचाय ब्राह्मये । अग्रे यो देवेभ्यः । योगिनस्तं नमन्ति ध्यायन्ति । यो देवेभ्यः सर्वेभ्यः आतपति अतिशयेन तेजसा तपति आदित्यरूपेणेत्यर्थः । यश्व देवानां पुरोऽग्रे इन्द्रत्वेन स्थितः। यश्च पूर्वः अग्रे ब्रह्मरूपेण देवेभ्यो जातः । तस्मै रुचाय तेजसे ब्राह्मये ब्रह्मपुरुषापत्याय नमः ॥ २० ॥ ।
म० यः प्रजापतिरादित्यरूपो देवेभ्योऽर्थायातपति द्योतते। यश्च देवानां पुरोहितः सर्वकार्येष्वग्रे नीतः । यश्च देवेभ्यः सकाशात्पूर्वः जातः प्रथममुत्पन्नः तस्मै आदित्याय नमः। कीदृशाय । रोचतेऽसौ रुचस्तस्मै दीप्यमानाय 'इगुपध-' (पा. ३ । १ । १३५ ) इति कप्रत्ययः । तथा ब्राह्मये ब्रह्मणोऽपत्यं ब्राह्मिः । इञि टिलोपः। ब्रह्मावयवभूताय वा ॥ २० ॥

एकविंशी।
रु॒चं ब्रा॒ह्मं ज॒नय॑न्तो दे॒वा अग्रे॒ तद॑ब्रुवन् ।
यस्त्वै॒वं ब्रा॑ह्म॒णो वि॒द्यात्तस्य॑ दे॒वा अ॑स॒न् वशे॑ ।। २१ ।।
उ० रुचं ब्राह्मम् । रुचं ब्राह्मम् जनयन्तः देवाः अग्रे तत् अब्रुवन् । यः त्वा एवम् ब्राह्मणः विद्यात् तस्य देवाः असन् वशे । रुचं देदीप्यमानं ब्राह्मं ब्रह्मण उत्पन्नं जनयन्तः सृष्ट्यर्थम् देवा योगिनः तेजसा दीप्यमानाः यत् अब्रुवन् यद्ब्रूयुः अग्रे प्रथमतः । किमूचुः । अपरोपि यो ब्राह्मणः स ब्रह्म विद्याज्जानीयात् तस्य देवा असन्वशे । सोऽपि सनकादीनां स्थानं गच्छतीत्यर्थः ॥ २१ ॥
म० देवाः दीप्यमानाः प्राणाः रुचं शोभनं ब्राह्मं ब्रह्मणोऽपत्यमादित्यं जनयन्तः उत्पादयन्तः अग्रे प्रथमं तत् वचोऽब्रुवन् ऊचुः । 'ब्राह्मो जातौ' (पा० ६ । ४ । १७१) इति निपातः । तत्किमत आह । यो ब्राह्मणः हे आदित्य, त्वा त्वामेवमुक्तविधिना उत्पन्नं विद्याज्जानीयात् तस्य ब्राह्मणस्य देवा वशे असन् वश्या भवन्ति । आदित्योपासिता जगत्पूज्यो भवतीत्यर्थः ॥ २१॥

द्वाविंशी।
श्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्या॑वहोरा॒त्रे पा॒र्श्वे नक्ष॑त्राणि रू॒पम॒श्विनौ॒ व्यात्त॑म् ।
इ॒ष्णन्नि॑षाणा॒मुं म॑ इषाण सर्वलो॒कं म॑ इषाण ।। २२ ।।
इति माध्यन्दिनीयायां वाजसनेयिसंहितायां एकत्रिंशोऽध्यायः ॥ ३१॥
उ० श्रीश्च ते । श्रीः च ते लक्ष्मीः च पत्न्यौ अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यात्तम्। इष्णन् इषाण अमुम् मे इषाण सर्वलोकम् मे इषाण। अस्य पुरुषस्यै