पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/५२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थी।
वि॒भ॒क्तार॑ᳪ हवामहे॒ वसो॑श्चि॒त्रस्य॒ राध॑सः ।
स॒वि॒तारं॑ नृ॒चक्ष॑सम् ।। ४ ।।
उ० विभक्तारं कर्मानुरूपेण विभक्तारम् । हवामहे आह्वयामः । वसोः वासयितुः । चित्रस्य चायनीयस्य । राधसः धनस्य आयुषश्च । सवितारम् नृचक्षसम् नृणां द्रष्टारम् । ये नरो यथा द्रष्टव्यास्तांस्तथा पश्यति ॥ ४ ॥ (१ इत उत्तरमाध्यायान्तमौवटभाष्यं नोपलब्धमिति महीधरीयमेकमेव संगृहीतम् )।
म० वयं सवितारं हवामहे आह्वयामः । किंभूतम् । वसोः वासयितुश्चित्रस्य नानाविधस्य राधसः धनस्य विभक्तारं विभज्य दातारम् । नृचक्षसं नृणां द्रष्टारं यथायोग्यम् ॥ ४ ॥

पञ्चमी।
ब्रह्म॑णे ब्राह्म॒णं क्ष॒त्राय॑ राज॒न्यं॒ म॒रुद्भ्यो॒ वैश्यं॒ तप॑से शू॒द्रं तम॑से॒ तस्क॑रं नार॒काय॑ वीर॒हणं॑ पा॒प्मने॑ क्ली॒बमा॑क्र॒याया॑ अयो॒गूं कामा॑य पुँश्च॒लूमति॑क्रुष्टाय माग॒धम् ।। ५ ।।
म० अतः परं पुरुषमेधकाः पशवः आ अध्यायसमाप्तेः । ततः प्रतियूपमेकैकमेकादशिनं नियुज्य ब्राह्मणादीनष्टचत्वारिंशसंख्यान् पुरुषान् प्रकामोद्याय सदमित्यन्तानग्निष्टे यूपे नियुनक्ति इतरेषु यूपेष्वेकादशैकादश पुरुषान् वर्णायानुरुधमित्यादीन्नियुनक्ति । ब्रह्मणे ब्राह्मणम् तत्र ब्रह्मणे जुष्टं नियुनज्मीति अग्निष्टे ब्राह्मणं प्रथमं नियुनक्ति । एवमग्रे सर्वेषां यूपे एव बन्धनम् चतुर्थ्यन्तं देवतापदं द्वितीयान्तं पुरुषपदं बोद्धव्यम् । क्षत्राय राजन्यं क्षत्रियम् २ मरुद्भ्यो वैश्यम् ६ तपसे शूद्रम् ४ तपसे तस्करं स्तेनम् ५ नारकाय वीरहणं नष्टाग्निं शूरं वा ६ पाप्मने क्लीबं नपुंसकम् ७ आक्रयायै अयोगूमयसो गन्तारम् ८ कामाय पुंश्चलूं व्यभिचारिणीम् ९ अतिक्रुष्टाय मागधं मगधदेशजं क्षत्रियायां वैश्यपुंसो जातं वा १० ॥ ५॥

षष्ठी।
नृ॒त्ताय॑ सू॒तं गी॒ताय॑ शैलू॒षं धर्मा॑य सभाच॒रं न॒रिष्ठा॑यै भीम॒लं न॒र्माय॑ रे॒भᳪ हसा॑य॒ कारि॑मान॒न्दाय॑ स्त्रीष॒खं प्र॒मदे॑ कुमारीपु॒त्रं मे॒धायै॑ रथका॒रं धै॑र्याय॒ तक्षा॑णम् ।। ६ ।।
म० नृत्ताय सूतं ब्राह्मण्यां क्षत्रियाज्जातः सूतः ११ गीताय शैलूषं नटम् १२ धर्माय सभाचरं सभायां चरतीति तम् १३ नरिष्ठायै भीमलं भयङ्करम् १४ नर्माय रेभं शब्दकर्तारं वाचाटम् १५ हसाय कारिं करणविशिष्टम् १६ आनन्दाय स्त्रीषखं स्त्रियाः सखायम् १७ प्रमदे कुमारीपुत्रं कानीयम् १८ मेधायै रथकारं माहिष्येण कारण्यां जातम् १९ धैर्याय तक्षाणं सूत्रधारम् २० ॥ ६ ॥

सप्तमी।
तप॑से कौला॒लं मा॒यायै॑ क॒र्मार॑ᳪ रू॒पाय॑ मणिका॒रᳪ शु॒भे व॒पᳪ श॑र॒व्या॒या इषुका॒रᳪ हे॒त्यै ध॑नुष्का॒रं कर्म॑णे ज्याका॒रं दि॒ष्टाय॑ रज्जुस॒र्जं मृ॒त्यवे॑ मृग॒युमन्त॑काय श्व॒निन॑म् ।। ७ ।।
म० तपसे कौलालं कुलालापत्यम् २१ मायायै कर्मारं लोहकारम् २२ रूपाक्रमणिकारं रत्नकर्तारम् २३ शुभे शुभाय वपं बीजवप्तारम् २४ शरव्यायै इषुकारं बाणकर्तारम् २५ हेत्यै धनुष्कारं चापकारिणम् २६ कर्मणे ज्याकारं प्रत्यञ्चनकर्तारम् २७ दिष्टाय रज्जुसर्जं रज्जोः स्रष्टारं निर्मातारम् २८ मृत्यवे मृगयुं मृगग्राहम् २९ अन्तकाय श्वनिनं शुनो नेतारम् ३० ॥ ७ ॥

अष्टमी।
न॒दीभ्य॑: पौञ्जि॒ष्ठमृ॒क्षीका॑भ्यो॒ नैषादं पुरुषव्या॒घ्राय॑ दु॒र्मदं॑ गन्धर्वाप्स॒रोभ्यो॒ व्रात्यं॑ प्र॒युग्भ्य॒ उन्म॑त्तᳪ सर्पदेवज॒नेभ्योऽप्र॑तिपद॒मये॑भ्यः कित॒वमी॒र्यता॑या॒ अकि॑तवं पिशा॒चेभ्यो॑ विदलका॒रीं या॑तु॒धाने॑भ्यः कण्टकीका॒रीम् ।। ८ ।।
म० नदीभ्यः पौञ्जिष्ठं पुञ्जिष्ठोऽन्त्यजः पुल्कसस्तदपत्यम् ६१ ऋक्षीकाभ्यो नैषादं निषादपुत्रम् ३२ पुरुषव्याघ्राय दुर्मदमुन्मत्तम् ३३ गन्धर्वाप्सरोभ्यो व्रात्यं सावित्रीपतितम् ३४ प्रयुग्भ्यः उन्मत्तम् ३५ सर्पदेवजनेभ्यः अप्रतिपदं प्रतिपद्यते जातानीति प्रतिपत् अतथाविधं विकलमित्यर्थः ३६ अयेभ्यः कितवं द्यूतकारम् ३७ ईर्यतायै अकितवमद्यूतकृतम् ३८ पिशाचेभ्यः विदलकारीं वंशविदारिणीं वंशपात्रकारिणीम् ३९ यातुधानेभ्यः कण्टकीकारीं कण्टकी कर्म तत्कारिणीम् ४० ॥८॥

नवमी।
स॒न्धये॑ जा॒रं गे॒हायो॑पप॒तिमार्त्यै॒ परि॑वित्तं॒ निरृ॑त्यै परिविविदा॒नमरा॑द्ध्या एदिधिषुः प॒तिं निष्कृ॑त्यै पेशस्का॒रीᳪ सं॒ज्ञाना॑य स्मरका॒रीं प्र॑का॒मोद्या॑योप॒सदं॒ वर्णा॑यानु॒रुधं॒ बला॑योप॒दाम् ।। ९ ।।
म० सन्धये जारमुपपतिम् ४१ गेहाय उपपतिं व्यभिचारिणम् ४२ आर्त्यै परिवित्तम् ऊढे कनिष्ठेऽनूढम् ४३ निर्ऋत्यै परिविविदानम् अनूढे ज्येष्ठे ऊढवन्तम् ४४ आराध्यै देव्यै एदिधिषुःपतिम् ज्येष्ठायां पुत्र्यामनूढायामूढा एदिधिषुः तत्पतिम् ४५ निष्कृत्यै पेशस्कारीं रूपकर्त्रीम् ४६ संज्ञानाय स्मरकारीं कामदीप्तिकरीम् ४७ प्रकामोद्याय तत्संज्ञाय देवाय