पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उखायाः यानि च पात्राणि यूष्णः वसायाः । यूपशब्दस्य यूषन्नादेशः षष्ठ्येकवचने उपधालोपश्च । आसेचनानि आसिच्यते येष्वित्यासेचनानि । ऊष्मण्या । ऊष्मशब्दस्य धारणार्थे यत् प्रत्ययः । यानि च ऊष्मण्यानि पिधाना पिधानानि च चरूणां स्थालीनाम् । ये च अङ्काः अङ्कोपलक्षकाः । शरीरवचनोऽङ्कशब्दः । याश्च सूनाः अश्वविशसनाधिकरणभूताः वेतसमय्यः तानि सर्वाणि परिभूषन्ति 'भूष अलंकारे' । अलंकुर्वन्ति परिरक्षन्ति वा अश्वम् ॥ ३६ ॥
म० एते पदार्था अश्वं परिभूषन्ति अलंकुर्वन्ति। स्वव्यापारेण साधयन्तीत्यर्थः । 'भूष अलंकारे' भौवादिकः । एते के तानाह। यत् उखायाः स्थाल्याः नीक्षणं नितरामीक्षणं पाकपरीक्षार्थं दर्शनम् । कीदृश्या उखायाः । मांस्पचन्याः मांसं पच्यते यस्यां सा मांस्पचनी तस्याः मांसपाकाधिकरणभूतायाः । 'करणाधिकरणयोश्च' (पा. ३ । ३ । ११७) सुट् । 'मांसस्य पचि युड्घञोः' इति मांसस्याकारलोपः 'टिड्ढाणञ्-' (पा० ४ । १ । १५) इति ङीप् । तथा यूष्णः पक्वरसस्य आसेचनानि आसिच्यन्ते येषु तानि आसेचनसाधनानि या यानि पात्राणि । 'पद्दन्' इति यूपशब्दस्य यूषन्नादेशः । यानि च चरूणां मांसपूर्णपात्राणामपिधाना अपिधानानि आच्छादनपात्राणि । कीदृशानि तानि । ऊष्मण्या ऊष्माणं धारयन्ति तानि ऊष्मण्यानि । ऊष्मन्शब्दाद्धारणार्थे यप्रत्ययः । आच्छादने ऊष्मा बहिर्न यातीत्यर्थः । तथा अङ्काः चिह्नसाधनानि हृदयाद्यवयवज्ञापकानि वेतसमयानि । सूनाः विशसनकरणभूताः स्वधित्यादयः । एतेऽश्वं परिभूषयन्ति ॥ ३६ ॥

सप्तत्रिंशी।
मा त्वा॒ऽग्निर्ध्व॑नयीद्धू॒मग॑न्धि॒र्मोखा भ्राज॑न्त्य॒भि वि॑क्त॒ जघ्रि॑: ।
इ॒ष्टं वी॒तम॒भिगू॑र्तं॒ वष॑ट्कृतं॒ तं दे॒वास॒: प्रति॑ गृभ्ण॒न्त्यश्व॑म् ।। ३७ ।।
उ० मा त्वाग्निः हे अश्व, मा त्वा अग्निः ध्वनयीत् । ध्वनिः शब्दकर्मा । शब्दं कारयेत् । कथंभूतः । धूमगन्धिः अल्पधूमावरणः। मांसं हि पचन्नग्निर्दहन्नप्यल्पधूमावरणो भवति । तच्च दह्यमानं सिमसिमाशब्दं करोत्यत एवमुच्यते । मा च उखा भ्राजन्ती संदीपिता अत्यन्ताग्निसंयोगेन । अभिविक्त 'ओविजी भयचलनयोः' अभिविनक्तु अभिनष्टा विदीर्येत वा । उद्भावा वृद्धा मांसरसं तदिहोच्यते । जघ्रिः गन्धग्रहणशीला उखा। नन्वचेतनोखा कथं गन्धं जिघ्रति । उच्यते । अधिष्ठात्र्योऽत्र देवताः सन्तीति पुरस्तात्प्रतिपादितं तञ्चात्र पुनः स्मार्यते । इष्टं योगेन सङ्गतीकृतम् वीतं कामितम् अभिगूर्तम् अभ्युद्यतम् वषट्कृतं चादानकाले । यद्वा इष्टं प्रयाजैः वीतमाप्रीभिः पर्यग्निकृतम् अभिगूर्तं येयजामह इत्यागूर्त्योक्तम् षट्कृतं वषट्कारेण संस्कृतम् तं तादृशम् देवा एव देवासः प्रतिगृभ्णन्ति प्रतिगृह्णन्ति अश्वम् ॥३७॥
म० हे अश्व पच्यमानाश्वावयव, अग्निः त्वा त्वां मा ध्वनयीत् ध्वनिं मा कारयतु । ध्वनौ सति भाण्डभङ्गः स्यात् । दह्यमानं मांसं सिमसिमेति शब्दं करोति तन्मास्तु 'नोनयतिध्वनयति-' (पा० ३।१।५१) इत्यादिना ण्यन्ताच्चङ्प्रतिषेधः 'ह्रयन्तक्षण-' (पा० ७ । २ । ५) इति वृद्ध्यभावः । | कीदृशोऽग्निः । धूमगन्धिः धूमस्य गन्धो लेशो यत्र सः अल्पधूमवानित्यर्थः । 'अल्पाख्यायाम्-' (पा० ५। ४ । १३६) | इति धूमादिकारः । किंच भ्राजन्ती अतितापेन दीप्यमाना उखा स्थाली मा अभिविक्त मा चलतु 'ओविजी भयचलनयोः' लुङि तङि 'झलो झलि' (पा० ८ । २ । २६) इति सिलोपे रूपम् । 'न माङयोगे' (पा०६ । ४ । ७४) इत्यडभावः । कीदृशी उखा । जघ्रिः जिघ्रति गन्धं गृह्णातीति जघ्रिः ‘आदृगम-' (पा० ६।२। १७१) इति किन्प्रत्ययः । अधिष्ठात्र्या देवताया घ्राणम् । तमेवंविधमश्वं देवासः देवाः प्रतिगृभ्णन्ति प्रतिगृह्णन्तु । कीदृशमश्वम् । इष्टं प्रयाजैः । वीतमाप्रीभिः पर्यग्निकृतम् । अभिगूर्तं ये यजामह इत्यागूर्त्योक्तम् । । वषट्कृतं वषट्कारेण संस्कृतम् ॥ ३७ ॥

अष्टत्रिंशी।
नि॒क्रम॑णं नि॒षद॑नं वि॒वर्त॑नं॒ यच्च॒ पड्वी॑श॒मर्व॑तः ।
यच्च॑ पपौ॒ यच्च॑ घा॒सिं ज॒घास॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ।। ३८ ।।
उ० निक्रमणं निषदनम् निक्रमणं गमनं वसतिस्थानात् । निषदनं तत्रैव स्थितिः । विवर्तनं भ्रमणम् । | यान्येतानि चेष्टितानि । यच्च पड्वीशम् । पादेषु विशतीति पड्विशं पादबन्धनमुच्यते अर्वतः अश्वस्य । यच्च पपौ पीतवानुदकम् । यच्च घासिं यवसं जघास । 'घस्लृ अदने' भक्षितवान् । सर्वाणि तानि निक्रमणादीनि ते तव हे अश्व, अपि देवेषु अपि प्रजापतये अस्तु सन्तु । तान्यपि निरर्थकानि मा भूवन्नित्याशयः ॥ ३८ ॥
म० यत् निक्रमणं नितरां क्रमते यत्र तत् निष्क्रमणस्थानम् । निषदनं नितरां सीदत्यस्मिन्निति निषदनमुपवेशनस्थानम् । विवर्तनं विविधं वर्तते यत्र तत् इतस्ततो लुण्ठनस्थानम् । सर्वत्राधिकरणे ल्युट् । यच्चार्वतोऽश्वस्य पड्वीशम् पदेषु विशति पड्वीशं पादबन्धनम् । क्रियापरा वा निक्रमणादयः शब्दाः । आलम्भसमये यानि अश्वस्य निक्रमणादीनि चेष्टितानि । किंच यच्च पपौ यज्जलं पीतवान् यच्च घासिमदनीयं । तृणादिकं जघास भक्षितवान् 'घस्लृ अदने' लिट् । हे अश्व, ता तानि सर्वाणि ते तव निक्रमणादीनि देवेषु अस्तु सन्तु । । देवार्थस्याश्वस्य रोमादीनामपि निरर्थकत्वं मास्त्वित्यर्थः ॥ ३०॥