पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

 उन्नतः शितिबाहुः श्वेतपूर्वपादः शितिपृष्ठः श्वेतपृष्ठः ते त्रयः ऐन्द्राबार्हस्पत्याः इन्द्रबृहस्पतिदेवताः षष्ठे । शुकरूपाः शुकपक्षिसमवर्णाः त्रयो वाजिनाः वाजिदेवताः षष्ठे । कल्माषाः कर्बुरास्त्रयः पशव आग्निमारुताः षष्ठे । एवं पञ्चदश । अथ सप्तमे यूपे । श्यामाः कृष्णवर्णाः पौष्णाः पूषदेवताः सप्तमे ॥ ७ ॥

अष्टमी।
एता॑ ऐन्द्रा॒ग्ना द्वि॑रू॒पा अ॑ग्नीषो॒मीया॑ वाम॒ना अ॑न॒ड्वाह॑ आग्नावैष्ण॒वा व॒शा मै॑त्रावरु॒ण्योऽन्यत॑एन्यो मै॒त्र्य॒: ।। ८ ।।
उ० एताः कर्बुरवर्णास्त्रय इन्द्राग्निदेवताः सप्तमे । द्विरूपाः वर्णद्वयोपेतास्त्रयः अग्नीषोमीयाः अग्निसोमदेवत्याः सप्तमे । वामना अनड्वाहः त्रय आग्नावैष्णवाः अग्निविष्णुदेवत्याः सप्तमे । वशाः वन्ध्याः तिस्रोऽजाः मैत्रावरुण्यः तद्देवताः सप्तमे । अथाष्टमे यूपे । अन्यत एन्यः एकपार्श्वे कर्बुरवर्णास्तिस्रोऽजा मैत्र्याः मित्रदेवत्याः अष्टमे ॥ ८ ॥
म० एताः कर्बुरवर्णास्त्रय इन्द्राग्निदेवताः सप्तमे । द्विरूपाः वर्णद्वयोपेतास्त्रयः अग्नीषोमीयाः अग्निसोमदेवत्याः सप्तमे । वामना अनड्वाहः त्रय आग्नावैष्णवाः अग्निविष्णुदेवत्याः सप्तमे। वशाः वन्ध्याः तिस्रोऽजाः मैत्रावरुण्यः तद्देवताः सप्तमे । अथाष्टमे यूपे । अन्यत एन्यः एकपार्श्वे कर्बुरवर्णास्तिस्रोऽजा मैत्र्यः मित्रदेवत्याः अष्टमे ॥ ८॥

नवमी।
कृ॒ष्णग्री॑वा आग्ने॒या ब॒भ्रव॑: सौ॒म्याः श्वे॒ता वा॑य॒व्या अवि॑ज्ञाता॒ अदि॑त्यै॒ सरू॑पा धा॒त्रे व॑त्सत॒र्यो॒ दे॒वानां॒ पत्नी॑भ्यः ।। ९ ।।
उ० कृष्णग्रीवा आग्नेयास्त्रयः अस्मे । बभ्रवः कपिलवर्णास्त्रयः सौम्याः सोमदेवत्याः अष्टमे । श्वेतास्त्रयः वायव्याः वायुदेवत्याः अष्टमे । अविज्ञाताः चिह्नविशेषेणाज्ञातास्त्रयः अदितिदेवत्या अष्टमे । अथ नवमे सरूपाः धातृदेवत्याः नवमे । वत्सतर्यः देवपत्नीदेवत्यास्तिस्रः नवमे ॥ ९ ॥
म० कृष्णग्रीवा आग्नेयास्त्रयः अष्टमे । बभ्रवः कपिलवर्णास्त्रयः सौम्याः सोमदेवत्याः अष्टमे । श्वेतास्त्रयः वायव्याः वायुदेवत्याः अष्टमे । अविज्ञाताः चिह्न विशेषेणाज्ञातास्त्रयः अदितिदेवत्याः अष्टमे । अथ नवमे । सरूपाः धातृदेवत्याः नवमे । वत्सतर्यः देवपत्नीदेवत्यास्तिस्रः नवमे ॥ ९ ॥

दशमी।
कृ॒ष्णा भौ॒मा धू॒म्रा आ॑न्तरि॒क्षा बृ॒हन्तो॑ दि॒व्याः श॒बला॑ वैद्यु॒ताः सि॒ध्मास्ता॑र॒काः ।। १० ।।
उ० कृष्णाः भौमाः भूमिदेवत्यास्त्रयः नवमे । धूम्रवर्णास्त्रयः अन्तरिक्षदेवत्याः नवमे । बृहन्तो महान्तस्त्रयः दिव्याः द्युदेवत्याः नवमे । अथ दशमे शबलाः कर्बुरास्त्रयः वैद्युताः । विद्युद्देवत्याः दशमे । सिध्माः सिध्माख्यरोगवन्तस्त्रयः तारकाः नक्षत्रदेवत्याः दशमे ॥ १० ॥
म० कृष्णाः भौमा भूमिदेवत्यास्त्रयः नवमे । धूम्रवर्णास्त्रयः अन्तरिक्षदेवत्याः नवमे । बृहन्तो महान्तस्त्रयः दिव्याः द्युदेवत्याः नवमे । अथ दशमे शबलाः कर्बुरास्त्रयः वैद्युताः विद्युद्देवत्याः दशमे । सिध्माः सिध्माख्यरोगवन्तस्त्रयः नक्षत्रदेवत्याः दशमे ॥ १० ॥

एकादशी।
धू॒म्रान्व॑स॒न्तायाल॑भते श्वे॒तान्ग्री॒ष्माय॑ कृ॒ष्णान्व॒र्षाभ्यो॑ऽरु॒णाञ्छ॒रदे॒ पृष॑तो हेम॒न्ताय॑ पि॒शङ्गा॒ञ्छिशि॑राय ।। ११ ।।
उ० धूम्रवर्णान् त्रीनजान् वसन्ताय वसन्तदेवतानालभते नियुनक्ति दशमे । श्वेतांस्त्रीन् ग्रीष्माय दशमे । कृष्णवर्णान् त्रीन् वर्षाभ्यः दशमे । अथैकादशे अरुणान् रक्तांस्त्रीन् शरदे एकादशे। पृषतः नानावर्णबिन्दुयुक्तान त्रीन् हेमन्ताय एकादशे । पिशङ्गान् लोहितमिश्रकपिलवर्णांस्त्रीन् शिशिराय एकादशे ॥ ११ ॥
म० धूम्रवर्णान् त्रीनजान् वसन्ताय वसन्तदेवतानालभते नियुनक्ति दशमे । श्वेतान त्रीन् ग्रीष्माय दशमे । कृष्णवर्णान् त्रीन्वर्षाभ्यः दशमे । अथैकादशे अरुणान् रक्तान् त्रीन् शरदे एकादशे । पृषतः नानावर्णबिन्दुयुक्तान् त्रीन् हेमन्ताय एकादशे । पिशङ्गान् लोहितमिश्रकपिलवर्णान् त्रीन् शिशिराय एकादशे ॥ ११ ॥

द्वादशी।
त्र्यव॑यो गाय॒त्र्यै पञ्चा॑वयस्त्रि॒ष्टुभे॑ दित्य॒वाहो॒ जग॑त्यै त्रिव॒त्सा अ॑नु॒ष्टुभे॑ तुर्य॒वाह॑ उ॒ष्णिहे॑ ।। १२ ।।
उ० सार्धसंवत्सरास्त्रयः गायत्र्यै एकादशे । सार्धद्विसंवसरास्त्रयः त्रिष्टुभे एकादशे । अथ द्वादशे यूपे । दित्यवाहः । द्विसंवत्सरास्त्रयो जगत्यै द्वा० । त्रिवत्साः त्रिवर्षास्त्रयोऽनुष्टुभे द्वा० । तुर्यवाहः सार्धत्रिसंवत्सरास्त्रय उप्णिहे द्वा० ॥ १२ ॥
म० सार्धसंवत्सरास्त्रयः गायत्र्यै एकादशे । सार्धद्विसंवत्सरास्त्रयः त्रिष्टुभे एकादशे । अथ द्वादशे यूपे । दित्यवाहः द्विसंवत्सरास्त्रयो जगत्यै द्वा० । त्रिवत्साः त्रिवर्षाः त्रयोऽनुष्टभे द्वा० । तुर्यवाहः सार्धत्रिसंवत्सरास्त्रय उष्णिहे द्वा० ॥ १२ ॥
.
त्रयोदशी।
प॒ष्ठ॒वाहो॑ वि॒राज॑ उ॒क्षाणो॑ बृह॒त्या ऋ॑ष॒भाः क॒कुभे॑ऽन॒ड्वाह॑: प॒ङ्क्त्यै धे॒नवो॑ऽतिच्छन्दसे ।। १३ ।।
उ० पष्ठवाहः चतुःसंवत्सरास्त्रयो विराजे द्वा० । उक्षाणः