पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/४५६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० पृश्निः विचित्रवर्णा तिरश्चीनानि पृश्नीनि बिन्दवो यस्य सः । एवमूर्ध्वानि पृश्नीनि यस्य सः । ते त्रयो मारुताः मरुद्देवत्यास्तृतीये । फलगूः अपुष्टशरीरा लोहितोर्णी रक्तरोमवती पलक्षी श्वेता । पलक्षशब्दो वलक्षार्थः श्वेतपर्यायः । तास्तिस्रोऽजाः सारस्वत्यः सरस्वतिदैवतास्तृतीये । प्लीहाकर्णः प्लीहा रोगविशेषः तद्युक्तौ कर्णौ यस्य स प्लीहकर्णः 'अन्येषामपि दृश्यते' इति संहितायां दीर्घः । शुण्ठकर्णः ह्रस्वकर्णः अध्यालोहकर्णः रक्तवर्णकर्णः ते त्रयस्त्वाष्ट्राः त्वष्टृदैवतास्तृतीये । कृष्णग्रीवः शितिकक्षः श्वेतकक्षः अञ्जिसक्थः अञ्जि पुण्ड्रं सक्थ्नोरूर्वोर्यस्य सः ते त्रय ऐन्द्राग्नाः इन्द्राग्निदैवताः तृतीये । पञ्चदश पूर्णाः । कृष्णाञ्जिः कृष्णपुण्ड्रः अपाञ्जिः महाञ्जिः अल्पमञ्जि यस्य महदञ्जि यस्य तथा ते त्रय उषस्याः उषादेवताश्चतुर्थे यूपे नियोज्याः ॥ ४ ॥
म० पृश्निः विचित्रवर्णा तिरश्चीनानि पृश्नीनि बिन्दवो यस्य सः एवमूर्ध्वानि पृश्नीनि यस्य सः ते त्रयो मारुताः मरुद्देवत्यास्तृतीये । फल्गूः अपुष्टशरीरा लोहितोर्णी रक्तरोमवती पलक्षी श्वेता । पलक्षशब्दो वलक्षार्थः श्वेतपर्यायः । तास्तिस्रोऽजाः सारस्वत्याः सरस्वतिदैवतास्तृतीये । प्लीहाकर्णः प्लीहा रोगविशेषः तद्युक्तौ कर्णौ यस्य स प्लीहकर्णः ‘अन्येषामपि दृश्यते' (पा० ६ । ३ । १३७) इति संहितायां दीर्घः । शुण्ठकर्णः ह्रस्वकर्णः अध्यालोहकर्णः रक्तवर्णकर्णः । ते त्रयस्त्वाष्ट्राः त्वष्टृदैवतास्तृतीये । कृष्णग्रीवः शितिकक्षः श्वेतकक्षः अञ्जिसक्थः अञ्जि पुण्ड्रं सक्थ्नोरूर्वोर्यस्य सः ते त्रय ऐन्द्राग्नाः इन्द्राग्निदैवताः तृतीये । पञ्चदश पूर्णाः । कृष्णाञ्जि कृष्णपुण्ड्र: अल्पाञ्जिः महाञ्जिः अल्पमञ्जि यस्य महदञ्जि यस्य स तथा। ते त्रय उषस्या उषोदेवताश्चतुर्थे यूपे नियोज्याः ॥ ४ ॥

पञ्चमी।
शि॒ल्पा वै॑श्वदे॒व्यो रोहि॑ण्य॒स्त्र्यव॑यो वा॒चेऽवि॑ज्ञाता॒ अदि॑त्यै॒ सरू॑पा धा॒त्रे व॑त्सत॒र्यो दे॒वानां॒ पत्नी॑भ्यः ।। ५ ।।
उ०. विचित्रवर्णास्तिस्रः स्त्रीपशवो वैश्वदेव्यः विश्वदेवदेवताश्चतुर्थे । रोहिण्यः रक्तवर्णाः त्र्यवयः सार्धसंवत्सरास्तिस्रोऽजा वाचे वाग्देवताश्चतुर्थे । अविज्ञाताः कृष्णग्रीवादिचिह्नविज्ञानशून्यास्त्रयः पशवोऽदित्यै अदितिदेवताश्चतुर्थे । सरूपाः समानरूपास्त्रयः पशवो धात्रे धातृदेवताश्चतुर्थे । एवं पञ्चदश । अथ पञ्चमे यूपे तिस्रो वत्सतर्यः बालछाग्यो देवतानां पत्नीभ्यः तद्देवताः पञ्चमे ॥५॥
म० विचित्रवर्णास्तिस्रः स्त्रीपशवो वैश्वदेव्यः विश्वदेवदेव-ताश्चतुर्थे । रोहिण्यः रक्तवर्णाः व्यवयः सार्धसंवत्सरास्तिस्रोऽजा वाचे वाग्देवताचतुर्थे । अविज्ञाताः कृष्णग्रीवादिचिह्नविज्ञानशून्यास्त्रयः पशवोऽदिलै अदितिदेवताश्चतुर्थे । सरूपाः समानरूपास्त्रयः पशवो धात्रे धातृदेवताश्चतुर्थे एवं पञ्चदश । अथ पञ्चमे यूपे तिस्रो वत्सतर्यः बालछाग्यो देवानां पत्नीभ्यः तद्देवताः पञ्चमे ॥ ५॥

षष्ठी।
कृ॒ष्णग्री॑वा आग्ने॒याः शि॑ति॒भ्रवो॒ वसू॑ना॒ᳪ रोहि॑ता रु॒द्राणा॑ᳪ श्वे॒ता अ॑वरो॒किण॑ आदि॒त्यानां॒ नभो॑रूपाः पार्ज॒न्याः ।। ६ ।।
उ० कृष्णग्रीवाः कालकण्ठास्त्रयः पशव आग्नेयाः अग्निदेवताः पञ्चमे। शितिभ्रवः श्वेतवर्णभ्रूयुक्तास्त्रयो वसूनां वसुदेवताः पञ्चमे । रोहिताः रक्तवर्णास्त्रयः रुद्राणां रुद्रदेवताः पञ्चमे । श्वेताः अवरोकिणः अवलोकिनः । यद्वा अवाधस्ताद्रोकः छिद्रं येषां ते । 'छिद्रं निर्व्य॑थनं रोकः' । ते त्रयः आदित्यानां तद्देवताः पञ्चमे । अथ षष्ठे यूपे । नभोरूपाः पार्जन्यास्त्रयः षष्ठे ॥ ६ ॥
म० कृष्णप्रीवाः कालकण्ठास्त्रयः पशव आग्नेयाः अग्निदेवताः पञ्चमे । शितिभ्रवः श्वेतवर्णभ्रूयुक्तास्त्रयो वसूनां वसुदेवताः पञ्चमे । रोहिताः रक्तवर्णास्त्रयः रुद्रदेवताः पञ्चमे । श्वेताः अवरोकिणः अवलोकिनः । यद्वा अवाधस्तादोकः छिद्रं येषां ते 'छिद्रं निर्व्य॑थनं रोकः' इति कोशः। ते त्रयः आदित्यानां तद्देवताः पञ्चमे । अथ षष्टे यूपे । नभोरूपाः पार्जन्यास्त्रयः षष्ठे ॥६॥

सप्तमी।
उ॒न्न॒त ऋ॑ष॒भो वा॑म॒नस्त ऐ॑न्द्रवैष्ण॒वा उ॑न्न॒तः शि॑तिबा॒हुः शि॑तिपृ॒ष्ठस्त ऐ॑न्द्राबार्हस्प॒त्याः शुक॑रूपा वाजि॒नाः क॒ल्माषा॑ आग्निमारु॒ताः श्या॒माः पौ॒ष्णा: ।। ७ ।।
उ० उन्नतः उच्चः ऋषभः पुष्टः वामनः बहुन्यपि वयसि गते वृद्धिरहितः ते त्रय ऐन्द्रावैष्णवाः इन्द्र विष्णुदेवताः षष्ठे । उन्नतः शितिबाहुः श्वेतपूर्वपादः शितिपृष्ठः श्वेतपृष्ठः ते प्रयः ऐन्द्राबार्हस्पत्याः इन्द्रबृहस्पतिदेवताः षष्ठे । शुकरूपाः शुकपक्षिसमवर्णाः यो वाजिनाः वाजिदेवताः षष्ठे । कल्माषाः कर्बुरास्त्रयः पशव आनिमारुताः पष्ठे । एवं पञ्चदश । अथ सप्तमे यूपे । श्यामाः शुक्लकृष्णवर्णाः पौष्णाः पूषदेवताः सप्तमे ॥ ७ ॥
म० उन्नतः उच्चः ऋषभः पुष्टः वामनः बहुन्यपि वयसि गते वृद्धिरहितः ते त्रय ऐन्द्रावैष्णवाः इन्द्रविष्णुदेवताः षष्ठे ।