पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

न्नामसु पठितम् । स्तेना गुप्तचोरास्तेषां पालकाय नमः । अपहारबुद्ध्या निरन्तरं चरतीति निचेरुः । परित आपणवाटिकादौ हरणेच्छया चरतीति परिचरः तस्मै नमः । अरण्यानां वनानां पतये नमः । रुद्रो लीलया चोरादिरूपं धत्ते । यद्वा | रुद्रस्य जगदात्मकत्वाच्चोरादयो रुद्रा एव ध्येयाः । यद्वा स्तेनादिशरीरे जीवेश्वररूपेण रुद्रो द्विधा तिष्ठति तत्र जीवरूपं स्तेनादिशब्दवाच्यं तदीश्वररुद्ररूपं लक्षयति यथा शाखाग्रं चन्द्रस्य लक्षकम् । किं बहुना लक्ष्यार्थविवक्षया मन्त्रेषु लौकिकाः शब्दाः प्रयुक्ताः ॥ २० ॥

एकविंशी।
नमो॒ वञ्च॑ते परि॒वञ्च॑ते स्तायू॒नां पत॑ये॒ नमो॒ नमो॑ निष॒ङ्गिण॑ इषुधि॒मते॒ तस्क॑राणां॒ पत॑ये॒ नमो॒ नम॑: सृका॒यिभ्यो॒ जिघा॑ᳪसद्भ्यो मुष्ण॒तां पत॑ये॒ नमो॒ नमो॑ऽसि॒मद्भ्यो॒ नक्त॒ञ्चर॑द्भ्यो विकृ॒न्तानां॒ पत॑ये॒ नम॑: ।। २१ ।।
उ० नमो वञ्चते । वञ्चतिर्गत्यर्थः गन्त्रे । परिवञ्चते सर्वतोगन्त्रे स्तायूनां पतये नमः । स्तायुश्चौर एव । नमो निषङ्गिणे खड्गिणे इषुधिमते इषुधिरस्यास्तीति इषुधिमान् । तस्कराणां पतये नमः । तस्करश्चौर एव । नमः सृकायिभ्यः। सृक इति वज्रनामसु पठितम् । सृकेण गृहीतेन एतुं शीलमेषामिति सृकायिणः । जिघांसद्यः हन्तुमिच्छद्भ्यः मुष्णतां पतये नमः । 'मुष स्तेये' नमोऽसिमद्भ्यः । असिः खड्गं तत्संयुक्तेभ्यः नक्तंचरद्भ्यः रात्रौ गच्छद्भ्यः विकृन्तानां पतये नमः । विकर्तनशीला विकृन्ताः ॥ २१ ॥
म० वञ्चति प्रतारयतीति वञ्चन् परि सर्वतो वञ्चति परिवञ्चन् तस्मै नमः । स्वामिन आप्तो भूत्वा व्यवहारे कुत्रचित्तदीयं धनमपह्नुते तद्वञ्चनम् सर्वव्यवहारे धनापह्नवः परिवञ्चनम् । गुप्तचोरा द्विविधाः । रात्रौ गृहे खातादिना द्रव्यहर्तारः स्वीया एवाहर्निशमज्ञाता हर्तारश्च । पूर्व स्तेनाः उत्तरे स्तायवः तेषां पतये नमः । निषङ्गः खड्गो बाणो वा सोऽस्यास्तीति इषुधिर्बाणाधारोस्यास्तीतीषुधिमान् तदुभयरूपाय नमः। तस्कराः प्रकटचोरास्तेषां पतये नमः । सृक इति वज्रनाम । सृकेन वज्रेण सह यन्ति गच्छन्तीत्येवंशीलाः सृकायिणः अतएव शत्रून् हन्तुमिच्छन्ति जिघांसन्तीति जिघांसन्तः । हन्तेः शत्रन्ताच्छतृप्रत्ययः तेभ्यो रुद्रेभ्यो नमः । क्षेत्रादिषु धान्यापहर्तारो मुष्णन्तस्तेषां पालकाय नमः । असयः खड्गाः सन्ति येषां तेऽसिमन्तः नक्तं रात्रौ चरन्ति ते नक्तंचरन्तः खड्गं धृत्वा रात्रौ वीथिनिर्गतप्राणिघातकास्तेभ्यो रुद्रेभ्यो नमः । विकृन्तन्ति छिन्दन्ति ते विकृन्ताः छित्त्वापहरन्तस्तेषां पतये नमः ॥ २१ ॥

द्वाविंशी।
नम॑ उष्णी॒षिणे॑ गिरिच॒राय॑ कुलु॒ञ्चानां॒ पत॑ये॒ नमो॒ नम॑ इषु॒मद्भ्यो॑ धन्वा॒यिभ्य॑श्च वो॒ नमो॒ नम॑ आतन्वा॒नेभ्य॑: प्रति॒दधा॑नेभ्यश्च वो॒ नमो॒ नम॑ आ॒यच्छ॒द्भ्यो ऽस्य॑द्भ्यश्च वो॒ नम॑: ।। २२ ।।
उ० नमः उष्णीषिणे उष्णीषोऽस्यास्तीत्युष्णीषी । उष्णीषः शिरोवेष्टनम् । गिरिचराय गिरौ पर्वते चरतीति गिरिचरः । कुलुञ्चानां पतये नमः । कुत्सितं लुञ्चति कुलानि वा लुञ्चतीति कुलुञ्चः । नम इषुमद्भ्यः धन्वायिभ्यश्च वो नमः । व्याख्यायां बहुवचनधर्मः प्रदृश्यते । नमोस्तु ये यूयमिषुमन्तस्तेभ्य इषुमद्भ्यः । धनुषा गृहीतेन एतुं शीलमेषामिति धन्वायिनः । 'वा संज्ञायाम्' इति धनुषो धन्वन् धन्वायिभ्यः । चकारः समुच्चयार्थीयः । वः युष्मभ्यं नमः । आतन्वानेभ्यः उत्क्षिप्तज्याकानि धनूंषि कुर्वाणेभ्यः । प्रतिदधानेभ्यश्च वो नमः । प्रतिदधानाः संधानं कुर्वाणाः । नम आयच्छन्भ्यः् आकर्षद्भ्यो धनूंषि । अस्यद्भ्यश्च वो नमः । 'असु क्षेपणे' काण्डानि क्षिपद्भ्यः ॥ २२ ॥
म० उष्णीषं शिरोवेष्टनमस्यास्तीत्युष्णीषी उष्णीषेण शिरःप्रावृत्य ग्रामेऽपहर्तुं प्रवृत्तः गिरौ चरति गिरिचरः अध्वन्यानां वस्त्राद्यपहर्तुं पर्वतादिविषमस्थानचारी तदुभयरूपाय रुद्राय नमः । कुं भूमिं क्षेत्रगृहादिरूपां लुञ्चन्ति हरन्ति कुलुञ्चाः कुत्सितं लुञ्चन्ति वा तेषां पालकाय नमः । इषवो विद्यन्ते येषां ते इषुमन्तः जनान्भीषयितुं बाणधारिणस्तेभ्यो नमः । धन्वना धनुषा सह यन्ति गच्छन्ति धन्वायिनः हे रुद्राः, धनुर्धारिभ्यो वो युष्मभ्यं नमः । चकारो मन्त्रभेदज्ञापनार्थः । एवमग्रेऽपि । आतन्वन्त्यारोपयन्ति ज्यां धनुषीत्वातन्वानास्तद्रूपेभ्यो नमः । प्रतिदधते संदधते बाणं धनुषीति संदधानास्तेभ्यो वो युष्मभ्यं नमः । आयच्छन्त्याकर्षन्ति धनूंषि ते आयच्छन्तः तेभ्यो नमः । अस्यन्ति क्षिपन्ति बाणानित्यस्यन्तस्तेभ्यो नमः । 'असु क्षेपणे' दिवादिः ॥ २२ ॥

त्रयोविंशी।
नमो॑ विसृ॒जद्भ्यो॒ विध्य॑द्भ्यश्च वो॒ नमो॒ नम॑: स्व॒पद्भ्यो॒ जाग्र॑द्भ्यश्च वो॒ नमो॒ नम॒: शया॑नेभ्य॒ आसी॑नेभ्यश्च वो॒ नमो॒ नम॒स्तिष्ठ॑द्भ्यो॒ धाव॑द्भ्यश्च वो॒ नम॑: ।। २३ ।।
उ० नमो विसृजद्भ्यः काण्डानि क्षिपद्भ्यः योद्धारं प्रति । विध्यद्भ्यश्च वो नमः । विध्यन्ति ताडयन्ति ये शरैस्तेभ्यो विध्यद्भ्यः । नमः स्वपद्भ्यो जाग्रद्भ्यश्च वो नमः । नमः शयानेभ्य आसीनेभ्यश्च वो नमः । नमः तिष्ठद्भ्यो