पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/३०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पालकाय नमः । पथिशब्दो मार्गवाची । उत्तरदक्षिणतृतीयामार्गाः श्रुतावुक्ताः । हरिकेशाय नीलवर्णकेशाय जरारहितायोपवीतिने मङ्गलार्थयज्ञोपवीतधारिणे रुद्राय नमः । पुष्टानां गुणपूर्णानां नराणां पतये स्वामिने नमः ॥ १७ ॥

अष्टादशी।
नमो॑ बभ्लु॒शाय॑ व्या॒धिनेऽन्ना॑नां॒ पत॑ये॒ नमो॒ नमो॑ भ॒वस्य॑ हेत्यै॒ जग॑तां॒ पत॑ये॒ नमो॒ नमो॑ रु॒द्राया॑तता॒यिने॒ क्षेत्रा॑णां॒ पत॑ये॒ नमो॒ नम॑: सू॒तायाह॑न्त्यै॒ वना॑नां॒ पत॑ये॒ नम॑: ।। १८ ।।
उ० नमो बभ्लुशाय बभ्रुवर्णाय । बभ्रुः कपिलः। व्याधिने विध्यतीति व्याधी । अन्नानां पतये नमः । नमो भवस्य हेत्यै । भवः संसारः । हेतिरायुधम् । संसारस्य छेत्त्रे । जगतां पतये नमः जगतां जङ्गमानाम् । नमो रुद्राय आततायिने । आततेन धनुषा एतीत्याततायी उद्यतायुधाय। क्षेत्राणां पतये नमः । नमः सूताय सूतोऽश्वसारथिः । अहन्त्यै अहन्त्रे । नहि सूतः कंचिदपि हन्ति । वनानां पतये नमः ॥ १८ ॥
म० बभ्लुशः कपिलवर्णः । यद्वा बिभर्ति रुद्रमिति बभ्लुर्वृषभस्तस्मिन् शेते स बभ्लुशः । विध्यति शत्रूनिति व्याधी तस्मै रुद्राय नमः । अन्नानां पालकाय नमः । भवस्य संसारस्य हेत्यै आयुधाय संसारनिवर्तकाय रुद्राय नमः । जगतां पालकाय रुद्राय नमः । आततेन विस्तृतेन धनुषा सह एति गच्छतीति आततायी उद्यतायुधस्तस्मै रुद्राय नमः । क्षेत्राणां देहानां पालकाय नमः । न हन्तीत्यहन्तिस्तस्मै अहन्त्रे सूताय सारथये तद्रूपाय रुद्राय नमः । सारथिर्न हन्ति वनानां पालकाय नमः ॥ १८ ॥

एकोनविंशी।
नमो॒ रोहि॑ताय स्थ॒पत॑ये वृ॒क्षाणां॒ पत॑ये॒ नमो॒ नमो॑ भुव॒न्तये॑ वारिवस्कृ॒तायौष॑धीनां॒ पत॑ये॒ नमो॒ नमो॑ म॒न्त्रिणे॑ वाणि॒जाय॒ कक्षा॑णां॒ पत॑ये॒ नमो॒ नम॑ उ॒च्चैर्घो॑षायाक्र॒न्दय॑ते पत्ती॒नां पत॑ये॒ नम॑: ।। १९ ।।
उ० नमो रोहिताय । वर्णतो निर्देशः । स्थपतये स्थपतिर्गृहादीनां चेता। चयनं करोति विश्वकर्मरूपेण । वृक्षाणां पतये नमः । नमो भुवन्तये भुवं पृथिवीं तनोति विस्तारयतीति भुवन्तिः । वारिवस्कृताय वरिवो धनम् तत्कृतं येन स वारिवस्कृतः । दीर्घत्वं छान्दसम् । ओषधीनां पतये नमः । नमो मन्त्रिणे । प्रसिद्ध एव मन्त्री । वाणिजः वणिगेव वाणिजः । कक्षाणां पतये नमः । नदीकक्षः पर्वतकक्षो वा । नम उच्चैर्घोषाय महाशब्दाय । आक्रन्दयते आक्रन्दः प्रसिद्धः । पत्तीनां पतये नमः । हस्त्यश्वरथपदातिसंख्या पत्तिः ॥ १९॥
म० रोहितो लोहितवर्णः स्थपतिर्गृहादिकर्ता विश्वकर्मरूपेण तस्मै नमः । वृक्षाणां पालकाय नमः । भुवं तनोतीति भुवन्तिर्भूमण्डलविस्तारकः । वरिवो धनं करोतीति वरिवस्कृत् स एव वारिवस्कृतः स्वार्थेऽण् । स्थानभोग्यकराय नमः । ओषधीनां ग्राम्यारण्यानां पालकाय नमः । आलोचनकुशलो मन्त्री । वणिगेव वाणिजः व्यापारकर्ता तद्रूपाय नमः । वनगता गुल्मवीरुधादयः कक्षास्तेषां पालकाय नमः । उच्चैर्घोषो ध्वनिर्यस्य स उच्चैर्घोषः । आक्रन्दयति रोदयतीत्याक्रन्दयन् युद्धे महाशब्दाय रिपुरोदकाय नमः । पत्तीनां सेनाविशेषाणां पदातीनां वा पालकाय नमः । ‘एको रथो गजश्चाश्वास्त्रयः पञ्च पदातयः । एष सेनाविशेषोऽयं पत्तिरित्यभिधीयते' इति व्यासोक्तेः (भार० १ । २८९) ॥ १९ ॥

विंशी।
नम॑: कृत्स्नाय॒तया॒ धाव॑ते॒ सत्व॑नां॒ पत॑ये॒ नमो॒ नम॒: सह॑मानाय निव्या॒धिन॑ आव्या॒धिनी॑नां॒ पत॑ये॒ नमो॒ नमो॑ निष॒ङ्गिणे॑ ककु॒भाय॑ स्ते॒नानां॒ पत॑ये॒ नमो॒ नमो॑ निचे॒रवे॑ परिच॒रायार॑ण्यानां॒ पत॑ये॒ नम॑: ।।२० ।।
उ० नमः कृत्स्नायतया । कृत्स्नायततायेति प्राप्ते तकारलोपश्छान्दसः । कृत्स्नं चासावायतं च कृत्स्नायतः पूरितधनुः तस्य भावः कृत्स्नायतया तया हेतुभूतया धावते । आकर्णपूरितधनुषेत्यर्थः । सत्वनां सत्वानां पतये नमः । नमः सहमानाय अभिभवनशीलाय निव्याधिने नितरां विध्यतीति निव्याधी । आव्याधिनीनां पतये नमः आविध्यन्ति याः सेनास्ता आव्याधिन्यः । नमो निषङ्गिणे निषङ्गः | खड्गम् । ककुभाय ककुभ इति महन्नामसु पठितम् । | स्तेनानां पतये नमः स्तेनश्चौरः । नमो निचेरवे नितरां चेरतीति निचेरुः । परिचराय सर्वतोगन्रेआव । अरण्यानां पतये नमः ॥ २० ॥
म० कृत्स्नं समग्रमायतं विस्तृतम् अर्थाद्धनुः यस्य स कृत्स्नायतस्तस्य भावः कृत्स्नायतता तया आकर्णपूर्णधनुष्ट्वेन धावते युद्धे शीघ्रं गच्छते रुद्राय नमः । शीघ्रगतौ सरतेर्धावादेशः तलोपश्छान्दसः । यद्वा कृत्स्नः । सर्व आयो लाभो यस्य स कृत्स्नायस्तस्य भावः कृत्स्नायतता तया धावते सर्वलाभप्रापकत्वेन धावते । यत्र गच्छति तत्र सर्वेष्टं लाभं प्राप्नोतीत्यर्थः । सत्वन्शब्दः प्राणिवाची । सत्वानः सात्विकाः शरणागताः प्राणिनस्तेषां पालकाय नमः । सहतेऽरीनभिभवतीति सहमानः । नितरां विध्यति हन्ति शत्रूनिति निव्याधी तस्मै नमः । आ समन्ताद्विध्यन्तीत्याव्याधिन्यः शूरसेनास्तासां पालकाय नमः । निषङ्गः खड्गः सोऽस्यास्तीति निषङ्गी ककुभो महान् तस्मै रुद्राय नमः । ककुभ इति मह