पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

इह रेतःसिग्वेलायां हे इष्टके, त्वा त्वां सादयतामुपधत्ताम् । केचिदिदं यजुश्चतुर्थपादेन परिकल्प्य त्रिष्टुभं वदन्ति ॥१॥

द्वितीया ।
कुला॒यिनी॑ घृ॒तव॑ती॒ पुर॑न्धिः स्यो॒ने सी॑द॒ सद॑ने पृथि॒व्याः ।
अ॒भि त्वा॑ रु॒द्रा वस॑वो गृणन्त्वि॒मा ब्रह्म॑ पीपिहि॒ सौभ॑गायाश्विना॑ऽध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ।। २ ।।
उ० कुलायिनी । कुलायं गृहं तदाकारा कुलायिनी । सा हि रेतःसिग्वेलायामिष्टकाभिरुपहिताभिर्गृहाकारा भवति घृतवती भविष्यता योगेन । इह हि वसोर्धाराद्या आहुतयो होष्यन्ते । पुरंधिः । बहु हि इष्टकाजातमियं धारयति चितिसंबद्धम् । या त्वमित्थंभूता तां त्वां ब्रूमः । स्योने सीद सदने पृथिव्याः सुखरूपे उपविश स्थाने पृथिव्याः । किंच अभि त्वा अभिगृणन्तु त्वां रुद्रादयः। किंच । इमां इमानि ब्रह्माणि पीपिहि आप्यायस्व । सौभगाय महते ऐश्वर्याय । अश्विनेति व्याख्यातम् ॥ २॥
म० हे इष्टके, पृथिव्याः सदने प्रथमचितिरूपे स्थाने स्योने सुखरूपे त्वं सीद तिष्ठ । 'पृथिवी वै प्रथमा चितिस्तस्यै शिवे स्योने सीद सदने' ( ८ । २।१।५) इति श्रुतेः । त्वम् । कुलायिनी 'कुलायो नीडमस्त्रियाम्' कुलायो नीडं गृहमस्या अस्तीति गृहाकारा । रेतःसिग्वेलायामिष्टकोपचिता सा गृहाकारा भवति । 'कुलायमिव वै द्वितीया चितिः' (८ । २।१।५) इति श्रुतेः । अत्र सादृश्यार्थ इनिः । तथा घृतवती होष्यमाणाज्ययुता वसोर्धारा ह्यत्र होष्यन्ते । पुरन्धिः पुरं बहु इष्टकाजातं दधातीति पुरु बहुधा धीयते स्थाप्यत इति वा । किंच रुद्रा वसवश्चोपलक्षणम् । सर्वे देवाः त्वा त्वामभिगृणन्तु स्तुवन्तु । किंच सौभगाय ऐश्वर्याय इमा इमानि ब्रह्म ब्रह्माणि मन्त्रान् पीपिहि आप्यायस्व मन्त्रान् प्राप्नुहि ।। अस्मन्मन्त्रोपहिता सौभाग्याय भवेति भावः । इमेति सुप आकारः । ब्रह्मेति सुपो लोपः । 'पि गतौ' तुदादिः । 'बहुलं छन्दसि' (पा. २ । ४ । ७६ ) इति शपः श्लुः 'श्लौ' (पा० । ६ । १ । १० ) इति द्वित्वं 'तुजादीनां दीर्घोऽभ्यासस्य' (पा० ६ । १।७) इति अभ्यासदीर्घः । अश्विनेत्यादि पूर्ववत् ॥ २॥

तृतीया ।
स्वैर्दक्षै॒र्दक्ष॑पिते॒ह सी॑द दे॒वाना॑ᳪ सु॒म्ने बृ॑ह॒ते रणा॑य ।
पि॒तेवै॑धि सू॒नव॒ आ सु॒शेवा॑ स्वावे॒शा त॒न्वा सं वि॑शस्वा॒श्विना॑ऽध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ।। ३ ।।
उ० स्वैर्दक्षैः स्वैर्वीर्यैः । दक्षपिता वीर्यस्य पालयित्री सती इह द्वितीयायां चितौ सीद अवस्थानं कुरु । दक्षशब्द इह वीर्यवचनः । प्रयोजनमाह । देवानां सुम्ने सुखाय । कथं नाम देवाः सुखं प्राप्नुयुरिति । बृहते रणाय महते च रमणीयाय यज्ञक्रतवे । किंच । पितेवैधि सूनवे पिता इव भव पुत्राय । आसुशेवा मर्यादया साधु सुखयित्री । किंच स्वावेशाः स्वावेशेति विभक्तिव्यत्ययः । स्वावेशया तन्वा आत्मना संविशस्व अवस्थानं कुरु । अश्विनावध्वर्यू । उक्तार्थः ॥ ३॥
म० हे इष्टके, त्वमिह द्वितीयायां चितौ सीद तिष्ठ स्वैर्दक्षैः वीर्यैः सामर्थ्यैः सह । दक्षशब्दोऽत्र वीर्यार्थः । 'स्वेन वीर्येणेह | सीद' (८।२।१।६) इति श्रुतेः । कीदृशी । दक्षपिता दक्षं वीर्यं पातीति वीर्यस्य पालयित्री। किमर्थं स्थातव्यं तत्राह । रणाय रमणीयाय बृहते सुम्ने सुम्नाय सुखाय । सप्तमी चतुर्थ्यर्थे । 'देवानाᳪ सुम्नाय महते रणाय' ( ८।२।१।६) इति श्रुतेः । देवाः सुखिनो भवन्त्विति तिष्ठेत्यर्थः । किंच आसमन्ताद्भावेन सुशेवा शोभनं शेवं सुखं यस्यास्तादृशी सर्वदा सुखयित्री एधि भव 'ध्वसोरेद्धौ-' (पा० ६ । ४ । ११९) इत्येकारः । तत्र दृष्टान्तः । पिता सूनव इव यथा पिता जनकः सूनवे पुत्राय सुशेवः सुखयिता भवति तद्वत् । किंच स्वावेशा सुखेनाविशति स्वावेशा । प्रथमा तृतीयार्थे । स्वावेशया सुखप्रवेशवत्या तन्वा शरीरेण संविशस्व अवस्थानं कुरु । 'स्वावेशेनात्मना संविशस्व' (८ । २।१।६) इति श्रुतेः । अश्विनेत्युक्तम् ॥ ३ ॥

चतुर्थी।
पृ॒थि॒व्याः पुरी॑षम॒स्यप्सो॒ नाम॒ तां त्वा॒ विश्वे॑ अ॒भि गृ॑णन्तु दे॒वाः ।
स्तोम॑पृष्ठा घृ॒तव॑ती॒ह सी॑द प्र॒जाव॑द॒स्मे द्रवि॒णाऽऽय॑जस्वा॒श्विना॑ऽध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ।। ४ ।।
उ० पृथिव्याः पुरीषम् । या त्वं पृथिव्याः प्रथमायाश्चितेः पुरीषमिवासि । 'पृथिवी वै प्रथमा चितिः तस्या एतत्पुरीषमिव यद्द्वितीया' इति श्रुतिः । अप्सो नाम रसो नाम । अप्स इति रसपर्यायं दर्शयति । अपः सनोतीत्यप्सः । अपां हि रसो गुणः । 'तस्य वा एतस्य यजुषो रस एवोपनिषत्' इत्येतच्छ्रुतिर्दर्शयति । तां त्वामुपधीयमानां विश्वेदेवा अभिगृणन्तु अभिष्टुवन्तु । त्वमपि च स्तोमपृष्ठा घृतवती च इह सीद द्वितीयस्यां चितौ । यां स्तोमस्यान्तᳪस्य (?) मानो भवति तैरेषा स्तोमपृष्ठा घृतवती च वसोर्धारादिभिर्होमैः । ततः प्रजावदस्मे द्रविणा यजस्व । प्रजासंयुक्तानि अस्मभ्यं द्रविणानि देहि । यजतिर्दानार्थः । शेषमुदक् ॥ ४॥