पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मन्यते ज्ञायते यया सा मतिः वागेव चन्द्रो भूत्वोपरि यस्तिष्ठति तद्रूपां सा० । चन्द्रमा वा उपरि तद्यत्तमाहोपरीत्युपरि हि चन्द्रमा अथ यन्मतिरित्याह वाग्वै मतिर्वाचा हीदᳪ सर्वं मनुते । 'वाग्घ चन्द्रमा भूत्वोपरिष्टात्तस्थौ तदेव तद्रूपमुपदधाति' (८ । १।९।७) इति श्रुतेः । तस्यै चन्द्ररूपायास्तस्या मतेरुत्पन्नात एव मात्या मतेरियं मात्या या वाक् तद्रूपां सा० । 'वाचं तस्माद्रूपाच्चन्द्रमसो निरमिमीत' ( ८ । १ । २ । ८) इति श्रुतेः । वाचोऽपत्यं वाच्यः वाच उत्पन्नो यो हेमन्तस्तद्रूपां सा० । हेमन्तमृतुं वाचो निरमि० । हेमन्तस्येयं हैमन्ती या पङ्क्तिश्छन्दस्तद्रूपां सा० । पङ्क्तिश्छन्दो हेमन्तादृतोर्निरमि० । पङ्क्तेरुत्पन्नं यन्निधनवत्संज्ञं साम तद्रूपां सा० । पङ्क्यै स चतुर्थी पञ्चम्यर्थे । पङ्क्यैृत छन्दसो निधनवत्साम निरमि० । निधनवतः साम्न उत्पन्नो य आग्रयणो ग्रहस्तद्रूपां सा० । निधनवतः साम्न आग्रयणं ग्रहं निरमि० । आग्रयणादुत्पन्नौ यौ त्रिणवत्रयस्त्रिंशौ द्वौ स्तोमौ तद्रूपां सा० । आग्रयणाद्ग्रहात्त्रिणवत्रयस्त्रिᳪशौ स्तोमौ निरमि० । त्रिणवत्रयस्त्रिंशाभ्यामुत्पन्ने ये द्वे शाक्कररैवते पृष्ठे त्वां तद्रूपां सा० । त्रिणवत्रयस्त्रिᳪशाभ्याᳪस्तोमाभ्याᳪशाक्कररैवते पृष्ठे निरमि० । विश्वकर्मा विश्वं सर्वं करोतीति विश्वकर्मा ऋषिः वागेव वाचा हि सर्वं कुरुते वाग्रूपां त्वां सा० । 'वाग्वै विश्वकर्मऋषिर्वाचा हीदᳪ सर्वं कृतं तस्माद्वाग्विश्वकर्मऋषिः' (१ । २ । ९) इति श्रुतेः । प्रजापतिसृष्टया त्वयेष्टकया प्रजाभ्यः वाचं गृह्णामि एभिर्दशमन्त्रैर्वाचमेव गृह्णाति । 'सकृत्सादयत्येकां तद्वाचं करोति' (८।१।२ । ९) इति श्रुतेः । अथ पञ्चकण्डिकासु प्राणमनश्चक्षुःश्रोत्रवाचां प्रजाभ्यो ग्रहणमित्यस्यार्थद्वयम् । प्रजाभ्य इति चतुर्थीपक्षे प्रजार्थं प्राणादीनां ग्रहणम् पञ्चाशदिष्टकास्थापने प्रजानां यजमानापत्यपश्वादीनां प्राणादयः पुष्टा भवन्त्वित्यर्थः । प्रजाभ्य इति पञ्चमीपक्षे प्रजाभ्यो नानालोकेभ्यः सकाशात्प्राणादीन्गृह्णामि मद्वशगान्करोमीति प्राणभृतामुपधानेन सर्वाः प्रजा मद्वशगा भवन्त्वित्यर्थः । ( का० । १७ । ६ । ५ ) लोकंपृणा दक्षिणाᳪसादध्यामध्यात् । आत्मनो दक्षिणकोणादारभ्यामध्यात् अधि स्वयमातृण्णापर्यन्तं लोकंपृणा उपदधाति तासां लोकंपृणेत्यभिमन्त्रणम् । ता अस्येति सूददोहःसंज्ञमन्त्रेणाधिवदनम् स्पृष्ट्वा पठनमिति सूत्रार्थः । 'मध्ये पुरीषं निवपति पूर्ववत्' ( का० १७ । ६ । ९)। स्वयमातृण्णोपरीन्द्रं विश्वेति मन्त्रेण मृत्क्षेपः । तिस्र ऋचः प्रतीकोक्ताः पूर्वमुक्तत्वात् ( अ० १२ क० ५४ । ५५ । ५६)॥५८॥
श्रीमन्महीधरकृते वेददीपे मनोहरे। पुष्कराद्यादि चित्यन्तो रामेन्द्वध्याय ईरितः ॥ १३ ॥

चतुर्दशोऽध्यायः।
तत्र प्रथमा।
ध्रु॒वक्षि॑तिर्ध्रु॒वयो॑निर्ध्रु॒वाऽसि॑ ध्रु॒वं योनि॒मा सी॑द साधु॒या । उख्य॑स्य के॒तुं प्र॑थ॒मं जु॑षा॒णाऽश्विना॑ऽध्व॒र्यू सा॑दयतामि॒ह त्वा॑ ।। १ ।।
उ०द्वितीयां चितिं देवा अपश्यन् तस्यां चितौ पञ्चाश्विन्यो यजुरन्ताः । अश्विनाध्वर्यू इत्यादियजुः । प्रथमा विराट् । द्वितीयाद्याश्चतस्रस्त्रिष्टुभः । ध्रुवक्षितिः । या त्वं ध्रुवक्षितिः स्थिरनिवासा ध्रुवयोनिश्च अनश्वरस्थाना च ध्रुवा चासि स्वत एव तां त्वां ब्रवीमि । ध्रुवं स्थिरं योनिं स्थानम् । आसीद अधितिष्ठ । साधुया साधुम् । द्वितीयैकवचनस्य स्थाने या । उख्यस्याग्नेः केतुं प्रज्ञानं प्रथममाद्यं जुषाणा सेवमाना । उख्यस्याग्नेः प्रथमं प्रज्ञानम् । 'इयमेव प्रथमा चितिस्तस्याश्चोपरिष्टान्निधीयते तस्मादेवमुच्यते' । उत्तरं यजुः । किंच अश्विनौ चाध्वर्यू सादयताम् इह रेतःसिग्वेलायां त्वा त्वाम् । केचिच्चतुर्थमेतं पादं वर्णयन्ति त्रिष्टुभं च ॥ १ ॥
म० त्रयोदशेऽध्याये प्रथमा चितिरुक्ता सा भूलोकरूपा । 'अयं वै लोकः प्रथमा चितिः' ( ८ । २ । १ । १) इति श्रुतेः । चतुर्दशेऽध्याये द्वितीयादिचितित्रयं वक्ष्यते । भूमेरूर्ध्वमन्तरिक्षादर्वाग्भागो द्वितीया चितिः । 'एतां द्वितीयां चितिमपश्यन् यदूर्ध्वं पृथिव्या अर्वाचीनमन्तरिक्षात्तेषामेष लोकः' ( ८।२।१।२) इति श्रुतेः । देवैरश्विनौ प्रार्थितौ यद्युवां भिषजौ ततो द्वितीयां चितिमुपधत्तमिति ताभ्यामुक्तं चित्युपधाने किमावयोः फलमिति देवैरुक्तं युवां चित्युपधाने देवानामध्वर्यवो भविष्यथ इति ततस्ताभ्यां द्वितीया चितिरुपहितेति श्रुत्या 'तेऽश्विनावब्रुवन्' (८ । २ । १ । ३ ) इत्यादिकयोक्तम् । तत्रादौ पञ्चाश्विन्य इष्टकाः । द्वितीयचितिमन्त्रा देवदेवत्याः। 'आश्विनीर्ध्रुवक्षितिरिति प्रतिमन्त्रम्' (का. १७ । ८।१५) । पञ्चकण्डिकाभिराश्विनीसंज्ञा इष्टका रेतःसिग्वेलायामुपदधाति प्रतीष्टकं नित्ये इति सूत्रार्थः । पञ्चाश्विनीदेवत्याः प्रथमा विराट् चतस्रस्त्रिष्टुभो यजुरन्ताः । अश्विनाध्वर्यू इत्यादि यजुः । अदित्यास्त्वार्षी त्रिष्टुबेकाधिका पादानियमात् । हे इष्टके, यतस्त्वं ध्रुवा स्थिरासि अतो ध्रुवं स्थिरं योनिं स्थानं रेतः सिग्वेलालक्षणमासीद अधितिष्ठ । कीदृशम् । साधुया साधुं श्रेष्ठं 'सुपां सुलुक्' इत्यमो यादेशः । कीदृशी त्वम् । ध्रुवक्षितिः ध्रुवा स्थिरा क्षितिर्निवासो यस्याः सा । ध्रुवा अचला योनिः कारणं यस्याः सा । तथा उख्यस्याग्नेः प्रथममाद्यं केतुं स्थानं प्रथमचितिरूपं जुषाणा सेवमाना । अथवा 'अग्निरुख्यस्तस्यैष प्रथमः केतुर्यत्प्रथमा चितिस्तां जुषाणा' ( ८।२।१।४) ' इति श्रुतेः । इतः परं यजुः । किंच अश्विना देवानामध्वर्यू