पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

भूत्वा पुरस्तिष्ठति अतोऽग्निरूपां त्वामुपदधामीति शेषः । एवमग्रेऽपि । पुरस्तादुपधीयते प्रागुद्ध्रियते प्राङुपचर्यत इति पुरोऽग्निः । भवति सर्वरूपेणेति भवत्यस्मात्सर्वमिति वा भुवोऽग्निः तद्रूपेष्टका ध्येयेति भावः । तदुक्तं श्रुत्या 'अयं पुरो भुव इत्यग्निर्वै पुरस्ताद्यत्तमाह पुर इति प्राञ्चᳪह्यग्निमुद्धरन्ति प्राञ्चमुपचरन्त्यथ यद्भुव इत्याहाग्निर्वै भुवोऽग्नेर्हीदᳪ सर्वं भवति प्राणो हाग्निर्भूत्वा पुरस्तात्तस्थौ तदेव तद्रूपमुपदधातीति' ( ८ । १।१।४)। प्राणस्तस्याग्नेरपत्यमिति शेषः । अतएव भौवायनः भुवस्याग्नेरपत्यं भौवायनः । नडादित्वात्फक् । इष्टके, प्राणरूपां त्वां सा० । 'प्राणं तस्माद्रूपादग्नेर्निरमिमीत' (८ । १।१ । ५) इति श्रुतेः । प्राणस्यापत्यं प्राणायनः फक् । यो वसन्त ऋतुस्तद्रूपां सा० । 'वसन्तमृतुं प्राणान्निरमिमीत' (८। १।१।५) इति श्रुतेः । वसन्तस्यापत्यं वासन्ती 'तस्यापत्यम्' (पा० ४ । १ । ९२ ) इत्यण् ‘टिड्ढाणञ्' (पा० ४ । १।१५) इत्यादिना डीप् । या गायत्री छन्दस्तद्रूपां सा० । 'गायत्रीं छन्दो वसन्तादृतोर्निरमिमीत' ( ८ । १।१।५) इति श्रुतेः । गायत्र्यैव गायत्रं चतुर्थी पञ्चम्यर्थे । गायत्र्याः सकाशाद्गायत्रं सामोत्पन्नं तद्रूपां सा० । 'गायत्र्यै छन्दसो गायत्रᳪसाम निरमिमीत' ( ८।३।१।५) इति श्रुतेः । गायत्रात्साम्नो य उपांशुग्रहो निर्मितस्तद्रूपां सा० । 'गायत्रात्साम्न उपाᳪशुं ग्रहं निरमिमीत' (८।१।१।५) इति श्रुतेः। उपांशुग्रहान्निर्मितो यस्त्रिवृत्स्तोमस्तद्रूपां सा० । 'उपाᳪशोर्ग्रहात्त्रिवृतᳪ स्तोमं निरमिमीत' (८।१।१।५) इति श्रुतेः । त्रिवृतः स्तोमान्निर्मितं यद्रथन्तरं पृष्ठं तद्रूपां सा० । 'त्रिवृतः स्तोमाद्रथन्तरं पृष्ठं निरमिमीत' ( ८ । १।१।५) इति श्रुतेः । वसत्यधितिष्ठति सर्वजन्तूनिति वस्ता अतिशयेन वस्ता वसिष्ठः 'तुरिष्ठेमेयस्सु' (६।४। १५४ ) इतीष्ठनि तृचो लोपः । सर्वाधार ऋषिः ज्ञाता प्राणस्तद्रूपां सा० । 'प्राणो वै वसिष्ठ ऋषिर्यद्वैनु श्रेष्ठस्तेन वसिष्टोऽथो यद्वस्तृतमो वसति तेनो एव वसिष्ठः' (८। १।१।६) इति श्रुतेः । प्रजापतिगृहीतया । गृह्णातिः सृष्ट्यर्थः। प्रजापतिना सृष्टया त्वयेष्टकया स्थापितया प्रजाभ्यः सर्वप्रजार्थं प्राणं गृह्णामि । प्रजानां प्राणसिद्धये त्वामुपदधामीत्यर्थः । अयं पुर इत्यादिदशमन्त्रैः प्राणमेवैकं प्रजाभ्यः गृह्णामि । 'ये नानाकामाः प्राणे तांस्तद्दधाति सकृत्सादयत्येकं तत्प्राणं करोति' (८।१।१।६) इति श्रुतेः ॥ ५४ ॥

पञ्चपञ्चाशी।
अ॒यं द॑क्षि॒णा वि॒श्वक॑र्मा॒ तस्य॒ मनो॑ वैश्वकर्म॒णं ग्री॒ष्मो मा॑न॒सस्त्रिष्टुब्ग्रै॒ष्मौ॑ त्रि॒ष्टुभ॑: स्वा॒रᳪ
स्वा॒राद॑न्तर्या॒मो॒ऽन्तर्या॒मात्प॑ञ्चद॒शः प॑ञ्चद॒शाद् बृ॒हद् भ॒रद्वा॑ज॒ ऋषि॑: प्र॒जाप॑तिगृहीतया॒ त्वया॒ मनो॑ गृह्णामि प्र॒जाभ्य॑: ।। ५५ ।।
उ. अथ दक्षिणतः । अयं दक्षिणा विश्वकर्मा । अयं वै वायुर्विश्वकर्मा योयं पवते । एष हीदं सर्वं करोति तद्यत्तमाह दक्षिणेति तस्मादेष दक्षिणैव भूयिष्ठं वात्यार्यावर्तात् । तस्य मनो वैश्वकर्मण इत्यादि तुल्यव्याख्यानं चतसृष्वपि कण्डिकासु ॥ ५५ ॥
म० एभिर्मन्त्रैस्तृतीयं दशकं दक्षिणश्रोणेरारभ्योपधेयम् । विश्वं करोति सर्वं सृजतीति विश्वकर्मा वायुरयं दक्षिणा दक्षिणस्यां दिशि आर्यावर्ताद्भूयो वाति तद्रूपां त्वां सा० । 'अयं वै वायुर्विश्वकर्मा योऽयं पवते एष हीदᳪ सर्वं करोति तद्यत्तमाह दक्षिणेति तस्मादेष दक्षिणैव भूयिष्ठं वाति तद्रूपमुपदधाति' । (८।१।१।७) इति श्रुतेः । तस्य विश्वकर्मणो ऽपत्यं मनोऽत एवं वैश्वकर्मणं विश्वकर्मण इदम् । 'तस्येदम्' (पा० ४ । ३ । १२०) इत्यण् ‘इनण्यनपत्ये' (पा. ६ । ४ । १६४) इति प्रकृत्या । मनोरूपां सा० । 'मनस्तस्माद्रूपाद्वायोर्निरमिमीत' (८।१।१।८) इति श्रुतेः । मनसोऽपत्यं ग्रीष्म ऋतुस्तद्रूपां सा० । 'ग्रीष्ममृतुं मनसो निरमिमीत' इति श्रुतेः । ग्रीष्मस्येयं ग्रैष्मी ग्रीष्मोत्पन्ना त्रिष्टुप् छन्दस्तद्रूपां सा० । 'त्रिष्टुभं छन्दो ग्रीष्मादृतोर्निरमिमीत' इति श्रुतेः। त्रिष्टुभ उत्पन्नं यत्स्वारं साम तद्रूपां सा० । 'त्रिष्टुभश्छन्दसः स्वारᳪसाम निरमिमीत' इति श्रुतेः । स्वारात्साम्न उत्पन्नो योऽन्तर्यामो ग्रहस्तद्रूपां सा० । 'स्वारात्साम्नोऽन्तर्यामं ग्रहं निरमिमीत' इति श्रुतेः । अन्तर्यामादुत्पन्नो यः पञ्चदशस्तोमस्तद्रूपां सा० । 'अन्तर्यामाद्र्०हात्पञ्चदशᳪस्तोमं निरमिमीत' इति श्रुतेः। पञ्चदशात्स्तोमादुत्पन्नं यद्बृहत्पृष्ठं तद्रूपां सा० । 'पञ्चदशात्स्तोमाद्बृहत्पृष्ठं निर०' । भरद्वाज ऋषिः बिभर्तीति भरन् वाजमन्नं यः स भरद्वाजोऽन्नधर्ता मनः मनसि स्वस्थे अन्नादनेच्छोत्पत्तेः ऋषिः सचेतनो मनोरूपस्तद्रूपां सा० । 'मनो वै भरद्वाज ऋषिः अन्नं वाजो यो वै मनो बिभर्ति सोऽन्नं वाजं भरति तस्मान्मनो भरद्वाज ऋषिः' (८ । १।१ । ९) इति श्रुतेः । प्रजापतिगृहीतया धातृसृष्ट्या त्वयेष्टकया कृत्वा प्रजाभ्यो मनो गृह्णामि एभिर्दशमन्त्रैर्मन एव गृह्णामीत्यर्थः ॥ ५५ ॥

षट्पञ्चाशी।
अ॒यं प॒श्चाद्वि॒श्वव्य॑चा॒स्तस्य॒ चक्षु॑र्वैश्वव्यच॒सं व॒र्षाश्चाक्षु॑ष्यो जग॑ती वा॒र्षी जग॑त्या॒ ऋक्स॑म॒मृक्स॑माच्छु॒क्रः शु॒क्रात्स॑प्तद॒शः स॑प्तद॒शाद्वै॑रू॒पं ज॒मद॑ग्नि॒र्ऋषि॑: प्र॒जाप॑तिगृहीतया॒ त्वया॒ चक्षु॑र्गृह्णामि प्र॒जाभ्य॑: ॥ ५६ ॥
उ० अयं पश्चात् । अयं पश्चाद्विश्वव्यचा । 'असौ वा आदित्यो विश्वव्यचा यदा ह्येवैष उदेति अथेदं सर्वं व्यचा । भवति तद्यत्तमाह' । पश्चादिति क्रियानिर्देशः ॥ ५६ ॥.