पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० पञ्चदशच्छन्दस्याः पञ्चदशभिर्यजुर्भिरुपदधाति । अपां त्वेमन्सादयामि । श्रुत्युक्तान्यभिधेयानि । अपां त्वा एमन् । सप्तम्या लुक् । एमनि । 'इण् गतौ' । अस्य मनिन्प्रत्ययान्तस्यैतद्रूपम् । वायुर्वा अपामेमन् । वायौ तां सादयति । अपां त्वा ओद्मन् । 'उन्दी क्लेदने' । ओषधयो वा अपामोद्म । तुल्यव्याख्यानमन्यत् । भस्मन् । 'भष भर्त्सनदीप्त्योः' । अभ्रं वा अपां भस्मन् । ज्योतिषि । विद्युद्वा अपां ज्योतिः । अयने । इयं पृथिवी अपामयनम् । अर्णवे । प्राणो वा अपामर्णवः । समुद्रे । मनो वै समुद्रः । सरिरे । वाग्वै सरिरम् । क्षये । चक्षुर्वा अपां क्षयो निवासः । सधिषि । श्रोत्रं वा अपां सधिः । सदने द्यौर्वा अपां सदनम् । सधस्थे । अन्तरिक्षं वा अपांसधस्थम् । योनौ । समुद्रो वा अपां योनिः । पुरीषे । सिकता वा अपां पुरीषम् । पाथसि । अन्नं वा अपां पाथः । अन्ने त्वां सादयति । पञ्चच्छन्दस्याः पञ्चभिर्यजुर्भिरुपदधाति गायत्रेण त्वा च्छन्दसा सादयामीत्यादि ॥ ५३ ॥
म० 'अपरेण स्वयमातृण्णामेत्यापस्याः पञ्चपञ्चानूकान्तेष्वपां त्वेमन्निति प्रतिमन्त्रम्' ( १७ । ६ । २) तीर्थेनाग्निमारुह्य स्वयमातृण्णामपरेण पूर्वानूकान्तमेत्य चतुर्ष्वप्यनूकान्तेष्वपां त्वेमन्निति प्रतिमन्त्रं पञ्चपञ्चापस्यासंज्ञा इष्टका उपदधातीति सूत्रार्थः । विंशतिरिष्टकादेवत्यानि यजूंषि पञ्चदशापस्यादेवत्यानि पञ्च छन्दस्यादेवत्यानि । हे इष्टके अपस्ये, अपामेमन् एमनि वायौ त्वा त्वां सादयामि स्थापयामि । 'इण् गतौ' मनिन्प्रत्ययः सप्तम्या लुक् त्वा इत्यस्य पररूपम् । अत्रापामेमन्नित्यादीनां श्रुत्योक्तोऽर्थो ग्राह्यः । 'वायुर्वा अपामेम वायौ त्वाᳪसादयामि' ( ७ । ५। २ । ४६) इति श्रुतेः । अपामोद्मन् ओद्मनि ओषधिषु त्वां सादयामि । 'उन्दी क्लेदे' मन्नलोपश्च गुणः सप्तम्या लुक् । 'ओषधयो वा अपामोद्म' [७ । ५। २ । ४७-६० ] एवमग्रेऽपि तुल्यम् । भस्मन् भस्मनि । 'भस भर्त्सनदीप्त्योः' मन् । अभ्रे 'अभ्रं वा अपां भस्म' अपां ज्योतिषि विद्युति । 'विद्युद्वा अपां ज्योतिः'। अपामयने भूमौ । 'इयं पृथिव्यपामयनम् । अर्णवे सदने स्थाने प्राणरूपे सा० । 'प्राणो वा अर्णवः' । समुद्रे सदने सा० । 'मनो वे समुद्रः' । सरिरे सदने वाचि सा० । 'वाग्वै सरिरम्'। अपां क्षये चक्षुषि त्वां सा० । 'चक्षुर्वा अपां क्षयः' । क्षयो निवासः । अपां सधिषि श्रोत्रे त्वां सा० । 'श्रोत्रं वा अपाᳪ सधिः' । अपां सदने दिवि त्वां सा० । द्यौर्वा अपाᳪ सदनम् अपां सधस्थे अन्तरिक्षे त्वां सा० । 'अन्तरिक्षं वा अपाᳪसधस्थम्' । अपां योनौ समुद्रे त्वां सा० । 'समुद्रो वा अपां योनिः' । अपां पुरीषे सिकतासु त्वां सा० । 'सिकता वा अपां पुरीषम्' अपां पाथसि अन्ने त्वां सा० । 'अन्नं वा अपां पाथः' । पञ्च छन्दस्या उपदधाति पञ्च यजुर्भिः । गायत्रेण गायत्र्येव गायत्रं तेन छन्दसा त्वामुपदधामि । त्रैष्टुभेन छन्दसा त्वां सा० । जागतेन छन्दसा त्वां सा० । आनुष्टुभेन छन्दसा त्वां सा० । पाङ्क्तेन छन्दसा त्वां सा० ॥ ५३ ॥

चतुःपञ्चाशी
अ॒यं पु॒रो भुव॒स्तस्य॑ प्रा॒णो भौ॑वाय॒नो व॑स॒न्तः प्रा॑णाय॒नो गा॑य॒त्री वा॑स॒न्ती
गा॑य॒त्र्यै गा॑य॒त्रं गा॑य॒त्रादु॑पा॒ᳪशुरु॑पा॒ᳪशोस्त्रि॒वृत् त्रि॒वृतो॑ रथन्त॒रं वसि॑ष्ठ॒ ऋषि॑:
प्र॒जाप॑तिगृहीतया॒ त्वया॑ प्रा॒णं गृ॑ह्णामि प्र॒जाभ्य॑: ।। ५४ ।।
उ० प्राणभूताः पञ्चाशदिष्टका उपदधाति । पञ्चाशद्भिर्यजुभिः । अयं पुरो भुवः । अग्निर्वै पुरः तद्यत्तदाह पुर इत्यादिनिर्वचनम् । तस्य प्राणः अपत्यम् भौवायनः वसन्त ऋतुः। प्राणायनः प्राणस्यापत्यम् । नडादित्वात्फक् । गायत्री वासन्ती गायत्री च वसन्तस्यापत्यम् । गायत्री गायत्रम् । गायत्र्याः सकाशाद्गायत्रम् साम निरमिमीत । गायत्रादुपांशुः । गायत्रात्साम्न उपांशुं ग्रहं निरमिमीत । उपांशोः त्रिवृत् । उपांशोर्ग्रहात्त्रिवृत्स्तोमं निरमिमीत । त्रिवृतो रथन्तरम् । त्रिवृत्स्तोमाद्रथन्तरं पृष्ठं निरमिमीत । वसिष्ठ ऋषिः । प्राणो वै वसिष्ठऋषिः । प्रजापतिगृहीतया त्वया । गृह्णातिः सृजतिवचनः । प्रजापतिसृष्टया त्वया । प्राणं गृह्णामि प्रजाभ्यः । अयं पुरोभुव इत्यादिभिर्दशभिर्भेदैः प्राणमेवैकमविशेषेण गृह्णामि । प्रजाभ्यो विशेषेणावस्थितम् ॥ ५४ ॥
म० 'व्याघारणवत्प्राणभृतः कर्णसहिता दशदशायं पुर इति प्रतिमन्त्रम्' ( का० १७ । ६ । ३) । प्राणभृत्संज्ञका इष्टका व्याघारणवद्दक्षिणे अंसे उत्तरश्रोण्यां दक्षिणश्रोण्यामुत्तरे अंसे कर्णसहिता अक्ष्णया संलग्नाः स्वयमातृण्णापर्यन्तं दश दशोपदधातीति सूत्रार्थः । पञ्चाशद्यजूंषि प्राणभृदिष्टकादेवत्यानि प्रतिकण्डिकं दश-दश । प्रथमं दशकं दक्षिणे अंसे । कदाचिद्व्यग्रात्प्रजापतेः प्राणा देवा भूत्वोत्क्रान्ताः तदा तान्प्रजापतिरूचे किमित्युत्क्रम्यते मामुपगच्छतेति । ततः प्राणास्तमूचुर्वयमन्नं विना स्थातुं न शक्नुमस्तदन्नं त्वया सृज्यते चेत्तिठामः । ततः प्रजापतिनोक्तं वयमुभयेऽन्नं सृजामेति तथेत्युक्त्वा प्राणाः प्रजापतिश्चैतदन्नमसृजंस्तेन प्राणान्पुष्णन्तीति इष्टकानां प्राणभृत्संज्ञेत्युक्तं श्रुत्या 'प्रजापतेर्विस्रस्तात् प्राणा उदक्रामन्' (८ । १ । १।३) इत्यादिकया । अथ मन्त्रव्याख्या । योऽयं पुरो भुवश्चाग्निर्वर्तते हे इष्टके, त्वं तद्रूपासि । प्राण एवाग्नि