पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तचत्वारिंशी।
इ॒मं मा हि॑ᳪसीर्द्वि॒पादं॑ प॒शुᳪ स॑हस्रा॒क्षो मेधा॑य ची॒यमा॑नः ।
म॒युं प॒शुं मेध॑मग्ने जुषस्व॒ तेन॑ चिन्वा॒नस्त॒न्वो नि षी॑द ।
म॒युं ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु ।। ४७ ।।
उ० अथ पञ्चपशूनां शुचोत्सर्गः । इमं मा हिंसीः । पञ्च त्रिष्टुमो द्वयवसाना उत्तराणि यजूंषि । पुरुषस्योत्सृजति । इमं पुरुषं माहिंसीः शुचा । द्विपादं पशुम् । 'द्विपाद्वा एष पशुर्यत्पुरुषः' । सहस्राक्षः सन् हिरण्यशकलैर्वा एष सहस्राक्षः मेधाय यज्ञाय अन्नाय या चीयमानः चयनेन संस्क्रियमाणः । मयुं पशुं मेधम् हे अग्ने, जुषस्व । किंपुरुषो वै मयुः । तेन किंपुरुषेण चिन्वानः । तन्वो निषीद आत्मानं संस्कुरुष्व । इत उत्तरं यजुः । मयु ते तव शुक् सन्तापः ऋच्छतु । किंच । यं पुरुषं वयं द्विष्मः तं च तव शुक् ऋच्छतु हिनस्तु ॥ ४७ ॥
म० 'बहिर्वेद्युदङ्तिष्ठन्नुपतिष्ठत उत्सर्गैरिमं मा हिᳪसीरिति प्रतिमन्त्रम्' (का० १७ । ५ । १९) । अग्नेरुत्तीर्य वेदेर्बहिर्दक्षिणे उदङ्मुखस्तिष्ठन्निमं मेत्युत्सर्गसंज्ञैः पञ्चमन्त्रैः पुरुषादिशिरांस्युपतिष्ठतेऽध्वर्युः एकपशुपक्षे तमेव पञ्चभिरित्यर्थः । अग्निदेवत्याः पञ्च त्रिष्टुभः आद्ययोरन्ते द्वे यजुषी तिसृणामन्ते त्रीणित्रीणि यजूंषि । हे अग्ने, सहस्राक्षः सहस्रमक्षीणि यस्य सः हिरण्यशकलरूपसहस्रनेत्रो मेधाय यज्ञाय चीयमानः चयनेन संस्क्रियमाणः सन् त्वमिमं द्विपादं पशुं पुरुषरूपं मा हिंसीः मा दह । 'हिरण्यशकलैर्वा एष सहस्राक्षः द्विपाद्वा एष पशुर्यत्पुरुषः' (७ । ५। २ । ३९) इति च श्रुतेः । यदि वादनेच्छा तर्हि मेधं शुद्धं मयुं पशुं तुरङ्गवदनं किंपुरुषं पशुं जुषस्व सेवस्व भक्षयेत्यर्थः । 'किंपुरुषो वै मयुः' (७ । ५ । २ । ३२) इति श्रुतेः । मयुं कृष्णमृगं वा जुषस्व 'मयुर्मृगेऽश्ववदने' इति कोशोक्तेः । तेन मयुभक्षणेन तन्वः ज्वालारूपास्तनूः चिन्वानः पोषयन्निह निषीद । द्वितीयार्थे तन्व इति प्रथमा । इतो यजुः ते तव शुक् शोकः संतापो मयुं किन्नरं मृगं वा ऋच्छतु प्राप्नोतु । किंच यं पुरुषं प्रति वयं द्विष्मः द्वेषं कुर्मः ते तव शुक् तमृच्छतु ॥ ४७ ॥

अष्टाचत्वारिंशी।
इ॒मं मा हि॑ᳪसी॒रेक॑शफं प॒शुं क॑निक्र॒दं वा॒जिनं॒ वाजि॑नेषु ।
गौ॒रमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒न्वो निषी॑द ।
गौ॒रं ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु ।। ४८ ।।
उ० अथाश्वस्य । इमं मा हिंसीः एकशफं पशुम् 'एकशफो वा एष पशुर्यदश्वः' । कनिक्रदम् अत्यर्थं क्रन्दितारम् वाजिनं वेगवन्तम् वेगवत्सु मध्ये व्यवस्थितम् । गौरं गौरमृगम् अनुदिशामि ते तव । तेन चिन्वान इति व्याख्यातम् ॥ ४८॥ म० अथाश्वस्य । हे अग्ने, इममेकशफमेकखुरं पशुमश्वं | मा हिंसीः । “एकशफो वा एष पशुर्यदश्वः' (७।५।२। ३३) इति श्रुतेः । कीदृशम् । कनिक्रदमत्यन्तं क्रन्दितारं हेषमाणम् । क्रन्देः 'दाधर्ति' (पा०. ७ । ४ । ६५) इत्यादिना यङ्लुकि निपातः । वाजो वेगो विद्यते येषां ते वाजिनो वेगवन्तः मत्वर्थे इन्प्रत्ययः । तेषु मध्ये वाजिनं वेगवन्तम् । ते तुभ्यमारण्यं वनस्थं गौरवर्ण मृगं दिशामि ददामि । तेन तन्वः चिन्वानो निविदेति पूर्ववत् । ते तव शुग्गौरं गच्छतु ॥ ४८ ॥

एकोनपञ्चाशी।
इ॒मᳪ सा॑ह॒स्रᳪ श॒तधा॑र॒मुत्सं॑ व्य॒च्यमा॑नᳪ सरि॒रस्य॒ मध्ये॑ ।
घृ॒तं दुहा॑ना॒मदि॑तिं॒ जना॒याग्ने॒ मा हि॑ᳪसीः पर॒मे व्यो॑मन् ।
ग॒व॒यमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒न्वो नि षी॑द ।
ग॒व॒यं ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु ।। ४९ ।।
उ० अथ गोः । इमं साहस्रम् । इमं गां साहस्रम् सहस्राहम् शतधारमुत्सम् । उत्सः कूपः । बहुस्रोतसमिव कूपम् उपकारकम् वाहदोहादिभिः व्यच्यमानं सरिरस्य मध्ये विविधमच्यमानमुपजीव्यमानम् सरिरस्य मध्ये । 'इमे वै लोकाः सरिरम्' इत्यादिश्रुतिः । घृतं दुहानाम् अदितिमदीनाम् जनाय मनुष्येभ्योऽर्थाय । पुंलिङ्गस्त्रीलिङ्गाभ्यां मन्त्रे गौः स्तूयते । अग्ने माहिंसीरित्यादि व्याख्यातम् ॥४९॥
म० अथ गोः । अत्र विशेषणद्वयं स्त्रीलिङ्गं शेषाणि पुंलिङ्गानि व्यत्ययेन उभाभ्यां गौरेव स्तूयते । हे अग्ने, परमे व्योमन् उत्कृष्टे स्थाने स्थितमिमं गोरूपं पशुं त्वं मा हिंसीः । कीदृशम् । साहस्रं सहस्रमूल्यार्हं सहस्रोपकारक्षमं वा। शतधारं शतसंख्याकक्षीरधारायुतमत एवोत्सम् उत्सः कूपः तत्सदृशम् उत्स इवोत्सस्तं । बहुस्रोतसमित्यर्थः । सरिरस्य मध्ये एषु लोकेष्वन्तः व्यच्यमानं जनैर्विविधमच्यमानमुपजीव्यमानम् । 'इमे वे लोकाः सरिरम्' (७।५।२ । ३४ ) इति श्रुतेः । जनाय सर्वलोकाय घृतं दुहानां घृतकारणं क्षीरं क्षरन्तीम् । अदितिमखण्डिताम् । ते तवारण्यं गवयं गोसदृशं पशुविशेषमनुदिशामि । शिष्टमुक्तम् ॥ ४९॥

पञ्चाशी।
इ॒ममू॑र्णा॒युं वरु॑णस्य॒ नाभिं॒ त्वचं॑ पशू॒नां द्वि॒पदां॒ चतु॑ष्पदाम् ।
त्वष्टु॑: प्र॒जानां॑ प्रथ॒मं ज॒नित्र॒मग्ने॒ मा हि॑ᳪसीः पर॒मे व्यो॑मन् ।
उष्ट्र॑मार॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒वो नि षी॑द ।
उष्ट्रं॑ ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु ।। ५० ।।