पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० अथावेः । इममूर्णायुम् । इमम् ऊर्णायुं ऊर्णावन्तम् । वरुणस्य नाभिं वरुणस्य नहनम् अपत्यम् त्वचं पशूनां द्विपदां चतुष्पदां च । उभयरूपाणां पशूनां त्वग्रक्षणं करोति कम्बलादिनेत्याशयः । किंच । त्वष्टुः प्रजानां प्रथमं जनित्रम् । एतच्च त्वष्टा प्रथमं रूपं चकार' इति श्रुतिः । जनित्रं जननम् । व्याख्यातमन्यत् ॥ ५० ॥
म० अथावेः । हे अग्ने, परमे व्योमन् स्थाने स्थितमिममविं मा हिंसीः । कीदृशमुर्णायुम् । ऊर्णावन्तं । ऊर्णाया युस् । वरुणस्य नाभिं नाभिस्थानीयं प्रियमपत्यमित्यर्थः । द्विपदां नराणां चतुष्पदां गवादीनामुभयरूपाणां पशूनां त्वचम् त्वचमिव त्वचम् त्वग्रक्षकं कम्बलैः छादकत्वात् । मनुष्याः शीतनिवृत्त्यै कम्बलं दधते । अश्वगोखराद्या अपि मार्दवाय पृष्ठे कम्बलैराच्छाद्यन्ते । तथा त्वष्टुः प्रजापतेः प्रजानां मध्ये प्रथमं जनित्रं प्रथमोत्पन्नम् । 'एतद्ध त्वष्टा प्रथमᳪ रूपं विचकार' (७।५।२ । ३५) इति श्रुतेः। उष्ट्रं प्रसिद्धं ते ददामि । स्पष्टमन्यत् ॥ ५० ॥

एकपञ्चाशी।
अ॒जो ह्य॒ग्नेरज॑निष्ट॒ शोका॒त्सो अ॑पश्यज्जनि॒तार॒मग्रे॑ ।
तेन॑ दे॒वा दे॒वता॒मग्र॑मायँ॒स्तेन॒ रोह॑माय॒न्नुप॒ मेध्या॑सः ।
श॒र॒भमा॑र॒ण्यमनु॑ ते दिशामि॒ तेन॑ चिन्वा॒नस्त॒न्वो नि षी॑द ।
श॒र॒भं ते॒ शुगृ॑च्छतु॒ यं द्वि॒ष्मस्तं ते॒ शुगृ॑च्छतु ।। ५१ ।।
उ० अथाजस्य । अजो हि । यः अजः अग्नेः अजनिष्ट जातः । शोकात्संतापात् । 'यद्वै प्रजापतेः शोकादजायत तदग्नेः शोकादजायत' इति श्रुतिः । हिशब्दः पादपूरणः । सः अपश्यत् जनितारं जनयितारं प्रजापतिम् । अग्रे प्रथमम् । यथासौ द्रष्टव्यः । तेन च देवा इन्द्रादयः । देवतामग्रमायन् । नायं 'देवात्तल्' इतिस्वार्थिकः किंतर्हि तस्य भावस्त्वतलौ' इति भावप्रत्ययः । षष्ठ्यर्थे चेयं द्वितीया । देवत्वस्याग्रमायन्नितिशब्दप्रकरणात् । तेनैवाजेन रोहं स्वर्गम् आयन् उपागच्छन्तु । मेध्यासः यज्ञे ये देवाः । लोकप्रसिद्धाः शरभादयो व्याख्येयाः ॥ ५१ ॥
म० अथाजस्य । हि पादपूरणः । योऽजोऽग्नेः प्रजापतेः शोकात्संतापादजनिष्ट उत्पन्नः, शोकाद्दीप्यमानादग्नेः प्रजापतेरजनिष्टेति वा । 'यद्वै प्रजापतेः शोकादजायत तदग्नेः शोकादजायत' ( ७ । ५। २ । ३६) इति श्रुतेः । 'आत्मनो वपामुदखिदत्तामग्नौ प्रगृह्णात्ततोऽजस्तूपरः समभवत्' इति तैत्तिरीयेऽपि । स उत्पन्नोऽजोऽग्रे प्रथममुत्पन्नं नरमेव जनितारं स्वोत्पादकं प्रजापतिमपश्यद्दृष्टवान् । किंच एवं प्रशस्तोऽजस्ततो देवा इदानींतना अग्रं पूर्वजन्मनि तेनाजेन कर्म कृत्वेति शेषः । देवतां देवभावमायन् प्राप्ताः । 'तस्य भावस्वतलौ' । किंच मेध्यासः मेध्या यज्ञयोग्या यजमाना रोहं रोहणीयं स्वर्गं तेनाजेनोपायन्नुपगच्छन्ति । 'छन्दसि परेऽपि' (पा० |१।४। ८१ ) इति । शरभोऽष्टापदो मृगविशेषः सिंहघाती । । शेषमुक्तम् ॥ ५१ ॥

द्विपञ्चाशी।
त्वं य॑विष्ठ दा॒शुषो॒ नॄँ: पा॑हि शृणु॒धी गिर॑: । रक्षा॑ तो॒कमु॒त त्मना॑ ।। ५२ ।।
उ० चित्योपस्थानम् । त्वं यविष्ठ । गायत्र्याग्नेयनिरुक्ता । त्वं हे यविष्ठ युवतम । यद्वा 'यु मिश्रणे' । अतिशयेन मिश्रयितृतम । दाशुषः दत्तवतो हवींषि यजमानस्य नॄन्मनुष्यान् पाहि पालय । शृणुधि च गिरः स्तुतिलक्षणा वाचः । किंच रक्षा रक्ष तोकं अपत्यम् । उत त्मना । अपिच आत्मानं रक्षेति । श्रुत्युक्तो व्यत्ययः ॥ ५२ ॥
म० 'एत्य च त्वं यविष्ठेति चित्योपस्थानम्' ( का० १७। ६।१) बहिर्वेदेरागत्याग्निसमीपेऽर्धचित्यमुपतिष्ठते । उशनोदृष्टा, निरुक्ताग्नेयी गायत्री । हे यविष्ठ युवतम, यद्वा मिश्रयितृतम, गिरोऽस्मदीयाः स्तुतिवाचः शृणुधि शृणु 'श्रुशृणु-' (पा. ६। ४ । १०२) इत्यादिना हेर्धिः 'अन्येषामपि दृश्यते' (पा० ६।३ । १३७ ) इति संहितायां दीर्घः । गिरः श्रुत्वा दाशुषो हविर्दत्तवतो यजमानान् नॄन्मनुष्यान् पाहि रक्ष । दाशुष इति षष्ठी वा । यजमानस्य नॄन् पाहीति । 'दाश्वान्साह्वान्मीढ्वांश्च' (पा० ६ । १ । १२) इति निपातः । किंच उतापि च त्मना आत्मना लोकं यजमानापत्यं रक्ष ‘द्व्यचोऽतस्तिङः' (पा० ६ । ३ । १३५) इति संहितायां दीर्घः । 'मन्त्रेष्वाङ्यादेरात्मानः' (पा० ६ । ४ । १४१) इति आकारलोपः । लोकमपत्यमुतात्मानं च रक्षेति विभक्तिव्यत्ययो वा ॥ ५२ ॥

त्रिपञ्चाशी।।
अ॒पां त्वेम॑न्त्सादयाम्य॒पां त्वोद्म॑न्त्सादयाम्य॒पां त्वा॒ भस्म॑न्त्सादयाम्य॒पां त्वा॒ ज्योति॑षि सादयाम्य॒पां त्वाऽय॑ने सादयाम्यर्ण॒वे त्वा॒ सद॑ने सादयामि समु॒द्रे त्वा॒ सद॑ने सादयामि सरि॒रे त्वा॒ सद॑ने सादयाम्य॒पां त्वा॒ क्षये॑ सादयाम्य॒पां त्वा॒ सधि॑षि सादयाम्य॒पां त्वा॒ सद॑ने सादयाम्य॒पां त्वा॑ स॒धस्थे॑ सादयाम्य॒पां त्वा॒ योनौ॑ सादयाम्य॒पां त्वा॒ पुरी॑षे सादयाम्य॒पां त्वा॒ पाथ॑सि सादयामि गाय॒त्रेण॑ त्वा॒ छन्द॑सा सादयामि॒ त्रै॑ष्टुभेन त्वा॒ छन्द॑सा सादयामि॒ जाग॑तेन त्वा॒ छन्द॑सा सादया॒म्यानु॑ष्टुभेन त्वा॒ छन्द॑सा सादयामि॒ पाङ्क्ते॑न त्वा॒ छन्द॑सा सादयामि ।। ५३ ।।