पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उ० अप उपसृजति । आपो हि । अब्देवत्यास्तिस्रो गायत्र्यः । आपो हि ष्ठा मयोभुवः । द्वितीये पादे तच्छब्दश्रवणाद्यदोध्याहारः कर्तव्यः । हे आपः, या यूयं मयोभुवः । मय इति सुखनाम । सुखेन भावयित्र्यः स्थ भवथ सर्वप्राणिनाम् । छन्दःपरिपूर्तिकरो हिशब्दः । ता नः अस्मान् ऊर्जे अन्नाय दधातन स्थापयत । यथा वयं सर्वस्य भोग्यस्य भोक्तारो भवेम तथा कुरुतेत्यभिप्रायः। महते च रणाय रमणीयाय । चक्षसे दर्शनाय । अस्मान्दधातनेत्यनुवर्तते । एतदुक्तं भवति । महच्च यद्दर्शनं परब्रह्मलक्षणं रमणीयं तदस्माकं कुरुतेति । अथवा हिशब्दो यस्मादर्थे कृत्वा व्याख्यायते । नहि वेदे मन्त्रमात्रस्याप्यानर्थक्यमिष्यते संभवे सति । आपो हि । हे आपः, हि यस्मान्मयोभुवः।ता नः ऊर्जे । ताः शब्दस्य पञ्चम्यां संततिः । तस्माद्धेतोरस्मान् अन्नाय स्थापयत । महते च रमणीयाय चक्षसे दर्शनीयाय ॥ ५० ॥
म० 'आपो हि ष्ठेति पर्णकषायपक्वमुदकमासिञ्चति पिण्डे' (का. १६ । ३ । १७) । पलाशत्वक्क्वथितं जलं पिण्डे ऋक्त्रयेण क्षिपेदिति सूत्रार्थः । अब्देवतास्तिस्रो गायत्र्यः सिन्धुद्वीपदृष्टाः । हिशब्दः एवार्थः प्रसिद्ध्यर्थो यस्मादर्थो वा । हे आपः, यूयमेव मयोभुवः सुखस्य भावयित्र्यः स्थ भवथ । मयः सुखं भावयन्ति प्रापयन्ति ता मयोभुवः यस्मात्कारणान्मयोभुवः स्थेति वा स्नानपानादिहेतुत्वेन सुखोत्पादकत्वमपां प्रसिद्धम् तास्तादृश्यो यूयं नोऽस्मानूर्जे रसाय भवदीयरसानुभवार्थं दधातन स्थापयत । 'तप्तनप्तनथनाश्च' (पा० ७ । १ । ४५) इति लोण्मध्यमबहुवचनस्य तनबादेशे दधातनेति रूपम् । यथा वयं सर्वस्य भोग्यस्य रसस्य भोक्तारो भवेम तथास्मान्कुरुतेति भावः । किंच महे महते रणाय रमणीयाय चक्षसे दर्शनाय चास्मान्दधातनेत्यनुवर्तते । महद्रमणीयं दर्शनं ब्रह्मसाक्षात्कारलक्षणं तदस्माकं कुरुत । अस्मान् ब्रह्मसाक्षात्कारयोग्यान्कुरुतेति भावः। ऐहिकपारलौकिकसुखं ददतेत्यृचो भावः। 'मह पूजायाम्' मह्यते पूज्यत इति मट् क्विप्प्रत्ययः तस्मै महे । 'रण शब्दे' रण्यते स्तूयते सर्वैरिति रणम् तस्मै रणाय । चष्टे पश्यति सर्वं येन इति चक्षः चक्षतेरसुन्प्रत्ययः । तस्मै चक्षसे । 'यस्मिन्ज्ञाते सर्वं विज्ञातं स्यात्' इति छान्दोग्यश्रुतेः ॥ ५० ॥

एकपञ्चाशी।
यो व॑: शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह न॑: । उ॒श॒तीरि॑व मा॒तर॑: ।। ५१ ।।
उ० यो वः यश्च वः युष्माकं शिवतमः शान्ततमः रसः । तस्य भाजयत भागिनः कुरुत । इहैव स्थितान्नः अस्मान् उशतीरिव । 'वश कान्तौ'। कृतसंप्रसारणस्यैतद्रूपम् । कामयमाना इव मातरः। मातृशब्दः संबन्धवचनः । यथा कामयमाना मातरः पुत्रस्य कल्याणं तैस्तैरर्थैर्भाजयेयुः एवं भाजयत ॥५१॥
म० हे आपः, वो युष्माकं यः शिवतमः शान्ततमः सुखैकहेतू रसोऽस्ति इहास्मिन्कर्मणि इह लोके वा स्थितान्नोऽस्मान् तस्य रसस्य भाजयत भागिनः कुरुत । तं रसं प्रापयतेति भावः । कर्मणि षष्ठी । तत्र दृष्टान्तः । उशतीर्मातर इव उशन्ति ता उशत्यः ‘वा छन्दसि' ( पा० ६ । १ । १०६) इति दीर्घः । 'वश कान्तौ' इत्यस्माच्छतृप्रत्ययान्तात् 'उगितश्च' (पा० ४ । १।६) इति ङीप् । उशत्यः कामयमानाः प्रीतियुक्ता मातरो यथा स्वकीयस्तन्यरसं बालं पाययन्ति | तद्वत् ॥५१॥

द्विपञ्चाशी।
तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ।। ५२ ।।
उ० तस्मा अरम् । अलमिति प्राप्ते लकारस्य रेफश्छान्दसः। | हे आपः, तस्य च रसस्य अधस्तनमन्त्रयाचितस्य वो युष्मत्संबन्धिनः अलं पर्याप्तं गमाम गच्छाम वयम् । पर्याप्तं नाम रसविषये वैतृष्ण्यं सदातृष्ण्यं वा । यस्य क्षयाय जिन्वथ । 'क्षयो निवासे' इत्याद्युदात्तः । षष्ठ्यर्थे चतुर्थी । यस्येति सामानाधिकरण्यात् । यस्य आहुतिपरिणामभूतस्य क्षयस्य निवासस्यैकदेशेन जिन्वथ । जिन्वतिः प्रीतिकर्मा । तर्पयथ । पञ्चाहुतिपरिणामक्रमेणेदं ब्रह्मादिस्तम्बपर्यन्तं जगत् । तत्र हे आपः, जनयथ नः अस्मान् भोक्तृत्वेन । आजानदेवत्वमाशास्यते ॥ ५२ ॥
म० अलमिति प्राप्ते लकारस्य रेफश्छान्दसः । हे आपः, वो युष्मत्संबन्धिनस्तस्य पर्याप्तिं वयं गमाम गच्छेम । पर्याप्तिर्नाम रसविषये वैतृष्ण्यं सदातृप्तिर्वा । तस्मै इति चतुर्थी षष्ठ्यर्थे । यस्य क्षयाय जिन्वथ 'क्षयो निवासे' (पा० ६ । १ । २०१) इत्याद्युदात्तत्वात् क्षयशब्देन निवासः । क्षयायेति चतुर्थी षष्ठ्यर्थे । यस्येत्यनेन सामानाधिकरण्यात् । क्षयस्य निवासस्य जगतामाधारभूतस्य यस्याहुतिपरिणामभूतस्य रसस्यैकदेशेन यूयं ब्रह्मादिस्तम्बपर्यन्तं जगत् जिन्वथ तर्पयथ । जिन्वतिः प्रीतिकर्मा । पञ्चाहुतिपरिणामक्रमेणेति भावः । किंच हे आपः, नोऽस्मान् तत्र भोक्तृत्वेन जनयथ उत्पादयत । आशिषि लोट् तद्रसभोक्तृनस्मान् कुरुतेत्याजानदेवत्वमाशास्यते इति भावः । 'अन्येषामपि दृश्यते' (पा० ६ । ३ । १३७) इति संहितायां दीर्घः । यद्वास्या ऋचोऽयमर्थः । यस्य क्षयाय क्षयेण निवासेन यूयं जिन्वथ प्रीता भवथ तस्मै रसाय तद्रसाप्तये वो युष्मानरमत्यर्थं वयं गमाम प्राप्नुमः । किंच हे आपः, यूयं नोऽस्मान् जनयथ प्रजोत्पादनसमर्थान् कुरुथ । गच्छतेर्लुङि उत्तमबहुवचनेऽगमामेति रूपम् । अडभाव आर्षः | 'बहुलं छन्दसि' (पा० २ । ४ । ७३ ) इति शपो लुकि लोटि वा रूपम् ॥ ५२॥