पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्भिः पृच्यन्तां सृज्यन्ताम् । महि महत् क्षत्रं क्षत्रियाय राज्ञे वन्वानाः। वनोतिः संभजनार्थः। संभजमानाः। मैत्रावरुणधिष्ण्यस्य पुरस्तान्निदधाति । अनाधृष्टाः अनाधर्षिताः रक्षोभिः सीदत उपविशत । सहोजसः सवीर्याः सहबलेन । किंकुर्वाणाः। महि महत्क्षत्रं क्षत्रियाय राज्ञे दधतीः स्थापयन्त्यः ॥ ४ ॥
म० 'स्यन्दमानानां स्थावराः प्रत्याताप इति'। ( का० १५ । ४ । ३० ) वहदपां मध्ये याः स्थिराः सदा घर्मे वर्तमानास्तासु होमादाने । हे आपः, यूयं सूर्यत्वचसो भवथ सूर्यस्येव त्वचस्त्वक् यासां ताः सूर्यत्वचसः सदा तापे वर्तमानत्वात् त्वचःशब्दः सान्तस्त्वग्वाची । 'अन्तरिक्षात्प्रतिगृह्यातपवर्ष्या इति' (का० १५। ४ । ३१) आतपे वर्षति सति गगनादप आदायादौ संपादिताः सन्ति यूपमुत्तरेण तासु होमादाने। सूर्यस्येव वर्चस्तेजो यासां ताः सूर्यवर्चसः तादृश्यो भवथ । 'सरस्या इति' (का० १५ । ४ । ३२) तडागभवास्वप्सु होमादाने । हे आपः, यूयं मान्दाः स्थ । मन्दतेर्मोदनार्थस्य रूपं मन्दन्ते भूतानि यत्र बहूदकत्वात्ता मान्दाः भवथ । 'कूप्य इति' । (का. १५ । ४ । ३) कूपे भवाः कूप्यास्तत्र होमादाने । हे आपः, यूयं व्रजक्षितो भवथ । व्रज इति मेघनामसु पठितम् । अत्र तूदकधारणसामर्थ्यात् कूप उच्यते । व्रजे कूपे क्षियन्ति निवसन्ति व्रजक्षितः । (का० १५ । ४ । ३२) प्रुष्वा इति । 'प्रुष सेचने' प्रुष्णन्ति ओषधीः सिञ्चन्तीति प्रुष्वाः अवश्यायरूपाः तृणाग्रेषु स्थितास्तासु वस्त्रक्षेपेण या आत्ताः सन्ति ता यूपमुत्तरेण हुत्वा ग्राह्याः । वाशाः स्थ । 'वश कान्तौ' उश्यन्ते जनैः काम्यन्तेऽन्ननिष्पत्तिहेतुत्वाद्वाशा यूयं भवथ । 'मध्विति' ( का० १५ । ४ । ३२) मधुनि होमादाने । हे मधुरूपा आपः, यूयं शविष्ठाः। शव इति बलनाम। बलिष्ठाः बलदात्र्यो भवथ। त्रिदोषबलशमनत्वाद्बलकरं मधु । 'गोरुल्व्या इति' ( का० १५। ४ । ३२) उल्वं गर्भवेष्टनं तत्र भवा उल्व्याः प्रसूयमानधेनुगर्भवेष्टनोत्थजलं पूर्वं गृहीतमस्ति यूपमुत्तरेण तत्र होमादाने । शक्करीः । 'शक्लृ शक्तौ' 'अन्येभ्योऽपि दृश्यन्ते' (पा० ३ । २ । ७५ ) इति वनिप्प्रत्ययः 'वनो र च' ( पा० ४।१।७ इति ङीप् रेफश्च । शक्नुवन्ति वाहदोहादिभिर्जगदुद्धर्तुमिति शक्वर्यो गावस्तत्संबन्धिन्यो यूयं भवथ । ‘पय इति' ( का० १५ । ४ । ३२) दुग्धस्य होमपूर्वं ग्रहणम् । हे आपः, यूयं जनभृतो भवथ बालभावे जनान् जन्तून् बिभ्रति पुष्णन्तीति जनभृतः । 'घृतमिति' ( का० ५ । ४ । ३२ ) घृते होमादाने । हे घृतरूपा आपः, यूयं विश्वभृतः विश्वं सर्वं जगद्देवादिकं बिभ्रति विश्वभृतो भवथ राष्ट्रदाः । एवं सारस्वत्यादयो घृतान्ताः सप्तदशाप उक्ताः । 'आपः स्वराज इति मरीचीर्गृहीत्वा गृहीत्वाञ्जलिना सर्वासु सᳪसृजतीति' ( का० १५ । ४ । ३५) रविकरतप्ता आपो मरीचयस्ता अञ्जलिनादाय पूर्वगृहीतास्वप्सु योजयेत् प्रतिग्रहणमन्त्रः संसर्गस्तूष्णीम् । 'नात्र होमः षोडशाहुतीर्जुहोति द्वयीषु न जुहोति सारस्वतीषु च मरीचिषु च' (५। ३ । ४ । २३) इति श्रुतेः । हे आपः, मरीचिरूपा यूयं स्वराजः स्थ स्वेनैव राजन्ते ताः स्वराजः अनन्याश्रितराज्या भवथ । राष्ट्रदाः अतोऽमुष्मै यजमानाय राष्ट्रं देशं दत्त । 'औदुम्बरे पात्रे समासिञ्चत्येना मधुमतीरिति' ( का० १५ । ४ । ३६) एनाः सारस्वत्याद्या अप उदुम्बरकाष्ठपात्रे एकीकरोति । मन्त्रावृत्तिः । अब्देवत्यं यजुः । मधुमतीः मधुरसवत्य एता आपो मधुमतीभिर्मधुरस्वादोपेताभिरद्भिः पृच्यन्तां संसृज्यन्ताम् । किंभूता एताः । महि महत् क्षत्रं बलं क्षत्रियाय राज्ञे यजमानाय वन्वानाः संभजमानाः ददत्य इत्यर्थः । वनोतिः संभजनार्थः । 'मैत्रावरुणधिष्ण्यस्य पुरस्तान्निदधात्यनाधृष्टा सीदतेति' (का० १५ । ४ । ३७ ) औदुम्बरे पात्रे एकीकृतास्ता अपो मैत्रावरुणधिष्ण्याग्रे सदसि सादयति । अब्देवत्यम् । हे आपः, यूयं सीदत तिष्ठत । किंभूता यूयम् । अनाधृष्टाः अपराभूता रक्षोभिः । सहोजसः ओजसा सहिताः बलयुक्ताः । तथा महि महत्क्षत्रं बलं क्षत्रियाय राज्ञे दधतीः दधत्यः स्थापयन्त्यः ॥ ४ ॥

पञ्चमी
सोम॑स्य॒ त्विषि॑रसि॒ तवे॑व मे॒ त्विषि॑र्भूयात् । अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहा॑ सवि॒त्रे स्वाहा॒ सर॑स्वत्यै॒ स्वाहा॑
पू॒ष्णे स्वाहा॒ बृह॒स्पत॑ये॒ स्वाहेन्द्रा॑य॒ स्वाहा॒ घोषा॑य॒ स्वाहा॒ श्लोका॑य॒ स्वाहा
ऽᳪशा॑य॒ स्वाहा॒ भगा॑य॒ स्वाहा॑ ऽर्य॒म्णे स्वाहा॑ ।। ५ ।।
उ० व्याघ्रचर्मारोहति । सोमस्य त्विषिः सोमस्य दीप्तिर्भवसि यतः अतः तव इव यथा तव त्विषिरेवं मम त्विषिर्भूयात् । 'यत्र वै सोम इन्द्रमत्यपवत स यत्ततः शार्दूलः समभवत्तेन सोमस्य त्विषिः' इति श्रुतिः। षट् पुरस्तादभिषेकस्य पार्थानि जुहोति । अग्नये स्वाहेति प्रतिमन्त्रम् षडुपरिष्टात् इन्द्राय स्वाहेति प्रतिमन्त्रम् ॥ ५॥
म० 'व्याघ्रचर्मास्तृणाति सोमस्य त्विषिरिति' (का० १५ । ५।१)। मैत्रावरुणधिष्ण्याग्रासादितपालाशादिपात्रचतुष्टयस्य पुरस्ताद्व्याघ्रचर्मास्तृणाति । चर्मदेवत्यम् । हे चर्म, त्वं सोमस्य त्विषिर्दीप्तिरसि भवसि अतस्तवेव त्वत्सदृशी मे मम त्विषिः - कान्तिर्भूयात् 'यत्र वै सोम इन्द्रमत्यपवत स यत्ततः शार्दूलः समभवत्तेन सोमस्य त्विषिः' (५। ३ । ५। ३) इति श्रुतेः। 'पार्थानामग्नये स्वाहेति षट् जुहोति प्रतिमन्त्रम्' ( का० १५ ।५। ३ ) 'पार्थानामिन्द्राय स्वाहेति षट् जुहोति प्रतिमन्त्रमिति' । ( का० १५ । ५। ३४ ) । पार्थसंज्ञानां द्वादशमन्त्राणां मध्ये अग्नय इत्यादीनि षट् पार्थान्यभिषेकादौ जुहोति इन्द्रायेत्यादि षट् अभिषेकान्ते सकृद्गृहीताज्यैः । लिङ्गोक्तानि द्वादश यजूंषि अङ्गतीत्यग्निः । सुनोति सोमः । सूते सुवति प्रेरयति वा सविता । सरः शब्दप्रवाहो यस्याः सा सरस्वती । पुष्णाति पूषा । बृहतां साम्नां पतिर्बृहस्पतिः । इन्दति ईष्टे इन्द्रः । घु