पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तत्र प्रथमा।
हरिः ॐ । इ॒षे त्वो॒र्जे त्वा॑ वा॒यव॑ स्थ दे॒वो व॑: सवि॒ता प्रार्प॑यतु॒ श्रेष्ठ॑तमाय॒ कर्म॑ण॒ आप्या॑यध्वमघ्न्या॒ इन्द्रा॑य भा॒गं प्र॒जाव॑तीरनमी॒वा अ॑य॒क्ष्मा मा व॑स्ते॒न ई॑शत॒ माघश॑ᳪसो ध्रु॒वा अ॒स्मिन् गोप॑तौ स्यात ब॒ह्वीर्यज॑मानस्य प॒शून्पा॑हि ।। १।।
उ० अतःपरं वैशेषिकमनुक्रमिष्यामः। अत्र इषे त्वा द्वावध्यायौ दर्शपूर्णमासमन्त्राः। परमेष्ठिनः प्राजापत्यस्यार्षं देवानां वा प्राजापत्यानां तत एतं परमेष्ठी प्राजापत्यो यज्ञमपश्यद्यद्दर्शपूर्णमासौ' इति श्रुतेः परमेष्ठिन आर्षम् । तथा 'ते देवा अकामयन्त' इत्युपक्रम्य 'तत एतᳪहविर्यज्ञं ददृशुर्यद्दर्शपूर्णमासौ' इति देवानामार्षं कथ्यते । तत्रास्मिन्नध्याये सर्वाण्येव यजूंषि । पुरा क्रूरस्येतीयं त्रिष्टुप् । तत्र यजुषां केचिद्वैशेषिकं छन्द इच्छन्ति पिङ्गलपरिपठितं दैव्येकमित्यादिनेति । तत्र च सर्वसंख्यया व्यवहारः पाद इत्युपरिष्टादधिकारात् । तत्र इषे त्वा द्विपदो मन्त्रः त्र्यक्षरत्वाद्देव्यनुष्टुप् श्रुत्या शाखाच्छेदे विनियुक्तः । नचाख्यातमुपलभ्यतेऽत्र । नचाख्यातं विना वाक्यं किंचिद्विधत्ते इत्यध्याहारेणानुषङ्गेण वा वाक्यपरिपूर्तिः कर्तव्या । नन्वध्याहारानुषङ्गयोः को विशेषः । लौकिकोऽध्याहारः यथा--'भूताय त्वा नारातये परिशेषयामि' । पिनष्टि प्राणायत्वेति प्रतिमन्त्रं 'प्राणाय त्वा पिनष्मि' । अनुषङ्गस्तु मन्त्रावयव एव यथा--'अस्मादन्नान्निर्भक्तो योऽस्मान्द्वेष्टि यं च वयं द्विष्मः' । 'अस्यै प्रतिष्ठायां निर्भक्त' इत्यादि विष्णुक्रममन्त्रेषु परिपठितमिहाभिसंबध्यते । अपरिपूर्णत्वाद्वाक्यस्य । अयं विशेषोऽध्याहारानुषङ्गयोः । इह त्वन्यशाखापरिपठितेनाख्यातेन सूत्रकारेण वाक्यपरिपूर्तिः कृता 'छिनद्मीति चोभयोः साकाङ्क्षत्वात्सन्नमयामीति वोत्तर' इति । अथ कोऽर्थः । शाखा उच्यते । इषे अन्नाय त्वा त्वां छिनद्मीति । 'इषु इच्छायां' तस्य क्विपि इट् इति रूपं भवति तस्य तादर्येे चतुर्थी । इषे श्रुत्युक्तमभिधेयं वृष्ट्यै तदाह 'यदाहेषेत्वेति वृष्टिः सर्वेणैवेष्यते' । अतोऽभिधानगतस्य धातोरभिधेयक्रिया विद्यत इति । इषे इत्यभिधानम् । अभिधेया वृष्टिः । न्याय्योऽभिधानाभिधेयलक्षणः संबन्धः । त्वा इति युष्मदो द्वितीयैकवचनस्य स्थाने आदेशः । नन्वेवं तत्र यदि एषणक्रियायोगादिह वृष्टिरभिधीयते नतु रूढ्या तदानीं यद्यद्धिरण्यादि किंचिदिप्यते तत्तत्सर्वमिडित्युच्यते । तथासति संव्यहारोच्छेद इत्येवमादीन्दोषान् केचिद्विदधति, तदसत् । सिद्धे हि शब्दार्थसंबन्धे पश्चादभिधानाभिधेयभावं क्रियाद्वारकं प्रकाशयितुं व्युत्पत्तिः क्रियते । साच क्रियमाणा तस्मिन्नेवाभिधेयेऽवतिष्ठते मगधाधिपतिवत् । यथा मगधाधिपतेर्मागधेषु जनपदेष्वाधिपत्यमस्ति न कान्यकुब्जेष्वेवमिहापि जात्यादिपरिच्छिन्नेष्वभिधेयेषु क्रियाप्रवृत्तिरस्ति न सर्वत्रेत्यदोषः । व्युत्पत्तिद्वारेण च शब्दानां परिज्ञानमभ्युदयहेतुरिति श्रुतिर्दर्शयति । 'तत्प्रणीतानां प्रणीतात्वं प्रति ह तिष्ठति य एवमेतत्प्रणीतानां प्रणीतात्वं वेदेति प्रणीताशब्दस्य निर्वचनपरिज्ञानद्वारेण फलं दर्शयति । तथा पुरुषशब्दव्युत्पत्तिं प्रकृत्याह । 'स यत्पूर्वोऽस्मात्सर्वस्मात्सर्वान् पाप्मन ओषत्तस्मात्पुरुष ओषति ह वै स तं योऽस्मात्पूर्वो बुभूषति य एवं वेद'। एवं तत्र तत्र । एतच्च स्थालीपुलाकन्यायेन सर्वेष्वभिधेयेषु द्रष्टव्यम् । आहच-'क्रियाद्वारकसंबन्धमभिधानाभिधेययोः । ज्ञात्वा फलमवाप्नोति श्रुतिर्वक्ति पुनः पुनः॥' ऊर्जे त्वा। द्विपदस्त्र्यक्षरो मन्त्रः। दैव्यनुष्टुप् यदि यजुषां छन्दोस्ति । एवं सर्वेषु यजुःषु ऋक्षु च वक्तव्यम् । ग्रन्थगौरवभयादत्र नोच्यते। उक्तंच-'स्वरो वर्णोऽक्षरं मात्रा तत्प्रयोगोऽर्थ एव च । मन्त्रं जिज्ञासमानेन वेदितव्यं पदे पदे ॥' शाखासंनमने विनियुक्तः । संनमयामीति वाक्यशेषः । 'यो वृष्टादूर्ग्रसो जायते तस्मै तदाह' इति श्रुतिः। 'ऊर्ज बलप्राणनयोः' क्विप् । ऊर्जे । तादर्थ्ये चतुर्थी । व्रीह्यादेर्धान्यस्य क्षीरादेश्च सेचनस्य उत्पत्त्यर्थं त्वां संनमयामि । रसपरिणामो हि वृष्टिरन्नादिकं च तदभिप्रायौ मन्त्रौ। श्रुतिश्चास्मिन्नर्थे भवति-'अग्नेर्वै धूमो जायते धूमादभ्रमभ्राद्वृष्टिः' इति । तथा 'इतः प्रदानाद्वृष्टिरितो ह्यग्निर्वृष्टिं वनुते स एतैः स्तोकैरेतांस्तोकांस्तनुते त एते स्तोका वर्षन्ती'ति ॥वायव स्थ । वत्सं शाखयोपस्पृशति । यथा वायुर्वृष्टिद्वारेण गवामाप्यायकः एवं यूयमपि प्रस्तुतिद्वारेणाप्यायका भवथेत्यर्थः । एकस्यापि वत्सस्योपस्पर्शने सर्वेषां संस्कारो बहुवचनोपदेशात् । पूजार्थं वा बहुवचनम् ॥ देवो वः सविता। अथ मातॄणामेकां शाखयोपस्पृशति । देवो दानादिगुणयुक्तः 'देवो दानाद्दयोतनाद्दीपनाद्वा' इति यास्कः। वः। 'बहुवचनस्य वस्नसौ' इति युष्मदो द्वितीयाबहुवचनस्थाने वसादेशः । युष्मान् । सविता सर्वस्य प्रसविता। प्रार्पयतु समर्पयतु संगमयतु । श्रेष्ठतमाय कर्मणे । 'यज्ञो वै श्रेष्ठतमं कर्म' इति श्रुतिः । प्रशस्यतमाय कर्मणे। तादर्थ्ये चतुर्थी। यज्ञार्थमित्यर्थः । यूयमपि यज्ञार्थं सवित्रा सङ्गमिताः सत्यः आप्यायध्वम् । 'ओप्यायी वृद्धौ' णिचो लोपः । आप्याययत । हे अघ्न्याः अनुपहिंस्याः गावः । कं इन्द्राय भागं । तादर्थ्ये चतुर्थी । इन्द्रार्थे यो भागस्तमिति संबन्धः । इन्द्रोऽत्र हविर्भाक् । कथंभूताः सत्यः । प्रजावतीः । 'वा छन्दसि' इति दीर्घत्वम् । प्रजावत्यः जीवद्वत्साः । अनमीवाः । 'अम रोगे' । अमीवा व्याधिविशेषः । न विद्यते अमीवा यासां तास्तथोक्ताः । अयक्ष्माः । यक्ष्मा व्याधीनां राजा स यासां न विद्यते ता अयक्ष्माः । आदरार्थं पुनर्वचनम् । अथवा अयनं अयः गमनं । क्ष्मा पृथ्वी । अयः क्ष्मायां यासां विद्यते घास
१ दैव्येत्यानुष्टुवित्यादिनेति. २ अर्थाय, अन्नार्थं. ३ इट् इति विभक्तिस्तादर्थ्ये चतुर्थी. ४ श्रुत्यर्थ. ५ तत्र यदि. १ पुलाकभक्तावसथन्यायेन. २ ष्वभिधानेषु. ३ भयात्तु. ४ संनमनं तु शाखालग्नधूल्याद्यपनयनम्
.