पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

व्यावृत्य गव्येवावतिष्ठते अयं वाक्यार्थः । स एव प्रकरणाविरोधी वाक्यार्थः पदार्थनियमे हेतुः । पदंतु पदार्थपरिज्ञानहेतुः। अयं पदार्थवाक्यार्थ(१)योर्विशेषः। नन्वस्य पदचतुष्टयस्य वाक्यगतस्य कथं गुणप्रधानभाव इति। उच्यते। पदार्थद्वारकः संबन्धो गुणप्रधानभावश्च पदानाम् । तत्र प्रधानमाख्यातं गुणभूतान्यन्यानि, आख्यातार्थस्य साध्यत्वादितरेषां पदार्थानां स्वभावसिद्धत्वात् । तत्र सिद्धार्थसाध्यार्थयोर्यदेकस्मिन्वाक्ये समुच्चारणं तत्साध्यार्थं भवितुमर्हति न सिद्धार्थम् । तथाच भूतं सिद्धं भव्यं साध्यम् । भूतभव्यसमुच्चारणे 'भूतं भव्यायोपदिश्यते न भव्यं भूताय' इति न्यायविदः पठन्ति । एते च वाक्यार्था इषेत्वादिमन्त्र(२)गणे प्रायशो दृश्यन्ते--'विध्यर्थवादयाञ्चाशीःस्तुतिप्रैषप्रवह्लिकाः । प्रश्नो व्याकरणं तर्कः पूर्ववृत्तानुकीर्तनम् । अवधारणं चोपनिषद्वाक्यार्थाः स्युस्त्रयोदश । मन्त्रेषु ये प्रदृश्यन्ते व्याख्या च श्रुतिचोदिता ॥'
अथैतेषामुदाहरणानि । तत्र विधिः परमेष्ठ्यभिहितः 'अश्वस्तूपरो गो मृगः' इत्यादिः । अर्थवादः--'देवा यज्ञमतन्वत'इत्यादिः । याञ्चा-'तनूपा अग्नेऽसि तन्वं मे पाहि' । आशी:-'आ वो देवास ईमहे' इत्यादिः। स्तुतिः-'अग्निर्मूर्धा दिवः ककुत्' । प्रैषः-'होता यक्षत्समिधाग्निम्' इत्यादिः । प्रवह्लिका-'इन्द्राग्नी अपादियम्' इत्यादिः । प्रश्नः--'कः स्विदेकाकी चरति' इत्यादिः। व्याकरणं--'सूर्य एकाकी चरति' इत्यादि । तर्क:-'मा गृधः कस्यस्विद्धनम्' इत्यादिः। पूर्ववृत्तानुकीर्तनं-ओषधयः समवदन्त' इत्यादि । अवधारणं-'तमेव विदित्वातिमृत्युमेति' । उपनिषत्-'ईशावास्यम्' इत्यादि।
१ योरर्थविशेषः. २ केषु मन्त्रगणेषु.
अथ व्याख्याधर्माः-'अतिरिक्तं पदं त्याज्यं हीनं वाक्ये निवेशयेत् । विप्रकृष्टं तु संदध्यादानुपूर्व्यं च कल्पयेत् ॥ लिङ्गं धातुं विभक्तिं च योज्यं(१) वाक्यानुलोमतः । यद्यत्स्याच्छान्दसं वाक्ये कुर्यात्तत्तत्तु लौकिकम् ॥' अथोदाहरणानि-अतिरिक्तं पदं त्याज्यमिति । यथा--'इमानुकं भुवना सीषधाम' इति । कमित्यनर्थको निपातः । हीनं वाक्ये निवेशयेदिति । 'अस्मादन्नादिति भागमवेक्षते' इत्यत्राधस्तनो मन्त्रशेष इहाप्यभिसंबन्धनीयः(२0 अस्मादन्नान्निर्भक्त इत्यादि । विप्रकृष्टं तु संदध्यादिति । 'सं रेवतीर्जगतीभिः पृच्यताम्' इत्यत्र संपृच्यतामिति व्यवहितसंबन्धः। आनुपूर्व्यं च कल्पयेदिति । 'मा नो मित्रो वरुणो अर्यमायुः' इत्यत्र 'यद्वाजिनो देवजातस्य' इति द्वितीयोऽर्धर्चः प्रथमं व्याख्येयः । यतो हि यद्वृत्तं वाक्ये प्रथमं भवति । लिङ्गं धातुं विभक्तिं च यथार्थं संनमयेत् । लिङ्गं तु वाक्यवशात्संनमयेत् । 'पवित्रे स्थो वैष्णव्यौ' । अत्र पवित्रे इति नपुंसकलिङ्गं, वैष्णव्याविति च पुंलिङ्गं, तत्र वैष्णव्यावित्यस्य सन्नतिराविष्टलिङ्गत्वात्पवित्रशब्दस्य। धातुं धात्वर्थं च सन्नमयेत् 'अग्रेगुवो अग्रेपुवः' इति । अत्र अग्रेपुव इति संदेहः किमत्र पिबते रूपं उत पवतेः । तत्र श्रुतितो निर्णयः 'ता यत्प्रथमाः सोमस्य राज्ञो - भक्षयन्ती' ति व्याख्यानात्पिबतेरेव रूपमिति । विभक्तिं संनमयेत् । 'कस्मै देवाय हविषा विधेम' इत्यत्र हविषेति तृतीयायाः द्वितीया(३)सन्नतिर्वाक्यसंयोगात् । अन्यदपि यत्किंचिच्छान्दसं तत्सर्वं लौकिक(४)विहितैः शब्दैर्व्याख्येयम् । इत्ययं सामान्यतो व्याख्याक्रम उक्तः ॥
१ योजयेच्चानुलोमतः, योजयेदानुलोमतः, लोम्यतः. २ संधानीयः, ३ प्रथमाया, ४ लोकविदितैः



द्वितीयाध्यायाष्टाविंशतिकण्डिकाश्चेति दर्शपूर्णमासमन्त्राः । तेषां परमेष्ठी प्रजापतिर्ऋषिर्देवता प्राजापत्या वा । द्वितीयाध्यायान्तिमकण्डिकाषट्कं पितृयज्ञमन्त्रास्तेषां प्रजापतिर्ऋषिः । आद्येऽध्याये सर्वाणि यजूंषि । एका 'पुरा क्रूरस्य' (१ । २८) इति ऋक् । यजुषां पिङ्गलोक्तं छन्दो बोद्धव्यं विस्तरभयान्नोच्यते ।
ऋचांतु छन्दांसि वक्तव्यानि । तत्राद्यायां कण्डिकायां पञ्च मन्त्राः । द्वौ त्र्यक्षरौ । तृतीयश्चतुरक्षरः । चतुर्थो द्विषष्ट्यक्षरः । पञ्चमो नवाक्षरः । तत्र प्रकृतिवादादौ दर्शपूर्णमासमन्त्राः । यत्र कृत्स्नाङ्गानामुपदेशः क्रियते सा प्रकृतिः । यत्र विशेषाङ्गमात्रमुपदिश्यतेऽङ्गान्तराणि तु प्रकृतेरतिदिश्यन्ते सा विकृतिः । तत्र प्रकृतिस्त्रिविधा--अग्निहोत्रम्, इष्टिः, सोमश्चेति । तत्र यद्यपि कृताधानस्यैव दर्शपूर्णमासयोरधिकारादादौ अग्न्याधानमन्रा२८ वक्तुमुचितास्तथाप्याधाने पवमानेष्टयो विधेयास्ता अन्तराधानस्यैवासिद्धेः । पवमानेष्टीनां च दर्शपूर्णमासविकृतित्वात्सोमेऽपि दीक्षणीयप्रायणीयादिषु दर्शपूर्णमाससापेक्षत्वादादौ दर्शपूर्णमासमन्त्रा गदितुं युक्ताः । ते चेषेत्वादयः।-तत्रेषेत्वेति द्विपदस्यक्षरो मन्त्रः । तस्य दैव्यनुष्टुप्छन्दः । शाखा देवता । पलाशशाखाच्छेदने विनियोगः । शाखादीनामचेतनत्वेऽपि तदभिमानिनीनां देवतानां सत्त्वाद्देवतात्वम् । 'अभिमानिव्यपदेशस्तु' इति व्याससूत्रोक्तेः । 'मृदब्रवीदापोऽब्रुवन्' इति श्रुतेश्च । तस्माच्छाखोखापयःस्रुक्यूपादीनामपि देवतात्वम् । तत्र प्रतिपदि दर्शयागं चिकीर्षुरमावास्यायां प्रातरग्निहोत्रं हुत्वा दर्शयागार्थं 'ममानेवर्चः' (कात्या. २। १ । ३) इति मन्त्रेणाग्निषु समिदाधानरूपमन्वाधानं कृत्वा वत्सापाकरणं कुर्यात् । दर्शयागे त्रीणि हवींषि सन्ति । आग्नेयोऽष्टाकपाल ऐन्द्रं दध्यैन्द्रं पय इति । तत्र प्रतिपदि दधि होतुं दध्नो निष्पत्त्यै रात्रावमावास्यायां गावो दोग्धव्याः । तद्दोहनार्थं प्रातर्लौकिकदोहादूर्ध्वं स्वमातृभिः सह चरन्तो वत्साः स्वमातृभ्यः पलाशशाखयाऽपाकरणीयाः। तदर्थं पलाशशाखाच्छेदनम् । गायत्र्या पक्षिरूपं विधाय यदा दिवः सोमवल्ल्याहृता तदा तत्पत्रं भूमावुप्तं ततः पलाशोऽभवदिति श्रुत्या ( श० ब्रा० १। ७ । १-८ । २ । १०) पलाशस्य प्राशस्त्यं ब्रह्मत्वं चोक्तं तस्मात्पलाशशाखाच्छेदनम् ॥
.