पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सन्तीति वसुमान् तस्मै । वसुसंज्ञकप्रातःसवनदेवतायुक्तायेत्यर्थः । रुद्रवते रुद्राः सन्त्यस्येति रुद्रवान् तस्मै रुद्रनामकमाध्यन्दिनसवनदेवतायुक्ताय । अथ द्वितीयम् । आदित्यवते तृतीयसवनदेवतायुक्तायेन्द्राय हे सोम, त्वा त्वां मिमे । अथ तृतीयम् । अभिमातीन् शत्रून् हन्तीत्यभिमातिहा तस्मै अभिमातिघ्ने शत्रुहन्त्रे इन्द्राय सोम, त्वां मिमे । 'सपत्नो वा अभिमातिः' (३ । ९ । ४ । ९) इति श्रुतेः। अथ चतुर्थम् । सोमं हरतीति सोमहृत् तस्मै । 'हृग्रहोर्भश्छन्दसि' (पा० ८ । २ । ३२) इति हस्य भः । सोमाहरणकर्त्रे श्येनाय श्येनपक्षिरूपायै गायत्र्यै हे सोम, त्वां मिमे । 'गायत्री श्येनो भूत्वा दिवः सोममाहरत्' (६।९। ४ । १०) इति श्रुतेः । अथ पञ्चमम् । रायस्पोषदे रा धनं तस्य पोषो वृद्धिः तं ददातीति रायस्पोषदास्तस्मै धनपुष्टिदात्रेऽग्नये हे सोम, त्वां मिमे ॥ ३२ ॥

त्रयस्त्रिंशी।
यत्ते॑ सोम दि॒वि ज्योति॒र्यत्पृ॑थि॒व्यां यदु॒राव॒न्तरि॑क्षे । तेनास्मै॒ यज॑मानायो॒रु रा॒ये कृ॒ध्यधि॑ दा॒त्रे वो॑चः ।। ३३ ।।
उ० मितालम्भनम् । यत्ते सोम। सौमी विपरीता बृहती। श्रुत्युक्तमस्य मन्त्रस्य कारणं निदानम् । यदा किल देवानां हविरभूत् सोमः तदैषु लोकेषु तिस्रस्तनूर्विन्यदधात् । तासामनेनाप्तिः क्रियते । यत्ते तव हे सोम, दिवि द्युलोके ज्योतिः । यच्च पृथिव्यां ज्योतिः । यच्च उरौ विस्तीर्णे अन्तरिक्षे तेन तन्वाख्येन ज्योतिषा अस्मै यजमानाय अस्य यजमानस्य संबन्धिनि यज्ञे उरु विस्तीर्णं कृत्स्नं शरीरमात्मनः कृधि कुरु । ऋत्विजां च राये दक्षिणाप्राप्तये उरु शरीरं कृधि कुरु स्वकीयम् । किंच । अधिवोचः अधिब्रूहि । दात्रे यजमानाय । कृत्स्नोऽहमागत इति ॥ ३३ ॥
म० 'यत्त इति मितालम्भनमिति' (का० ९ । ४ । ९) मितस्योपांशुसवने पञ्चवारं प्रक्षिप्तस्य सोमस्य स्पर्शं कुर्यादिति सूत्रार्थः । सोमदेवत्या विपरीता बृहती आद्यतृतीयावष्टार्णौ द्वितीयतुर्यौ द्वादशार्णौ पादौ सा विपरीता बृहती व्यूहेन द्वादशत्वम् । अस्य मन्त्रस्य श्रुतौ निदानमुक्तम् 'यदा सोमो देवानां हविरभूत्तदा तिस्रः स्वतनूरेषु लोकेषु न्यदधादिति' (३।९।४। १२)। तासां तनूनामनेन मन्त्रेण प्राप्तिः क्रियते । हे सोम, दिवि द्युलोके ते तव यज्यो।यतिस्तेजः यच्च पृथिव्यां ज्योतिः उरौ विस्तीर्णे अन्तरिक्षे यत् ज्योतिः शरीरलक्षणं तेन तन्वाख्येन ज्योतिषा अस्मै यजमानाय । विभक्तिव्यत्ययः । अस्य यजमानस्य यज्ञे उरु विस्तीर्णं स्वशरीरं कृधि कुरु । राये धनाय ऋत्विजां दक्षिणाप्राप्तये च उरु शरीरं कृधि । किंच दात्रे अधि वोचः अधिकं ब्रूहि । यजमानाय कृत्स्नशरीरोऽहमागत इति वदेत्यर्थः । वचेर्लुङि 'वचेरुम्' (पा० ७ । ४ २०) इति उमागमेऽडभावे च वोच इति मध्यमैकवचने रूपम् । यद्वास्य मन्त्रस्य व्याख्यान्तरम् । हे सोम, त्रिषुयत्त्वदीयं ज्योतिरस्ति तेन ज्योतिषास्मै यजमानाय राये । चतुर्थ्यर्थे तृतीया । राया धनेन समृद्धमुरु विस्तीर्णं स्थानं कृधि । किंच दात्रे फलदायेन्द्राय इति वोचः ब्रूहि । यत् अधि अधिकोऽयं यजमानो भवत्विति ॥ ३३ ॥

चतुस्त्रिंशी।
श्वा॒त्रा स्थ॑ वृत्र॒तुरो॒ राधो॑गूर्ता अ॒मृत॑स्य॒ पत्नी॑: । ता दे॑वीर्देव॒त्रेमं य॒ज्ञं न॑य॒तोप॑हूता॒: सोम॑स्य पिबत ।। ३४।।
उ० आसिञ्चति निग्राभ्याः । श्वात्रा स्थ । उपरिष्टाद्बृहती निग्राभ्या आपो देवताः । या यूयं श्वात्राः स्थ । श्वात्रमिति क्षिप्रनाम । क्षिप्रकारिण्यो भवथ शिवा वा भवथ । वृत्रतुरः । तुर्वतिर्वधकर्मा । वृत्रस्य हन्त्र्यः । राधोगूर्ता । राधो धनमुद्गिन्तीति राधोगूर्ताः अमृतस्य पत्नीः अमृतत्वस्य पालयित्र्यः ताः हे देवीः । 'वा छन्दसि' इति दीर्घत्वम् । देव्यः देवान् प्रति । इमं यज्ञं नयत प्रापयत । किंच अध्वर्युणा उपहूताः सत्यः सोमस्यापिबत ॥ ३४ ॥
म० श्वात्रा स्थेत्यासिञ्चति निग्राभ्या इति' ( का० ९ । ४ १२) । सोमस्योपरि होतृचमसेनैव निग्राभ्या आसिञ्चतीति सूत्रार्थः । पथ्या बृहती तृतीयो द्वादशार्णोऽन्ये त्रयोऽष्टार्णाः पादा यस्याः सा पथ्याबृहती । इयं द्व्यधिका । हे आपः, यूयमेवंविधाः स्थ भवथ । किंभूताः । श्वात्राः । श्वात्रमिति क्षिप्रनाम । क्षिप्रकार्यकारिण्यः शिवा वा । वृत्रतुरः । तूर्वतिर्वधकर्मा । वृत्रं देवं तूर्वन्ति हिंसन्ति ता वृत्रतुरः । क्विपि ‘राल्लोपः' (पा० ६ । ४ । २१) इति वलोपः । राधोगूर्ताः राधो धनं गुरन्ते उद्यच्छन्ति ददति ता राधोगूर्ताः । 'गुरी उद्यमे' अस्मात् 'नसत्तनिषत्त-' (पा० ८ । २ । ६१) इत्यादिना कर्तरि क्तो नत्वाभावश्च निपात्यते । अमृतस्य सोमस्य पत्नीः पालयित्र्यः । हे देवीः देव्यः, तास्तथाविधा यूयमिमं यज्ञं देवत्रा देवान् प्रति नयत प्रापयत उपहूता अनुज्ञाताः सत्यो यूयं सोमस्य । कर्मणि षष्ठी । सोमं पिबत ॥ ३४ ॥

पञ्चत्रिंशी।
मा भे॒र्मा संवि॑क्था॒ ऊर्जं॑ धत्स्व॒ धिष॑णे वी॒ड्वीस॒ती वी॑डयेथा॒मूर्जं॑ दधाथाम् । पा॒प्मा ह॒तो न सोम॑: ।। ३५।।
उ० प्रहरति । मा भेः। हे सोम, मा भैषीः।मा संविक्थाः । 'ओविजी भयचलनयोः' । संपूर्वः कम्पनमभिधत्ते। मा च त्वं कम्पनं कृथाः देवतर्पणार्थमहमभिषुणोमि । अतः