पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिंशी।
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वेऽश्विनो॑र्बा॒हुभ्यां॑ पू॒ष्णो हस्ता॑भ्याम् । आ द॑दे॒ रावा॑सि गभी॒रमि॒मम॑ध्व॒रं कृ॒धीन्द्रा॑य सु॒षूत॑मम् ।
उ॒त्त॒मेन॑ प॒विनोर्ज॑स्वन्तं॒ मधु॑मन्तं॒ पय॑स्वन्तं निग्रा॒भ्या॒ स्थ देव॒श्रुत॑स्त॒र्पय॑त मा ।। ३० ।।
उ० अद्रिमादत्ते । देवस्य त्वा व्याख्यातम् । आददे गृह्णामि । रावासि । रासतेर्दानार्थस्य रावा । 'एतद्ध्येषद्वयं रासतः' इति श्रुतेः । आहुतीनां च दातासि । गभीरं महान्तम् इमम् अध्वरं यज्ञं कृधि कुरु इन्द्राय इन्द्रार्थम् । सुषूतमम् । सुरुपसर्गः पूर्वः । 'षुञ् अभिषवे' । अस्य निष्ठातकारलोपः छान्दसः दीर्घत्वं च तमपि प्रत्यये । अथ कोर्थः । साधु अभिषुतम् अतिशयेन उत्तमेन उत्कृष्टेन पविना पावनेन सोमेन पवनशीलेन वा । ऊर्जस्वन्तं रसवन्तम् मधुमन्तं मधुस्वादुना रसेनोपेतम् पयस्वन्तं पयःस्वादुना रसेनोपेतम् अध्वरं कृधीति संबन्धः। निग्राभ्यास्थ वाचयति। निग्राभ्यास्थ । यस्मादिन्द्रेण यूयं गृहीतास्तस्मान्निग्राभ्या उच्यन्ते । यस्मादेवं बहुमाननामधेयप्रतिलम्भयुक्ता भवथ । देवैश्च श्रुतास्तस्माच्च बहुनामान्विताः सत्यः तर्पयत मां समासव्यासेन ॥ ३०॥

उपांशुसवनम्

म० 'देवस्य त्वेत्यद्रिमादाय वाचं यच्छति प्राग्धिङ्कारात् स उपाᳪशुसवन इति' (का० ९ । ४।५।६ ) सोमाभिषवहेतुमश्मानं गृहीत्वा हिङ्कारात्प्राक् मौनी स्यात् सोऽश्मोपांशुसवनसंज्ञः उपांशुग्रहाय सोमः सूयते येनेति सूत्रार्थः । देवस्य त्वेति व्याख्यातम् । हे अभिषवसाधन पाषाण, त्वं रावासि । 'रा दाने' रातीति रावा वनिप् । आहुतीनां दक्षिणानां च दाता भवसि । तत इममध्वरं मदीयं यागं गभीरं गम्भीरं महान्तं कृधि कुरु । 'श्रुशृणुपृकृवृभ्यश्छन्दसि' (पा० ६ । ४ । १०२) इति हेर्धिः उत्तमेनोत्कृष्टेन पविना वज्रसदृशेन त्वयाहं सोममीदृशं करोमि । किंभूतम् । इन्द्रायेन्द्रार्थं सुषूतं सुष्ठु सूयत इति सुसुतः अतिशयेन सुसुतः सुसुततमः तं सुष्ठु अभिषुततमम् । निष्ठातकारलोपो दीर्घश्च छान्दसः । तथा ऊर्जवन्तं मधुस्वादेन रसेनोपेतं पयस्वन्तं पयःस्वादुना रसेनोपेतं एवंविधं सोमं त्वयाहं करोमीत्यर्थः । 'निग्राभ्यासु वाचयत्युरस्येनानिगृह्य निग्राभ्या स्थेति' ( का० ९ । ४ । ७)। अभिषोतव्यस्य सोमस्य सेवनीया आपो निग्राभ्या उच्यन्ते तासु गृह्यमाणासु वाचयेत् यजमानश्च स्वोरसि निग्राभ्या निगृह्यालभ्य च मन्त्रं वक्तीति सूत्रार्थः । हे आपः, यूयं निग्राभ्या निग्राह्या अस्माभिर्नितरां ग्रहीतव्याः स्थ भवथ । यस्मादिन्द्रेणीरसि यूयं ग्रहीतास्ततो निग्राभ्याः । हृग्रहोर्भः । देवश्रुतः देवैः श्रूयन्ते ताः देवेषु प्रख्याताः ततो बहुमानान्विता यूयं मा मां तर्पयत प्रीतिं कुरुत ॥ ३०॥

एकत्रिंशी।
मनो॑ मे तर्पयत॒ वाचं॑ मे तर्पयत प्रा॒णं मे॑ तर्पयत॒ चक्षु॑र्मे तर्पयत॒ श्रोत्रं॑ मे तर्पयता॒त्मानं॑ मे तर्पयत प्र॒जां मे॑ तर्पयत प॒शून्मे॑ तर्पयत ग॒णान्मे॑ तर्पयत ग॒णा मे॒ मा वितृ॑षन् ।। ३१ ।।
उ० मनो मे मम तर्पयत इति विस्तारः व्यासेनोक्तः । समासेनाह । आत्मानं पिण्डशरीरम् प्रजां पशून् गणान्मनुष्यसंघातान् । गणाश्च मा वितृषन् । मद्द्रव्यदानेन पूरिता अपि सन्तो मा विगततृष्णा भवन्तु । अनुरक्तगणोऽहं भवेयमित्यर्थः ॥ ३१ ॥
म० एवं समासेनोक्त्वा व्यासेनाह । मे मम मनः वाचं प्राणं चक्षुः श्रोत्रं तर्पयत । मदीयानि मनःप्रभृतीनीन्द्रियाणि तर्पयतेत्यर्थः । एवं व्यासेनोक्वा पुनः समासेनाह । आत्मानं शरीरं
प्रजां पुत्रादिसंपत्तिं पशून्गवादीन्गणान् मनुष्यसङ्घांश्च तर्पयत । | मे मदीया गणा मनुष्यसङ्घा मा वितृषन् मया द्रव्यदानेन पूरिता अपि सन्तो विगततृष्णा मा भवन्तु । अनुरक्तगणोऽहं भवेयमिति यजमान आशास्त इत्यर्थः ॥ ३१ ॥

द्वात्रिंशी।
इन्द्रा॑य त्वा॒ वसु॑मते रु॒द्रव॑त॒ इन्द्रा॑य त्वा ऽऽदि॒त्यव॑त॒ इन्द्रा॑य त्वा ऽभिमाति॒घ्ने ।
श्ये॒नाय॑ त्वा सोम॒भृते॒ऽग्नये॑ त्वा रायस्पोष॒दे ।। ३२ ।।
उ० सोमं मिमीते । इन्द्राय त्वा वसुमते रुद्रवते । मिम इति शेषः । इन्द्राय त्वा आदित्यवते मिमे । प्रातःसवनमा- ध्यन्दिनसवनतृतीयसवनदेवतायुक्तायेन्द्रायेत्यर्थः । इन्द्राय त्वा अभिमातिघ्ने मिमे । 'सपत्नो वाभिमातिः' इति श्रुतिः। सपत्नस्य हन्त्रे । श्येनाय श्येनरूपिण्यै गायन्यै त्वां सोमभृते । 'हृग्रहोर्भश्छन्दसि' इति हस्य भकारः । सोमहृते सोमस्याहर्त्र्यै गायत्र्यै मिमे । अग्नये त्वा रायस्पोषदे । रायो धनं तस्य पोषो वृद्धिस्तं ददाति यस्तस्मै रायस्पोपदे । अग्निशब्देनात्र गायत्र्यभिधीयते भक्तिश्रुतेः 'अथैतान्यग्निभक्तीन्ययं लोकः प्रातःसवनं वसन्तो गायत्री' इति ॥ ३२ ॥
म० 'उपाᳪशुसवने सोमं मिमीत इन्द्राय त्वा वसुमते रुद्रवत इति पञ्चकृत्वः प्रतिमन्त्रमिति' ( का० ९ । ४ । ८) उपांशुसवनं पूर्वोक्तमश्मानमधिषवणचर्मणि निधाय तदुपरि पञ्च मन्त्रैः पञ्चवारमभिषोतव्यसोममुष्ठिं प्रक्षिपतीति सूत्रार्थः । पञ्च यजूंषि सौम्यानि । तत्राद्यम् हे सोम, इन्द्रायेन्द्रार्थं त्वा त्वां मिमे इति शेषः । किंभूतायेन्द्राय । वसुमते वसवोऽस्य