पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

याः प्रसिद्धा अमूरीदृश्यो वसतीवर्याख्या आपः । उपसूर्ये सूर्यसमीपे स्थिताः। विभक्तिव्यत्ययः। याभिर्वा । वाशब्दः समुच्चये। याभिश्चाद्भिः सह सूर्यो याति ता आपो नोऽस्माकमध्वरं यज्ञं हिन्वन्तु तर्पयन्तु । हिन्वतिः तर्पणार्थः ॥ २४ ॥
 
पञ्चविंशी।
हृ॒दे त्वा॒ मन॑से त्वा दि॒वे त्वा॒ सूर्या॑य त्वा । ऊ॒र्ध्वमि॒मम॑ध्व॒रं दि॒वि दे॒वेषु॒ होत्रा॑ यच्छ ।। २५ ।।
उ० सोममुपावहरति । हृदे त्वा । सौम्यनुष्टुप् ब्रह्मर्षीया। बह्व्यै निश्चयात्मिकायै । कामाय एतन्मम स्यादिति । त्वां सोममुपावहरामि । दिवे त्वा । हे सोम, देवलोकप्राप्तये त्वामुपावहरामि । सूर्याय सूर्यप्रमुखेभ्यो देवेभ्यः हे देवसोम, त्वामुपावहरामि । त्वं चोपावहृतोऽभिष्टुत ऊर्ध्वमिममध्वरं यज्ञं कृत्वा दिवि देवलोके देवेषु च होत्राः । वषट्कारयाजिनोऽब्रह्मर्षयो होत्रा उच्यन्ते । यच्छ निबध्नीहि ॥ २५ ॥
म० 'आज्यासादनात्कृत्वेषान्तरेणार्धसोममद्रिषु संमुखेषु निदधाति हृदे त्वेति' (का० ९ । १ । ५) आज्यासादनपर्यन्तं कर्म कृत्वा सोममादाय हविर्धाने गत्वा सोमं विस्रस्य तदर्धं दक्षिणशकटेषान्तरालेन संमुखेष्वभिषवार्थपाषाणेषु निदध्यात् । अश्मनां स्थूलो भागो मुखमिति सूत्रार्थः । सोमदेवत्यानुष्टुप् । हे सोम, हृदे बुद्ध्यै निश्चयात्मिकायै एतन्मम स्यादिति कामरूपायै वा त्वामुपावहरामीति शेषः । मनसे संकल्पविकल्पात्मकाय त्वामुपावहरामि । त्वाशब्दानामावृत्त्या क्रियावृत्तिर्बोध्या । दिवे द्युलोकप्राप्तये त्वामुपावहरामि । सूर्याय सूर्यमुखेभ्यो देवेभ्यस्तत्तृप्तये त्वामुपावहरामि । यद्वायमर्थः । हे सोम, हृदे हृदयवद्भ्यो मनुष्येभ्यः । मनसे मनस्विभ्यः पितृभ्यः दिवे द्युलोकवासिभ्यो देवेभ्यो विशेषतः सूर्याय च त्वामुपावहरामीति शेषः । एतदर्थे तित्तिरिः ‘स वा अध्वर्युः सोममुपावहरन्सर्वाभ्यो देवताभ्य उपावहरेदिति हृदे त्वेत्याह मनुष्येभ्य एवैतेन करोति मनसे त्वेत्याह पितृभ्य एवैतेन करोति दिवे त्वा सूर्याय त्वेत्याह देवेभ्य एवैतेन करोत्येतावतीर्वै देवतास्ताभ्य एवैनᳪ सर्वाभ्य उपावहरतीति' । किंच एवमुपावहृतोऽभिषुतश्च त्वमिममध्वरं मदीयं यज्ञमूर्ध्वमुत्कृष्टं कृत्वा दिवि द्युलोकवर्तमानेषु देवेषु होत्राः वषट्कारवादिनः सप्त होतृकान् यच्छ निबध्नीहि ॥ २५ ॥

पड्विंशी।
सोम॑ राज॒न् विश्वा॒स्त्वं प्र॒जा उ॒पाव॑रोह विश्वा॒स्त्वां प्र॒जा उ॒पाव॑रोहन्तु ।
शृ॒णोत्व॒ग्निः स॒मिधा॑ ह॒वं मे॑ शृण्व॒न्त्वापो॑ धि॒षणा॑श्च दे॒वीः ।
श्रोता॑ ग्रावाणो वि॒दुषो॒ न य॒ज्ञं शृ॒णोतु॑ दे॒वः स॑वि॒ता हवं॑ मे॒ स्वाहा॑ ।। २६ ।।
उ० किंच हे सोमराजन् , विश्वा सर्वाः त्वं प्रजा उपावरोह अधितिष्ठ आधिपत्याय राज्याय । विसृज्योपतिष्ठते। विश्वास्त्वां प्रजा उपावरोहन्तु प्रत्युत्थानाभिवादादिभिः । जुहोति । शृणोत्वग्निः । त्रिष्टुप् लिङ्गोक्तदेवता । शृणोत्वनुजानात्वग्निः । समिधा समित्पूर्विकयाहुत्या । हवमाह्वानम् । मे मम । शृण्वन्त्वापः धिषणाश्च वाचः धीसादिन्यो वा धीमानिन्यो वा । | देवीर्देव्यः । चशब्दः समुच्चयार्थः । श्रोता ग्रावाणः । यूयमपि शृणुत हे ग्रावाणः । कथमिव विदुषो न यज्ञम् । उपमार्थीय उपरिष्टादुपाचारो नकारः । विदितार्थ इव परिदृष्टकारिणो यज्ञम् । प्रत्यक्षकृतः पादो मध्यमपुरुषयोगात् । | शृणोतु देवः सविता हवमाह्वानं मे मम स्वाहा सुहुतमस्तु । स्वाहा वागाह ॥ २६ ॥
म० किंच । हे सोम राजन् , विश्वाः सर्वाः प्रजा उपावरोह आधिपत्यं प्रजानां कुर्वित्यर्थः । 'विश्वास्त्वामिति विसृज्योपतिष्ठत इति' ( का० ९ । १ । ६) ग्रावसु स्थापितं सोमं विमुच्योपस्थापनं कुर्यादिति सूत्रार्थः । हे सोम, विश्वाः सर्वाः प्रजाः त्वामुपावरोहन्तु प्रत्युत्थानाभिः प्राप्नुवन्तु । 'अभूदुषा रुशत्पशुरित्युच्यमाने चतुर्गृहीतं प्रचरण्या जुहोति शृणोत्वग्निरिति' (का० । ९ । २ । २४) अभूदिति मन्त्रे होत्रा शस्यमाने चतुर्गृहीतमाज्यं प्रचरणीसंज्ञया स्रुचाध्वर्युरतिप्रणीते जुहोतीति सूत्रार्थः । त्रिष्टुब्लिङ्गोक्तदेवता । अग्निः समिधा समित्पूर्विकया आहुत्या मे हवं मदीयमाह्वानं शृणोतु । आपो ममाह्वानं शृण्वन्तु । चकारः समुच्चयार्थः । धिषणा देवीः वाचो देव्यश्च मे हवं शृण्वन्तु । 'धिषणा धीसादिन्यो वा धीमानिन्यो वा' (निरु० ।८।४) इति यास्कः । धियं सन्वन्ति ददति धिषणाः ‘षणु दाने' तनादिः । तृतीयः पादः प्रत्यक्षकृतो मध्यमपुरुषयोगात् । हे ग्रावाणः, अभिषवार्थमिहोपस्थिता यूयं मम हवं श्रोत शृणुत । 'तप्तनप्तनथनाश्च' (पा० ७ । १ । ४५) लोण्मध्यमपुरुषबहुवचनस्य | तवादेशे गुणे विकरणव्यत्यये च श्रोतेति रूपम् । संहितायां तु दीर्घः । विदुषो न । न इवार्थे विभक्तिव्यत्ययः । विद्वांसो यज्ञमिव यथा विद्वांसः प्रत्यक्षतो जानन्तो यज्ञं शृण्वन्ति तथा यूयं हवं शृणुत । तथा सविता देवः मे मम हवं शृणोतु । स्वाहा सुहुतमस्तु स्वाहा वागाहेति वा ॥ २६ ॥

सप्तविंशी।
देवी॑रापो अपां नपा॒द्यो व॑ ऊ॒र्मिर्ह॑वि॒ष्य॒ इन्द्रि॒यावा॑न् म॒दिन्त॑मः ।
तं दे॒वेभ्यो॑ देव॒त्रा द॑त्त शुक्र॒पेभ्यो॒ येषां॑ भा॒ग स्थ॒ स्वाहा॑ ।। २७ ।।
उ० अप्सु जुहोति । देवीरापः पतिरब्देवत्या । हे देव्यः आपः अपान्नपात्संज्ञकाः, यो वः युष्माकमूर्मिः अप्संघातः कल्लोलः हविष्यः यज्ञियः । इन्द्रियावान् । इन्द्रियशब्देन वीर्यमभिधीयते । इन्द्रियावान्वीर्यवान् । छान्दसं दीर्घत्वम् ।