पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रदर्शनार्थम् । शपतिर्हिँसार्थः । इति एवमनेन विधिना अघ्न्या हि स्मः । अतएव त्वां याचामहे हे वरुण, ततस्तस्मादघ्न्या वधजातादेनसो नोऽस्मान्मुञ्च मोचय । सुमित्रियाः आपः ओषधयश्च नोऽस्माकं सुमित्रियाः साधुमित्रत्वेनावस्थिताः सन्तु । यः शत्रुरस्मान्द्वेष्टि वयं च यं शत्रुं द्विष्मः द्वेषं कुर्मः तस्मै उभयात्मकाय शत्रवे आप ओषधयश्च दुर्मित्रियाः अमित्रत्वेनावस्थिताः सन्तु । धाम्नो धाम्न इति मन्त्रः शूलोपगूहनमन्त्रस्य शेषो वा । सुमित्रिया इति मन्त्रोऽपामभिमन्त्रणे वा ॥ २२ ॥

एवमग्नीषोमीयः पशुः समाप्तः ।

त्रयोविंशी।
ह॒विष्म॑तीरि॒मा आपो॑ ह॒विष्माँ॒२ आ वि॑वासति । ह॒विष्मा॑न् दे॒वो अ॑ध्व॒रो ह॒विष्माँ॑२ अस्तु॒ सूर्य॑: ।। २३ ।।
उ० वसतीवरीर्गृह्णाति । 'हविष्मतीः' अनुष्टुप् लिङ्गोक्तदेवता । हविष्मतीः हविषा संयुक्ता इमा आपः । 'यत्र वै यज्ञस्य शिरश्छिद्यते तस्य रसो द्रुत्वापः प्रविवेश' इत्येतदभिप्रायम् । हविष्मान् हविषा संयुक्तो यजमान आविवासति । विवासतिः परिचर्यायाम् । परिचरणं शुश्रूषा । इमा आपः हविष्मान् हविषा संयुक्तो देवोध्वरो यज्ञः आभिरद्भिः । हविष्मान् अस्तु सूर्यः । एतस्मै वै गृह्णाति य एष तपतीत्येतदभिप्रायम् ॥ २३ ॥
म० अथ सोमाभिषवोपयुक्तानां वसतीवरीसंज्ञानामपां ग्रहणमभिधीयते । 'अग्नीषोमीयस्य वपामार्जनान्ते वसतीवरीग्रहणᳪस्यन्दमानानामनस्तमितेऽस्तमितश्चेन्निनाह्यात्पुरेजानश्चेदनीजानोऽन्यस्यापि समीपावसितस्य पुरेजानस्योभयाभाव उल्कुषीᳪहिरण्यं वोपर्युपरि धारयन् हविष्मतीरिति' (का० ८ । ९।७।१०) अग्नीषोमीयस्य पशोर्वपामार्जनपर्यन्ते कर्मणि कृते अनस्तंगते रवौ वहन्तीनामपामेकदेशाद्वसतीवरीसंज्ञानां सीमार्थानामपां ग्रहणं कार्यं हविष्मतीरिति मन्त्रेण । यदि रविरस्तं गतो यजमानश्च पुरा ईजानः सोमयाजी तदा गृहे एव निनाह्यान्मणिकाद्वसतीवरीग्रहणम् । निनहनीयो निखननीयो निनाह्यः । यदि च यजमानः पुरा न सोमयाजी तर्हि समीपस्थितस्य यष्टुर्मणिकाद्ग्रहणम् । स्वस्य अन्नस्य यज्ञकर्तृत्वाभावे उल्कां कनकं वा वहन्तीनामपां समीपे धारयन्वहन्तीभ्यो वसतीवरीर्गृह्णीयादिति सूत्रार्थः । अनुष्टुब्लिङ्गोक्तदेवता । हविष्मान् हविषा संयुक्तो यजमानः हविष्मतीर्हविषा संयुक्ता इमा आपः अपः आविवासति वसतीवरीः परिचरति । विवासतिः परिचर्यायाम् । 'यत्र वै यज्ञस्य शिरोऽच्छिद्यत तस्य रसो द्रुत्वापः प्रविवेश' (३ । ९।२।१) इति श्रुतेरपां हविष्मत्त्वम् । ततो देवो द्योतमानोऽध्वरो यागोऽपि स्वशरीरनिष्पत्तये हविष्मानस्तु आभिरद्भिरित्यर्थः । किंच सूर्योऽपि देवो यजमानस्य फलदानाय तृप्त्यर्थं च हविष्मान्हविःसंपन्नोऽस्तु भवतु । एतस्मै वै गृह्णाति य एष तपति' (३ । ६ । २ । १२) इति श्रुतेर्वसतीवरीभिः सूर्यस्य हविष्मत्त्वम् ॥ २३ ॥

चतुर्विंशी।
अ॒ग्नेर्वोऽप॑न्नगृहस्य॒ सद॑सि सादयामीन्द्रा॒ग्न्योर्भा॑ग॒धेयी॑ स्थ मि॒त्रावरु॑णयोर्भाग॒धेयी॑ स्थ विश्वे॑षां दे॒वानां॑ भाग॒धेयी॑ स्थ । अ॒मूर्या उप॒ सूर्ये॒ याभि॑र्वा॒ सूर्य॑: स॒ह । ता नो॑ हिन्वन्त्वध्व॒रम् ।। २४ ।।
उ० शालाद्वार्यमपरेण निदधाति । अग्नेर्वः । अग्नेः वो युष्मान् अपन्नगृहस्य । पद्यतेरेतद्रूपम् । अग्रीणम् (?)।अपतितगृहस्येति पर्यायः। सदसि । सीदन्त्यस्मिन्निति सदः निकटस्थाने सादयामि । दक्षिणस्यामुत्तरवेदिश्रोणौ निदधाति । इन्द्राग्न्योर्भागधेयी स्थ। इन्द्राग्न्योः संबन्धिनो भागस्य धारयित्र्यः स्थ हे आपः । उत्तरस्यामुत्तरवेदिश्रोणौ निदधाति । मित्रावरुणयोर्भागधेयी स्थ । आग्नीध्रे निदधाति । विश्वेषां देवानां भागधेयी स्थ । ऋक् अमूर्याः । अब्देवत्या गायत्री। अभिनयेन दर्शयन्नाह । अमूर्या आपः उप समीपे । सूर्यस्येति विभक्तिव्यत्ययः । याभिर्वा सूर्यः सह । अथापि समुच्चयार्थे भवतीति वाशब्दः समुच्चयार्थीयः । याभिश्चाद्भिः सूर्यः सह याति ता आपः नः अस्माकं हिन्वन्तु । हिन्वतिस्तर्पणार्थः । तर्पयन्तु अध्वरं यज्ञम् ॥ २४ ॥ ।
म० 'अग्नेर्व इति निदधाति शालाद्वार्यमपरेणेति' (का० । ८ । ९ । ११) नूतनगार्हपत्यात्पश्चिमभागे ता वसतीवरीरासादयतीति सूत्रार्थः । चत्वारि यजूंष्यब्देवत्यानि । हे वसतीवर्यः, वो युष्मान् अग्नेः शालाद्वार्यस्य सदसि सीदन्त्यस्मिन्निति सदो निकटस्थानं तत्र सादयामि स्थापयामि । किंभूतस्याग्नेः । अपन्नगृहस्य न पन्नं पतितं गृहं यस्य तस्य । अविनश्वरगृहस्येत्यर्थः । | 'दक्षिणेन निर्हृत्य दक्षिणस्यामुत्तरवेदिश्रोणौ निदधातीन्द्राग्न्योरिति' (का० ८।९।१८) शालाद्वार्यसमीपस्था वसतीवरीरादाय शालादक्षिणद्वारेण नीत्वोत्तरवेदेर्दक्षिणश्रोणौ निदध्यादिति सूत्रार्थः । हे वसतीवर्यः, यूयमिन्द्राग्न्योः इन्द्राग्निदेवतयोः स्थ भागधेय्यो भागरूपा भवथ । भागा एव भागधेय्यः । 'नामरूपभागेभ्यः स्वार्थे धेयप्रत्ययः' (पा० ५। ४ । ३६ ) 'केवलमामक-' (पा० ४ । १।३०) इत्यादिना ङीप् । 'उत्तरस्यां पूर्ववन्मित्रावरुणयोरिति वेति' (का० ८ । ९ । २१-२२) पूर्ववदिन्द्राग्न्योरिति मन्त्रेणैव मित्रावरुणयोरिति मन्त्रेण वोत्तरवेदेरुत्तरश्रोणौ वसतीवरीर्निदध्यादिति सूत्रार्थः । हे वसतीवरीसंज्ञका आपः, यूयं मित्रावरुणयोर्देवतयोर्भागरूपा भवथ । 'विश्वेषां देवानामित्याग्नीध्र इति' ( का० ८ । ९ । २३ ) उत्तरवेदिश्रोणेः सकाशाद्वसतीवरीरादायानीध्रीयस्य पश्चान्निदध्यादिति । सूत्रार्थः । हे वसतीवर्यः, यूयं सर्वेषां देवानां भागरूपा भवथ । । इदानीमभिनयेन दर्शयन्नाह । अमूर्याः ऋक् अब्देवत्या गायत्री