पृष्ठम्:शुक्लयजुर्वेदसंहिता (उवट-महीधर) Shukla Yajurveda.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नीत्वाग्नीध्रमण्डपे निधाय तत्रत्यधिष्ण्यगतेऽग्नौ घृतेन जुहुयादिति सूत्रार्थः । आग्नेयी त्रिष्टुब्यजुरन्ता । अयमग्निर्नोऽस्माकं वरिवः धनं कृणोतु करोतु । अयमेवानिर्मृधः संग्रामान्प्रभिन्दन्विदारयन्सन् पुर एतु अग्रतो यातु । अयमेवाग्निर्वाजसातौ वाजानामन्नानां संभजने निमित्ते वाजान् शत्रुसंबन्धीन्यन्नानि अस्मभ्यं दातुं जयतु । ततोऽयमेवाग्निर्जर्हृषाणोऽत्यर्थं हृष्यन् शत्रूञ्जयतु स्वाहा तुभ्यं सुहुतमस्तु ॥ ३७ ॥

अष्टत्रिंशी।
उ॒रु वि॑ष्णो॒ वि क्र॑मस्वो॒रु क्षया॑य नस्कृधि ।
घृ॒तं घृ॑तयोने पिब॒ प्रप्र॑ य॒ज्ञप॑तिं तिर॒ स्वाहा॑ ।। ३८ ।।
उ० आहवनीये जुहोति । उरुविष्णो । वैष्णव्यनुष्टुप् । हे विष्णो यज्ञ, उरु महत् विक्रमस्व व्याप्नुहि । देवयानाभिप्रायं त्रिलोकाभिप्रायं वा । उरु विस्तीर्णशरीरान् क्षयाय संनिवासाय । महत् । ब्रह्म गृहनिवासाय । नः अस्मान् । कृधि कुरु । उरु 'क्षयो निवासे' इति आद्युदात्तत्वात् क्षयशब्दो निवासवचनः । किंच घृतं पिब घृतयोने अग्ने । 'अग्निर्यस्यै योनेरसृजत तस्यै घृतमुल्बमासीत्' इति श्रुतिः । प्रप्र यज्ञपतिं तिर । 'प्रसमुपोदः पादपूरणे' इत्यभ्यासः । तिरतिवृद्ध्यर्थः । प्रतिर प्रवर्धय यज्ञपतिं यजमानं | पुत्र्यश्वादिभिः ॥ ३८ ॥
म०. 'उरु विष्णविति जुहोति' ( का० ८ । ७।१५) इति। पूर्वमन्त्रेणाग्नीध्रीये होमोऽनेन त्वाहवनीय इति सूत्रार्थः । वैष्णव्यनुष्टुब्यजुरन्ता । हे विष्णो व्यापिन् आहवनीय, उरु विक्रमस्व शत्रुषु बहुलं पराक्रमं कुरु । किंच क्षयाय ब्रह्मगृहनिवासाय नोऽस्मानुरु बहु यथा तथा कृधि कुरु । हे घृतयोने अग्ने, घृतं पिब हूयमानमिदमाज्यं भक्षय । 'अग्निर्यस्यै योनेरसृज्यत | तस्यै घृतमुल्बमासीत्' इति श्रुतेर्घृतयोनित्वम् । किंच यज्ञपतिं यजमानं प्रतिर अतिशयेन वर्धय । 'प्रसमुपोदः पादपूरणे' (पा० ८।१।६) इति प्रशब्दस्य द्वित्वम् । स्वाहा तस्मै | तुभ्यं सुहुतमस्तु ॥ ३८ ॥

एकोनचत्वारिंशी।।
देव॑ सवितरे॒ष ते॒ सोम॒स्तᳪ र॑क्षस्व॒ मा त्वा॑ दभन् ।
ए॒तत्त्वं दे॑व सोम दे॒वो दे॒वाँ२ उपा॑गा इ॒दम॒हं म॑नु॒ष्या॒न्त्स॒ह रा॒यस्पोषे॑ण स्वाहा॒ निर्वरु॑णस्य॒ पाशा॑न्मुच्ये ।। ३९ ।।
उ० सोमं निदधाति । देवसवितः । हे देवसवितः, तव सोमः समर्पितः तं रक्षस्व गोपाय । मा त्वा दभन् । तस्मिन्रक्षणकर्मणि प्रवृत्तं त्वां मा असुरा दभ्नुयुः । दभ्नोतेर्वधकर्मा । यजमान उपतिष्ठते । एतत्वं देव हे देव, सोम, एतत्त्वं देवः सन् देवान् उप अगाः उपागतवानसि । अभिनयेन दर्शयति । इदमहं मनुष्यान् । उपगच्छेयमित्यनुषङ्गः । सहरायस्पोषेण सहितो धनपोषेण। उपनिष्क्रामति । स्वाहा निर्वरुणस्य स्वाहा । स्वः अहमिति निगृह्यवचनम् । अनेन देवानां सोमप्रदानेनात्मानं निष्क्रीयस्व आत्मीयोहमस्मि अस्माच्च हेतोर्निर्मुच्ये निर्मुक्तोहं वरुणस्य संबन्धिनः पाशात् । यद्वा सुहुतः सोमोस्तु । अहं त्विदानीमेव वरुणस्य पाशान्निर्मुच्ये ॥ ३९॥
म० 'दक्षिणेऽनसि कृष्णाजिनमास्तीर्य तस्मिन्सोमं निदधाति देव सवितः' (का० ८।७।१७) इति । अनसि शकटे । सावित्रं यजुः । हे सवितः सर्वस्य प्रेरक देव, एष सोमस्ते तवार्पितः तं तादृशं सोमं त्वं रक्षस्व पालय । मा त्वा दभन् सोमस्य रक्षितारं त्वामसुरा मा विहिंसिषुः । एतत्त्वमिति विसृज्योपतिष्ठते' ( का० ८ । ७ । १८) इति । कृष्णाजिने स्थापितं बद्धं सोमं विस्रस्योपस्थानं कुर्यादिति सूत्रार्थः । सौम्यं यजुः । हे सोम देव, त्वं देवः सन्भवदीयान्देवानेतदिदानीमुपागाः प्राप्तोऽसि । अहं मनुष्यो यजमानो मदीयान्मनुष्यानिदमिदानीं रायस्पोषेण सह पश्वादिधनेन सार्धमुपागतोऽस्मीत्यनुषङ्गः । 'स्वाहा निरिति निष्क्रम्य' ( का० ८।७।१९.)इति हविर्धानमण्डपान्निर्गत्येति सूत्रार्थः । हानं हा न हा अहा स्वस्याहा स्वाहा स्वात्यागः सोमेनात्मानं निष्क्रीयात्मीयोऽहमस्मीत्यर्थः । यद्वा स्वाहा सोमरूपमन्नं देवेभ्यो दत्तमस्तु । अनेन सोमप्रदानेनाहं वरुणपाशान्निर्मुच्ये निर्मुक्तोऽस्मि ॥ ३९ ॥

चत्वारिंशी।
अग्ने॑ व्रतपा॒स्त्वे व्र॑त॒पा या तव॑ त॒नूर्मय्यभू॑दे॒षा सा त्वयि॒ यो मम॑ त॒नूस्त्वय्यभू॑दि॒यᳪ सा मयि॑ ।
य॒था॒य॒थं नौ॑ व्रतपते व्र॒तान्यनु॑ मे दी॒क्षां दी॒क्षाप॑ति॒रम॒ᳪस्तानु॒ तप॒स्तप॑स्पतिः ।। ४० ।।
उ० समिधमादधाति । अग्ने व्रतपाः । यजमानोऽग्निशरीरेणात्मशरीरस्य कृतव्यत्ययोऽधस्तनकर्मकलापं कृत्वाऽथेदानीं यथास्वं शरीरेणानुकुर्वाण आह । अग्ने व्रतपाः त्वे व्रतपाः या तव तनूः । व्रतपाशब्दस्यामन्त्रितस्याभ्यासः। 'अभ्यासे भूयां समर्थं मन्यन्ते' इत्यतिशयार्थः । त्वे इति द्वितीयार्थे शेप्रत्ययः । हे अग्ने, अतिशयेन व्रतस्य त्वं गोपाः अतस्त्वां ब्रवीमि या तव संबन्धिनी तनूर्मयि अभूत् । अभिनयेन दर्शयति । एषा सा त्वयि भवतु । यो मम तनूः । या तु मम तनूः त्वयि अग्ने, अभूद् इयं सा मयि भवतु । किंच यथायथं नौ व्रतपते व्रतानि यथायथं यथास्वं यथात्मीयम् आवयोः हे व्रतपते अग्ने, व्रतानि कर्माणि सन्तु । किंच अनु मे दीक्षां दीक्षापतिरमᳪस्त अन्वमंस्त अनुमतवान् मे मम दीक्षां दीक्षापतिः सोमः । अनुतपस्तपस्पतिः अनुमतवांश्च