पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६५
तृतीयः सर्गः ।

विभावसू' इति विश्वामरौ । शलभतां पतङ्गत्वम् । 'समौ पतङ्गशलभौ' इत्यमरः । भावे तल् । लभतां गच्छतु । रूपकालंकारः । द्रुतविलम्बितं वृत्तम् ॥११७॥

  इति विशकलितार्थामौद्धवीं वाचमेना-
   मनुगतनयमार्गामर्गलां दुर्नयस्य ।
  जनितमुदमुदस्थादुच्चकैरुच्छ्रितोरः ।
   स्थलनियतनिषण्णश्रीश्रुतां शुश्रुवान् सः॥ ११८ ॥

इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये श्र्यङ्के
मन्त्रवर्णनं नाम द्वितीयः सर्गः ॥२॥

 इतीति ॥ स हरिरित्थं विशकलितार्थां विवेचितार्थामनुगतनयमार्गां नीतिमार्गानुसारिणीं दुर्नयस्य । बलभद्राद्युक्तस्येत्यर्थः । अर्गलां निवारयित्रीमिति वैधर्म्येण रूपकालंकारः । 'तद्विष्कम्भोऽर्गलं न ना' इत्यमरः । अत एव जनितमुदं हरेः कृतानन्दाम् । उच्छ्रित उन्नते उरःस्थले नियतं निषण्णया अविश्रान्तमाश्रितया श्रिया श्रुतां नान्ययेति मन्त्रगुप्तिः । उद्धवस्येमामौद्धवीमेनां पूर्वोक्तांं वाचं शुश्रुवान् श्रुतवान् । 'भाषायां सदवसश्रुवः' (३।२।१०८) इति क्वसुः । उच्चैरेवोच्चकैरुन्नतः सन् । 'अव्ययसर्वनाम्नामकच् प्राक्टेः' (५।३।७१) इत्यकच्प्रत्ययः । उदस्थात् आसनादुत्थितवान् । 'उदोऽनूर्ध्वकर्मणि' (१॥३॥२४) इत्यस्य प्रत्युदाहरणमेतत् । रूपकानुप्रासालंकारौ । मालिनी वृत्तम् ॥ ११८ ॥

इति श्रीमहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिते शिशुपालवध-
काव्यव्याख्याने सर्वंकषाख्ये द्वितीयः सर्गः ॥२॥

तृतीयः सर्गः।


 कौबेरदिग्भागमपास्य मार्गमागस्त्यमुष्णांशुरिवावतीर्णः ।
 अपेतयुद्धाभिनिवेशसौम्यो हरिर्हरिप्रस्थमथ प्रतस्थे ॥१॥

 कौबेरेति ॥ अथोद्धववाक्यश्रवणानन्तरम् । अपेतो युद्धेऽभिनिवेश आग्रहो यस्य सः । शान्तक्रोध इत्यर्थः । अत एव सौम्यः प्रसन्नः । अत एव कौबेर्या दिशो भागम् । उत्तरायणमित्यर्थः । 'स्त्रियाः पुंवत्-' (६।३।३४) इत्यादिना पुंवद्भावः । तमपास्य त्यक्त्वा, अगस्त्यस्येममागस्त्यं मार्गमवतीर्णः । दक्षिणायनं गत इत्यर्थः । उष्णांशुरिव स्थितः । अनेन हरेः क्रोधः कार्यवशादाकालमन्तःस्तम्भितो, न त्वेकान्ततो निवृत्त इति सूचितम् । हरिः कृष्णो हरिप्रस्थमिन्द्रप्रस्थं प्रतस्थे प्रचचाल । 'इन्द्रो दुश्च्यवनो हरिः' इति हलायुधः। 'समवप्रविभ्यः स्थः' (१।३।२२) इत्यात्मनेपदम् । 'देशकालाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्' इति गन्तव्यस्य कर्मत्वम् । उपमालंकारः । सर्गेऽस्मिन्निन्द्रोपेन्द्रवज्रामिश्रणादुपजातिवृत्तम् । 'अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः' इति लक्षणात् ॥ १ ॥

पाठा०-१ 'नरकरिपुरुदस्थादु".