पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६४
शिशुपालवधे

चारिभिः । पचाद्यच् । एकार्थानि त्वया सहैकप्रयोजनानि राजन्यानां समूहा राजन्यकानि । 'गोत्रोक्ष-(४।२।३९) इत्यादिना वुञ्। अजातशत्रोरिमामाजातशात्रवीं पुरीमिन्द्रप्रस्थमुपेयिवांसि प्राप्नुवन्ति । 'उपेयिवान्-' (३।२।१०९) इत्यादिना क्वसुप्रत्ययान्तो निपातः । कर्तारः करिष्यन्ते । कृञः कर्मणि लुट् । इन्द्रप्रस्थेऽस्माकं महत्कार्यं भविष्यति तदध्वरयात्राव्याजेन संनद्वैरागन्तव्यमिति गूढं संदिश्य तत्र सर्वे मेलयितव्या इत्यर्थः ॥ ११४ ॥

 ननु तत्रावरकर्मणि को युद्धावकाश इत्याशङ्कय तत्रैव महत्कलहबीजं संपादयति-

  सविशेषं सुते पाण्डोर्भक्तिं भवति तन्वति ।
  वैरायितारस्तरलाः स्वयं मत्सरिणः परे ॥ ११५॥

 सविशेषमिति ॥ पाण्डोः सुते युधिष्ठिरे भवति पूज्ये त्वयि सविशेषं यथा तथा भक्तिं तन्वति सति तरलाश्चपला मत्सरिणो द्वेषवन्तः परे शत्रवः स्वयमेव वैरायितारो वैरं कर्तारः। 'शब्दवैरकलह-' (३।१।१७) इत्यादिना क्यङ् । ततः कर्तरि लुट् ॥ ११५॥

 किं तेऽपि सर्वे वैरायिष्यन्ते, नेत्याह-

  य इहात्मविदो विपक्षमध्ये
   सहसंवृद्धियुजोऽपि भूभुजः स्युः ।
  बलिपुष्टकुलादिवान्यपुष्टैः
   पृथगस्मादचिरेण भाविता तैः ॥ ११६ ॥

 य इति ॥ ये इह विपक्षमध्ये शत्रुमध्ये सहसंवृद्धियुजोऽपि चैद्येन सहैश्वर्यं गता अपि 'सत्सूद्विष-' (३।२।६१) इत्यादिना क्विप् । ये भूभुजो राजान आत्मविदः स्वाभिजनवेदिनःस्युः, यद्वा स्वात्मस्वरूपवेदिनः स्युस्तैर्भूभुग्भिः बलिपुष्टकुलात् काककुलात् । 'काके तु करटारिष्टबलिपुष्टसकृत्प्रजाः' इत्यमरः । अन्यपुष्टैः परभृतैरिवाचिरेण सद्योऽस्माद्विपक्षमध्यात् । 'अन्यारात्-' (२।३।२९) इत्यत्रान्यशब्दस्यार्थपरत्वात् पृथगादिप्रयोगेऽपि पञ्चमी । पृथग्भाविता पृथग्भविष्यते । भावे लुट् । चिण्वदिटि वृद्धिः । तेष्वपि केचिदस्माभिः संगच्छन्त इत्यर्थः । औपच्छन्दसिकं वृत्तम् ॥ ११६॥

 अथ फलितं निगमयन्नाशिषं प्रयुङ्क्ते-

  सहजचापलदोषसमुद्धतश्चलितदुर्बलपक्षपरिग्रहः ।
  तव दुरासदवीर्यविभावसौ शलभतां लभतामसुहृद्गणः॥११७॥

 सहजेति ॥ सहजं स्वाभाविकं चापलं दुर्विनीतत्वम् , अनवस्थितत्वं च । 'चपलः पारदे शीघ्रे दुर्विनीतेऽनवस्थिते' इति वैजयन्ती । तेनैव दोषेण समुद्धतो दृप्तः पक्षः सहायो, गरुच्च । 'पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु' इति वैजयन्ती । चलितोऽस्थिरो दुर्बलपक्षपरिग्रहो यस्य स असुहृद्गणः शत्रुवर्गस्तव दुरासदवीर्यविभावसौ दुःसहतेजोवह्नौ । 'वीर्यं शुक्रे प्रभावे च तेजःसामर्थ्ययोरपि', 'सूर्यवह्नी