पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५८
शिशुपालवधे

स्थास्तूनि स्थिराणि । कालान्तरक्षमाणीत्यर्थः । 'ग्लाजिस्थश्च-' (३।२।१३९) इति ग्स्नुः । बलवन्ति च परपीडाक्षमाणि च भवन्ति । श्लिष्टपरम्परितरूपकम् ॥ ९३ ॥

  स्थाने शमवतां शक्त्या व्यायामे वृद्धिरङ्गिनाम् ।
  अयथावलमारम्भो निदानं क्षयसंपदः ॥९४ ॥

 स्थाने इति ॥ किंच स्थाने शक्यविषये शमवतां क्षमावतामङ्गिनां सप्ता- ङ्गिनां राज्ञां, शरीरिणां च शक्त्या प्रभावाद्यनुसारेण, बलेन च व्यायामे व्यापारे । पाहुण्यप्रयोगे गमनादौ च सतीत्यर्थः । वृद्धिपचयः । राज्यस्य, शरीरस्य चेति भावः । विपक्षे बाधकमाह-अयथाबलं शक्त्यतिक्रमेण । 'यथा सादृश्ये' (२/१/७) इत्यव्ययीभावे नञ्समासः । आरम्भो व्यायामः । क्षयसंप- दोऽत्यन्तहानेर्निदानमादिकारणम् । अङ्गानामिति भावः । तस्मादस्माकमकस्साच्चै- द्यास्कन्दनमश्रेयस्करमिति भावः । अत्र विशेषस्यापि श्लिष्टत्वाच्छब्दशक्तिमूलो वस्तुना वस्तुध्वनिः । अतो द्वयानामङ्गिनामौपम्यं च गम्यत इति संक्षेपः ॥ ९४ ॥

 फलितमाह-

  तदीशितारं चेदीनां भवांस्तमवमंस्त मा।
  निहन्त्यरीनेकपदे य उदात्तः स्वरानिव ॥ ९५ ॥

 तदिति ॥ तत्तस्मादशक्यार्थस्याकार्यत्वात्तं चेदीनामीशितारं शिशुपालं भवान् मावमंस्त नावमन्यस्व । मन्यतेर्माङि लुङ् । अनुदात्तत्वान्नेडागमः। कुतः । यश्चैद्यः उदात्तः स्वराननुदात्तानिवारीनेकपदे एकस्मिन्पदन्यासे, सुप्तिङन्तलक्षणे च निहन्ति हिनस्ति, नीचैः करोति च । अतिशूरत्वात् । 'अनुदात्तं पदमेकवर्जम्' (६।१।१५८) इति परिभाषाबलाच्चेति भावः ॥ ९५॥

 न चायमेकाकी किं नः करिष्यतीति मन्तव्यमित्याह-

  मा वेदि यदसावेको जेतव्यश्चेदिराडिति ।
  राजयक्ष्मेव रोगाणां समूहः स महीभृताम् ॥ ९६ ॥

 मा वेदीति ॥ असौ चेदिराट् एकः एकाकी अतो जेतव्यः सुजय इति मा वेदि मा ज्ञायि । वेत्तेः कर्मणि माङि लुङ् । यद्यस्मात् स चेदिराट् राज्ञश्चन्द्रस्य यक्ष्मा, राजा चासौ यक्ष्मेति वा राजयक्ष्मा क्षयरोगो रोगाणामिव महीभृतां समूहः समष्टिरूपः । तथाह वाग्भटः- 'अनेकरोगानुगतो बहुरोगपुरोगमः । राजयक्ष्मा क्षयः शोषो रोगराडिति च स्मृतः ॥ नक्षत्राणां द्विजानां च राज्ञो- ऽभूद्यदयं पुरा । यच्च राजा च यक्ष्मा च राजयक्ष्मा ततो मतः ॥' (नि० स्था० अ० ५) इति । अतो दुर्जेय इति भावः । एतेन 'चिरस्य मित्रव्यसनी सुदमो दमघोषजः' (२/६०) इति निरस्तम् ॥ ९६ ॥

 अथास्य सर्वराजसमष्टितामेव द्वाभ्यां व्याचष्टे-

  संपादितफलस्तेन सपक्षः परभेदनः ।
  कार्मुकेणेव गुणिना बाणः संधानमेष्यति ॥ ९७ ॥