पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५७
द्वितीयः सर्गः ।

वंशस्तत्कालविहितः स्वर उच्यते तस्य स्वरस्येतराः षड्जादयः विजिगीषोर्नृपत- योऽन्ये मण्डलपरिवर्तिनो राजानः परिवारतां पोष्यतां प्रयान्ति । तत्कार्यमेव साधयन्तीत्यर्थः । तस्माद्वि1मृश्य कर्तव्यमित्यर्थः ॥९॥

  अप्यनारभमाणस्य विभोरुत्पादिताः परैः।
  वजन्ति गुणतामर्थाः शब्दा इव विहायसः ॥ ९१ ॥

 अपीति ॥ किंच अनारभमाणस्य स्वयमकिंचित्कुर्वाणस्यापि विभोः प्रभोः, व्यापकस्य च परैरन्यैर्नृपतिभिः, शङ्खभेर्यादिभिश्च उत्पादिताः संपादिताः, जनि- ताश्वार्थाः प्रयोजनानि विहायस आकाशस्य शब्दा इव गुणतां विशेषणतां कारणत्वाद्गुणत्वं व्रजन्ति । शक्तो हि राजा स्वयमुदासीन एवाकाशवत् स्वमहिम्नैव कार्यदेशं व्याप्नुवन् शब्दानिव सर्वार्थानपि स्वकीयतां नयतीत्यर्थः । 'गुणस्त्वावृ. त्तिशब्दादिज्येन्द्रियामुख्यतन्तुषु' इति वैजयन्ती ॥९१ ॥

  यातव्यपार्षिणिग्राहादिमालायामधिकद्युतिः ।
  एकार्थतन्तुप्रोतायां नायको नायकायते ॥ ९२ ॥

 यातव्येति ॥ किंच एकार्थ एकप्रयोजनं स एव तन्तुः सूत्रं तत्र प्रोतायाम् । एकाभीष्टाभिलाषिण्यामित्यर्थः। प्रपूर्वाद्वेञः कर्मणि क्तः । 'वचिस्वपि-' (६॥१॥१५) इत्यादिना संप्रसारणम् । यातव्योऽभिषेणयितव्योऽरिः पार्ष्णि गृह्णातीति पार्ष्णि- ग्राहः पृष्ठानुधावी । कर्मण्यण् । तावादी येषां ते पूर्वोक्ताः पङ्क्तिशः स्थितास्त एवं माला रत्नमालिका तस्यामधिकातिर्महातेजा नायकः शक्तिसंपन्नो जिगीषु- र्नायकायते मध्यमणिरिवाचरति । स्वयमेव सर्वोत्कर्षेण वर्तत इत्यर्थः । तस्मा- द्वि1मृष्य कर्तव्यमिति भावः । 'नायको नेतरि श्रेष्ठे हारमध्यमणावपि' इति विश्वः । 'उपमानादाचारे' (३।१/१०) इति क्यच् । 'अकृत्सार्वधातुक-' (७।४।२५) इति दीर्घः । नायकायते इत्युपमा । अन्यथानुशासनविरोधात् । एकार्थतन्त्वत्यत्र तु रूपकमधिष्ठानतिरोधानेनारोप्यमाणतन्तुत्वस्यैवोद्भटत्वात् प्रोतत्वसिद्धेस्तदेव युक्तम् । तद्बलात्पार्ष्णिग्राहादिमालायामित्यत्रापि रूपकमेव । तदनुप्राणिता चेयमुप- मेत्यङ्गाङ्गिभावेन तयोः संकरः ॥ ९२ ॥

 अथ वि1मृश्यकरणप्रकारमाह-

  षाङ्गुण्यमुपयुञ्जीत शक्त्य2पेक्षो रसायनम् ।
  भवन्त्यस्यैवमङ्गानि स्थास्नूनि बलवन्ति च ॥ ९३ ॥

 षाङ्गुण्यमिति ॥ शक्तिं प्रभावादित्रयं, बलं चापेक्षत इति शक्त्यपेक्षः सन् । पचाद्यच् । 'शक्तिर्बले प्रभावादौ' इति विश्वः । षड्गुणा एव षाड्गुण्यं संधिविग्रहादिषट्कम् । चातुर्वर्ण्यादित्वात् स्वार्थे ष्यञ्प्रत्ययः । तदेव रसायनमौषध- विशेषमुपयुञ्जीत सेवेत । 'रसायनं विहङ्गेऽपि जराव्याधिभिदौषधे' इति विश्वः । एवं सत्यस्य प्रयोक्तुरङ्गानि स्वाम्यादीनि । 'स्वामी जनपदोऽमात्यः कोशो दुर्ग बलं सुहृत् । राज्यं सप्तप्रकृत्यङ्गं नीतिज्ञाः संप्रचक्षते ॥' इति । गात्राणि च

पाठा०-१ विमृष्य'. २ 'शक्त्यपेक्षं'.

-