पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४७
द्वितीयः सर्गः ।
    द्वितीयः सर्गः ।                                    ४७

 स्वेति ॥ केचिद्वृद्धाः स्वस्य शक्त्युपचये सामर्थ्यातिरेके यानं यात्रामाहुः । अथाह कामन्दक:-'प्रायेण सन्तो व्यसने रिपूणां यातव्यमित्येव समादिशन्ति । तथा विपक्षे व्यसनानपेक्षी क्षमो द्विषन्तं मुदितः प्रतीयात् ॥' इति । अपरे वृद्धाः परस्य शत्रोर्व्यसने विपदि । 'व्यसनं विपदि भ्रंशे' इत्यमरः । यानमाहुः । अत्र मनुः-'तदा यायाद्विगृह्मैव व्यसने चोत्थिते रिपोः' (७।१८३) इति । तद्वयमुक्तपक्षद्वयं कर्तृ आसीनमनुद्युञ्जानम् । 'ईदासः' (७।२।८३) इति शान- जाकारस्येकारादेशः । त्वामुत्थापयति प्रेरयति । तदुभयलाभादीदृक्कालो न कदापि लक्ष्यत इत्यर्थः ॥ ५७ ॥

 तत्र स्वशक्त्युपचयं तावल्लक्षयति-

  लिलङ्घयिषतो लोकानलङ्घ्यानलघीयसः ।
  यादवाम्भोनिधीन् रुन्धे वेलेव भवतः क्षमा ॥ ५८ ॥

 लिलङ्घयिषत इति ॥ लोकांल्लङ्घयितुमिच्छतो लिलङ्घयिषतः । लङ्घयतेः सन्नन्ताल्लटः शतरि शस् । अलङ्घ्यान् स्वयं दुर्लङ्घ्यान् । कुतः । अलघीयसोऽतिगु- रून् । अत एव यादवा अम्भोनिधय इवेत्युपमितसमासः । वेलेवेति लिङ्गात् । तान् यादवाम्भोनिधीन् भवतः क्षमा तितिक्षा वेलेव कूलमिव । 'वेला कूलेऽपि वारिधेः' इति विश्वः । रुन्धे प्रतिबध्नाति । अन्यथा प्रागेव सर्वं संहरेयुरिति भावः ॥ ५८ ॥

अभ्युच्चयश्चायमपरो यदक्लेशेनैव ते विजयलाभ इत्याह-

  विजयस्त्वयि सेनायाः साक्षिमात्रेऽपदिश्यताम् ।
  फलभाजि समीक्ष्योक्ते बुद्धेर्भोग इवात्मनि ॥ ५९ ॥

 विजय इति ॥ सेनायाः कर्त्र्या विजयः साक्षिमात्रे उदासीने एव फलभाजि त्वयि समीक्ष्योक्ते सांख्योक्ते । 'सांख्यं समीक्ष्यम्' इति त्रिकाण्डः । आत्मनि बुद्धेर्महत्तत्त्वस्य मूलप्रकृतेः प्रथमविकारस्य कर्त्र्याः भोगः सुखदुःखानुभव इवा- पदिश्यतां व्यवह्रियताम् । भृत्यजयपराजययोः स्वामिगम्यत्वादिति भावः । सांख्या अप्याहुः–कर्तेव भवत्युदासीनः' इति, 'सर्वं प्रत्युपभोगं यस्मात् पुरुषस्य साधयति बुद्धिः' इति च ॥ ५९॥

 अथ परस्य व्यसनमाह-

  हते हिडिम्बरिपुणा राज्ञि द्वैमातुरे युधि ।
  चिरस्य मित्रव्यसनी सुदमो दमघोषजः ॥६० ॥

 हत इति ॥ हिडिम्बरिपुणा भीमेन द्वयोर्मात्रोरपत्यं पुमान् द्वैमातुरः । 'मातु- रुत्संख्यासंभद्रपूर्वायाः' (४।१।११५) इत्यण्प्रत्ययः उकारश्चान्तादेशो रेफपरः । तस्मिन् राज्ञि जरासन्धे । सहिताभ्यां पत्नीभ्यामर्धशः प्रसूतो जरया नाम पिशा- च्या संधितश्चेति कथयन्ति । युधि हते सति चिरस्य चिरकालेन । 'चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः' इत्यमरः । मित्रव्यसनी मित्रव्यसनवान् ।

पाठा०-१ 'तन्नैष पक्षो व्यसनं ह्यनिष्टं क्षमस्तु सन्नभ्युदितः प्रतीयात्'. २ वेलेवेति

लिङ्गात्' इत्यंशः क्वचिन्न लभ्यते.