पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४
शिशुपालवधे

४४ शिशुपालवधे

असंपादयत इति ॥ किंच जातिः ब्राह्मणत्वादिः, क्रिया इज्याध्ययनादिः, गुणः शौर्यादिः, तैः साधनैः । करणे तृतीया । कञ्चिदर्थं सुकृतकीर्त्यादिपौरुषार्थम्, अन्यत्र गोत्वपाचकत्वशौक्ल्यादिभिः स्वाभिधेयभूतैः करणैः कञ्चिदर्थं व्यवहाररूपं प्रयोजनमसंपादयतः। उभयत्र तादृग्जात्याद्यसंभवादिति भावः । पुंसो जन्म सत्ता- लाभः यदृच्छाशब्दवत् इच्छाप्रकल्पितस्य जात्यादिप्रवृत्तिनिमित्तशून्यस्य डित्थादि- शब्दस्येव । 'तत्र तस्येव' (५।१।११६) इति वतिप्रत्ययः । 'स्वेच्छा यदृच्छा स्वच्छन्दः स्वैरता चेति ते समाः' इति केशवः। संज्ञायै केवलं संज्ञार्थमेव । एकत्र पारिभाषिकं किञ्चिन्नाममात्रमनुभवितुम् , अन्यत्र तादृक्तामनुभवितुमित्यर्थः॥४७॥

एवमपौरुषं दूषयित्वा पौरुषं भूषयति-

तुङ्गत्वमितरा नाद्रौ नेदं सिन्धावगाधता । अलङ्घनीयताहेतुरुभयं तन्मनस्विनि ॥४८॥

तुङ्गत्वमिति ॥ अद्रौ पर्वते तुङ्गत्वमौन्नत्यम् । अस्तीति शेषः, अस्तिर्भवन्ती- परोऽप्रयुज्यमानोऽप्यस्तीत्यादिभाष्यात् । भवन्तीति पूर्वाचार्याणां लटः संज्ञा । इतराऽगाधता नास्ति । सिन्धौ समुद्रेऽगाधता गम्भीरतास्ति । इदं तुङ्गत्वं नास्ति । मनस्विनि वीरे त्वलङ्घनीयताहेतुरलङ्घ्यत्वकारणं तदुभयं तुङ्गत्वमगाधता च । तस्मादद्रिसिन्धुभ्यामधिको मनस्वीति व्यतिरेकालंकारः ॥४८॥

संप्रति शत्रौ मार्दवमनर्थायेत्याह-

तुल्येऽपराधे स्वर्भानुर्भानुमन्तं चिरेण यत् । हिमांशुमाशु ग्रसते तन्म्रदिम्नः स्फुटं फलम् ॥ ४९ ॥

तुल्य इति ॥ स्वर्भानू राहुरपराधे तुल्येऽपि भानुमन्तं सूर्य चिरेण ग्रसते, हिमांशुं चन्द्रमाशु शीघ्रं ग्रसते गिलतीति यत् । 'ग्रसिते गिलिते गीर्णम्' इत्यभिधानात् । तत् म्रदिम्नो मार्दवस्य फलं स्फुटम् । 'पृथ्वादिभ्य इमनिच्' (५।१।१२२) इतीमनिच्प्रत्ययः । तस्माद्विपक्षे तीव्रेण भवितव्यम् । अन्यथा मृदुः सर्वत्र बाध्यत इति भावः । एतच्च प्रस्तुतमप्रस्तुतार्केन्दुकथनेन सारूप्यात्प्रतीयते इत्यप्रस्तुतप्रशंसाभेदोऽयम् । 'अप्रस्तुतस्य कथनात्प्रस्तुतं यत्र गम्यते । अप्रस्तुत- प्रशंसेयं सारूप्याद्विनियन्त्रिता ॥' इति लक्षणात् ॥ ४९ ॥

एतदेव भङ्ग्यन्तरेणाह-

स्वयं प्रणमतेऽल्पेऽपि परवायावुपेयुषि । निदर्शनमसाराणां लघुर्बहुतृणं नरः॥५०॥

स्वयमिति ॥ असाराणां दुर्बलानां निदर्शनं दृष्टान्तः । अत एव ईषदसमाप्तं तृणं बहुतृणम् । तृणकल्पमित्यर्थः । 'विभाषा सुपो बहुच्पुरस्तात्' (५।३।६८) इति बहुच्प्रत्ययः प्रकृतेः पूर्वं च भवति । 'स्यादीषदसमाप्तौ तु बहुप्रकृतिलिङ्गके' इति

वचनात् प्रकृतिलिङ्गता । लघुर्निष्पौरुषो नरोऽल्पेऽपि परो वायुरिवेत्युपमितसमासः।