सामग्री पर जाएँ

पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३८
शिशुपालवधे

धन्वी । 'प्रहरणम्' (४।४।५७) इति ठक् । 'इसुसुक्तान्तात्कः' (७।३।५१) 'अपराद्धपृषत्कोऽसौ लक्ष्याद्यश्च्युतसायकः । धन्वी धनुष्मान् धानुष्कः' इत्यमरः। तस्य वलिगतमिव वृथा निष्फलम् । कार्यज्ञस्य वचो ग्राह्यं न तु वाचालस्येति भावः ॥२७॥

 इत्थं षाड्गुण्यादिपाठमात्रं न मन्त्र इति सिद्धे संप्रति स्वयं मन्त्रस्वरूपमाह-

  सर्वकार्यशरीरेषु मुक्त्वाङ्गस्कन्धपञ्चकम् ।
  सौगतानामिवात्मान्यो नास्ति मन्त्रो महीभृताम् ॥ २८ ॥

 सर्वेति ॥ सर्वाणि कार्याणि संध्यादीनि तानि शरीराणीवेत्युपमितसमासः । व्यासे सौगतानामिवेति लिङ्गान्तेषु सर्वकार्यशरीरेषु सर्वेषु शरीरेष्विव । सर्वकार्येष्वित्यर्थः । अङ्गानि स्कन्धा इवेत्युपमितसमासः । तेषां पञ्चकं मुक्त्वा । स्कन्धपुञ्चकमिवाङ्गपञ्चकं हित्वेत्यर्थः । पञ्च परिमाणमस्येति पञ्चकम् । 'संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु' (५।१।५८) इति कप्रत्ययः । सुगतो भक्तिर्भजनीय एषां ते सौगता बौद्धाः । 'भक्तिः' (४।३।९५) इत्यण्प्रत्ययः । तेषामन्य आत्मेव महीभृतामन्यो मन्त्रो नास्ति । कर्मणामारम्भोपायः, पुरुषद्रव्यसंपत् , देशकालविभागः, विपत्तिप्रतीकारः, कार्यसिद्धिष्चेति पञ्चाङ्गानि । यथाह कामन्दकः-'सहायाः साधनोपाया विभागो देशकालयोः । विपत्तेश्च प्रतीकारः सिद्धिः पञ्चाङ्गमिष्यते ॥' इति । रूपवेदनाविज्ञानसंज्ञासंस्काराः पञ्च स्कन्धाः । तत्र विषयप्रपञ्चो रूपस्कन्धः, तज्ज्ञानप्रपञ्चो वेदनास्कन्धः, आलयविज्ञानसंतानो विज्ञानस्कन्धः, नामप्रपञ्चः संज्ञास्कन्धः, वासनाप्रपञ्चः संस्कारस्कन्धः । एवं पञ्चधा परिवर्तमानो ज्ञानसंतान एवात्मा इति बौद्धाः । एवं यथा बौद्धानां सर्वेषु शरीरेषु स्कन्धपञ्चकातिरिक्त आत्मा नास्ति, तथा राज्ञामङ्गपञ्चकातिरिक्तो मन्त्रो नास्तीत्युपमालंकारः । तच्चास्माकं समग्रमेवेत्ययमेव यात्राकाल इति भावः ॥ २८ ॥

 अथ मन्त्रितार्थक्रियाविलम्बे दोषमाह-

  मन्त्रो योध इवाधीरः सर्वाङ्गैः संवृतैरपि ।
  चिरं न सहते स्थातुं परेभ्यो भेदशङ्कया ॥ २९ ॥

 मन्त्र इति ॥ संवृतैर्गुप्तैः सर्वाङ्गैः पूर्वोक्तैरुपायादिभिरुरःस्थलादिभिश्चोपलक्षितोऽपि । सर्वाङ्गसंवृतोऽपीत्यर्थः । मन्त्रो विचारः। अधीरो भीरुः युध्यत इति योधो भट इव । पचाद्यच् । परेभ्योऽन्येभ्योऽरिभ्यश्च । 'परं दूरान्यमुख्येषु परोऽरिपरमात्मनोः' इति वैजयन्ती । भेदो विदारणं तृतीयगामित्वं च तस्य शङ्कया चिरं स्थातुम् । विलम्बितुमित्यर्थः । न सहते न क्षमः । शकधृष-' (३।४।६५) इत्यादिना तुमुन्प्रत्ययः । अतो न विलम्बितव्यम् , अन्यथा मन्त्रभेदे कार्यहानिः स्यादिति भावः ॥ २९ ॥

 किंच नीतिसर्वस्वपर्यालोचनयापि न विलम्बः कार्य इत्यभिप्रेत्याह-

  आत्मोदयः परज्यानिर्द्वयं नीतिरितीयती ।
  तदूरीकृत्य कृतिभिर्वाचस्पत्यं प्रतायते ॥ ३० ॥

पाठा०-१ ग्लानिः'.