पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२५
प्रथमः सर्गः ।

च । 'भुजङ्गो विटसर्पयोः' इति हलायुधः । न भेजे त्यक्तः । भुजैर्गच्छन्तीति भुजंगाः । गमेः सुपि 'खच् च डिद्वा वाच्यः' । तस्मिन्नियन्तरि खलैः खलत्वमपि, सर्पैः सर्पत्वमपि विहाय वेषभावक्रियाभिः सौम्यत्वं श्रितमित्यर्थः । अत्र प्रस्तुत- सर्पविशेषणसाम्यादप्रस्तुतखलव्यवहारप्रतीतेः समासोक्तिः ॥ ६३ ॥

तदीयमातङ्गघटाविघट्टितैः कटस्थलप्रोषितदानवारिभिः ।
गृहीतदिक्कैरपुनर्निवर्तिभिश्चिराय याथार्थ्यमलम्भि दिग्गजैः॥६४॥

 तदीयेति ॥ तदीयमातङ्गानां घटाभिर्व्यूंहैः विघट्टितैरभिहतैः । 'करिणां घटना घटा' इत्यमरः । अत एव कटस्थलेभ्यः प्रोषितान्यपगतानि दानवारीणि येषां तैः। गृहीताः पलाय्य संश्रिता दिशो यैस्तैर्गृहीतदिक्कैः। शेषाद्विभाषा' (५।४।१५४) इति कप् । अपुनर्निवर्तिभिर्भयात्तत्रैव स्थितैर्दिग्गजैः चिराय याथार्थ्यं दिक्षु स्थिता गजा दिग्गजा इत्यनुगतार्थनामकत्वमलम्भि लब्धम् । लभेर्ण्यन्तात् कर्मणि लुङ् । 'विभाषा चिण्णमुलोः' (७।१।६९) इति विकल्पान्नुमागमः ॥ ६४ ॥

अभीक्ष्णमुष्णैरपि तस्य सोष्मणः सुरेन्द्रबन्दीश्वसितानिलैर्यथा ।
सचन्दनाम्भःकणकोमलैस्तथा वपुर्जलार्द्रापवनैर्न निर्ववौ ॥६५॥

 अभीक्ष्णमिति ॥ ऊष्मणा स्मरज्वरेण सहितः सोष्मा तस्य सोष्मणस्तस्य रावणस्य वपुरभीक्ष्णं भृशमुष्णैरपि । शोकादिति भावः । सुरेन्द्रस्य बन्द्यः बन्दी- कृताः स्त्रियः तासां श्वसितानिलैर्निःश्वासमारुतैर्यथा निर्ववौ निर्वृतम् । 'निर्वाणं निर्वृतौ मोक्षे' इति वैजयन्ती । तथा सचन्दनाम्भःकणाः चन्दनोदकबिन्दु- सहिताः ते च ते कोमला मृदुलाश्च तैर्जलार्द्राणां जलोक्षिततालवृन्तानां पवनैर्न निर्ववौ । 'धुवित्रं तालवृन्तं स्यादुत्क्षेपव्यजनं च तत्' । 'जलार्द्रा स्याज्जलेनार्द्रं' इति वैजयन्ती । अत्र संतप्तस्योष्णोपचारान्निर्वृतिरिति कारणविरुद्धकार्योत्पत्ति- रूपो विषमालंकारः ॥ ६५ ॥

तपेन वर्षाः शरदा हिमागमो वसन्तलक्ष्म्या शिशिरः समेत्य च ।
प्रसूनक्लृप्तिं दधतः सदर्तवः पुरेऽस्य वास्तव्यकुटुम्बितां ययुः॥६६॥

 तपेनेति ॥ सदा नित्यं नतु यथाकालं प्रसूनक्लृप्तिं कुसुमसंपत्तिम् । 'प्रसूनं कुसुमं सुमम्' इत्यमरः । दधतो धारयन्तः ऋतवो वर्षाः प्रावृट् तपेन ग्रीष्मेण । "उष्ण ऊष्मागमस्तपः' इति, 'स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्षा अथ शरत्स्त्रियाम्' इति चामरः । तथा हिमागमो हेमन्तः शरदा, तथा शिशिरो वसन्तलक्ष्म्या च समेत्य मिथुनीभावेन मिलित्वा अस्य रावणस्य पुरे वसन्तीति वास्तव्या वस्तारः । 'वसेस्तव्यत्कर्तरि णिच्च' (वा) इति तव्यत् प्रत्ययः । ते च कुटुम्बिनश्च तेषां भावं तत्ताम् । प्रतिवासित्वमित्यर्थः । ययुः समेत्य ययुरिति समुदायसमुदायिनोरभेद- विवक्षया समानकर्तृत्वम् । अत्र पुरे युगपत्सर्वर्तुसंबन्धाभिधानादसंबन्धे संबन्ध- रूपातिशयोक्तिः ॥ ६६ ॥

पाठा०-१ तपेन'-६५, 'अभीक्ष्ण'-६६ इत्येवं विलोमक्रमेणोपलभ्येते.

२ 'निर्ववार'.


शिशु० ३