पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२४
शिशुपालवधे

या नार्यः । शुद्धान्तःस्त्रिय इत्यर्थः । तासां परिधानान्यन्तरीयाणि । 'अन्तरीयोप- संव्यानपरिधानान्यधोंशुके' इत्यमरः । तेषां धूननं चालनम् । धूञो ण्यन्ताल्लट् । 'धूञ्प्रीञोर्नुग्वक्तव्यः' (वा०) इति नुक् । तेन स्फुटागसा व्यक्तापराधेनापि । अन्तः- पुरद्रोहस्य महापराधत्वादिति भावः । ऊरुषु तासां सक्थिषु लोलचक्षुषः सतृष्ण- दृष्टेः। 'सक्थि क्लीबे पुमानूरुः' इति, 'लोलश्चलसतृष्णयोः' इति चामरः । अत एव तस्य रावणस्य प्रियेण प्रमोदास्पदभूतेनाङ्गीकृतः । म्लानिर्न दोषायेति न्यायादिति भावः । प्रकम्पनेन वायुना अनपराधेऽपराधाभावेऽपि बाधिताः । राजपुरुषैरिति शेषः । सुरा अनुचकम्पिरे । स्वयमुपायेनान्तःप्रविश्यानपराधबाधानिवेदनेन मोच- यता वायुनानुकम्पिता इत्यर्थः । एकस्य वैदग्ध्याद्बहवो जीवन्तीति भावः ॥ ६१॥

तिरस्कृतस्तस्य जनाभिभाविना मुहुर्महिम्ना महसां महीयसाम् ।
बभार बाष्पैर्द्विगुणीकृतं तनुस्तनूनपाद्धूमवितानमाधिजैः ॥६२॥

 तिरस्कृत इति ॥ किंच तस्य रावणस्य जनाभिभाविना लोकतिरस्कारिणा महीयसामतिमहतां महसां तेजसा महिम्ना महत्त्वेन । 'पृथ्वादिभ्य इमनिज्वा' (५।१। १२२) इतीमनिच् । मुहुस्तिरस्कृतः अत एव तनुः कृशः । तनुं न पातयति जाठररूपेण शरीरं धारयतीति तनूनपादग्निरिति स्वामी । 'नभ्राट्-' (६।३। ७५) इत्यादिसूत्रेण निपातनान्नञो लोपाभावः । आधिजैर्दुःखोत्थैर्बाष्पैः निःश्वासो- ष्मभिः । 'बाष्पो नेत्रजलोष्मणोः', 'पुंस्याधिर्मानसी व्यथा' इति विश्वामरौ । द्वौ गुणावावृत्ती यस्य स द्विगुणः । ततश्चिवः । द्विगुणीकृतं द्विरावृत्तम् । 'गुणस्त्वावृत्ति- शब्दादिज्येन्द्रियामुख्यतन्तुषु' इति वैजयन्ती । धूमवितानं धूममण्डलं बभार । अग्निरपि तत्संनिधौ निस्तेजस्को धूमायमान आस्त इत्यर्थः । धूमद्वैगुण्यासंबन्धे संबन्धाभिधानादतिशयोक्तिः ॥ ६२ ॥

परस्य मर्माविधमुज्झतां निजं द्विजिह्वतादोषमजिह्मगामिभिः ।
तमिद्धमाराधयितुं सकर्णकैः कुलैर्न भेजे फणिनां भुजंगता ॥६३॥

 परस्येति ॥ किंच इद्धं दीप्तम् । उग्रमित्यर्थः । 'इन्धी दीप्तौ’ कर्तरि क्तः । तं रावणमाराधयितुं सेवितुं परस्य स्वेतरस्य मर्माणि हृदयादिजीवस्थानानि, कुला- चारव्रतानि च विध्यति भिनत्तीति मर्मावित् । विध्यतेः क्विप् 'ग्रहिज्या-' (६।१।१६) इति संप्रसारणम् । 'नहिवृति-' (६।३।११६) इत्यादिना पूर्वस्य दीर्घः । तं मर्माविधं निजं स्वीयं द्विजिह्वतायां सर्पत्वे यो दोषो दृष्टिविष- त्वादिस्तम् । अन्यत्र द्विजिह्वता पिशुनता । 'द्विजिह्वौ सर्पसूचकौ' इत्यमरः । सैव दोषस्तमुज्झतां त्यजतां फणिनां संबन्धिभिरजिह्मगामिभिः करचरणादिमद्वि- ग्रहधारित्वात् ऋजुगतिभिः, अकपटचारिभिश्च । तथा कर्णाभ्यां सह वर्तन्त इति सकर्णकाः तैश्चक्षुःश्रवस्त्वं विहाय आविष्कृतकर्णैरित्यर्थः । तेन सहेति तुल्ययोगे' (२।२।२८) इति बहुव्रीहिः । शेषाद्विभाषा' (५।४।१५४) इति कप् । अन्यत्र कर्णयति सर्वं शृणोतीति कर्णको नियन्ता । कर्णयतेर्ण्वुल् । ततः पूर्ववत्समासे

सकर्णकैः । सनियामकैरित्यर्थः । फणिनां सर्पाणां कुलैर्वर्गैर्भुजंगता सर्पता, विटत्वं