पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०३
विंशः सर्गः ।

विंशः सर्गः। मध्ये स्थिता घोरा भीमा, आयता च बाहुदण्डो नासा नासिकेव यस्मिंस्तत्तथोक्तम् । कुपितत्यान्तकस्य मृत्योरुन्नतं यद्भूयुगं तद्वनीमा आकृतिर्यस्य तत्तस्य चैद्यस्य कार्मुकं जनेन ददृशे दृष्टम् । सभयविस्मयमिति भावः । उपमालंकारः॥१२॥ तडिदुज्ज्वलजातरूपपुङ्खैः खमयाश्याममुखैरभिध्वनद्भिः। जलदैरिव रंहसा पतद्भिः पिदधे संहतिशालिभिः शरौघैः ॥१३॥ तडिदिति ॥ तडिद्वदुज्जवला दीप्ता जातरूपस्य हेम्नः पुङ्खाः; कर्तर्यो येषां तैः । अयोवत् श्याममुखैः श्यामाग्रैरभिध्वनद्भिर्ध्वनिभिः स्वनत्पक्षैर्गर्जद्भिश्च रंहसा वेगेन पतद्भिर्धावद्भिः संहतिशालिभिः सङ्घवाहिभिः शरौघैर्जलदैरिव खमाकाशं पिदधे पिहितम् । कर्मणि लिट् । 'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः' इत्यपेरकारलोपः । उपमालंकारः ॥ १३ ॥ शितशल्यमुखावदीर्णमेघक्षरदम्भःस्फुटतीव्रवेदनानाम् । स्रवदयुततीव चक्रवालं ककुभामौर्ण विषुः सुवर्णपुङ्खाः ॥ १४ ॥ शितेति ॥ सुवर्णपुङ्खाः सुवर्णकर्तरिकाः शराः शितैर्निशितैः शल्यमुखैः फलाग्रैः अवदीर्णा अवभिन्ना ये मेघास्तेभ्यः क्षरता स्रवता अम्भसा स्फुटा व्यक्ता तीव्रा वेदना यासां तासां ककुभां संबन्धि स्रवन्ती अस्रुततिरस्रुसंततिर्यस्य तदिव शरप्रहारवेदनया रुददिव स्थितमित्युत्प्रेक्षा । चक्रवालं 'मण्डलमौर्णविषुराच्छादयामासुः। ऊर्णोतेर्लुङीडागमे तस्य 'विभाषोर्णोः' (१॥२॥३) इति डित्त्वाभावपक्षे 'ऊर्णोतेर्विभाषा' (७।२।६) इति वृद्धिविकल्पात्पक्षे गुणः अजादित्वात् 'आटश्च' (६।१।९०) इति वृद्धिः ॥ १४ ॥ अमनोरमतां यती जनस्य क्षणमालोकपथानभासदां वा । रुरुधे पिहिताहिमद्युतिर्द्यौर्विशिखैरन्तरिता च्युता धरित्री ॥ १५ ॥ अमन इति ॥ विशिखैश्चैद्यबाणैः कर्तृभिः पिहिताहिमद्युतिस्तिरोहितार्का । अत एवामनोरमतां यती प्राप्नुवती । इणः शतरि 'उगितश्च' (४।१६) इति ङीप् । द्यौराकाशं जनस्य भौमलोकस्य आलोकपथादृष्टिमार्गात् क्षणं रुरुधे रुद्धा । रुधेः कर्मणि लिद । अत्र पथो रोधापायत्वात् 'ध्रुवमपाये-' (१।४।२४) इति अपादानत्वे पञ्चमी । तथान्तरिता च्युता तिरोहिता नष्टा अत एवामनोरमतां यती धरित्री नभःसदां वा आलोकपथाद्गुरुधे । वाकारो जनसमुच्चयार्थः । अत्र द्युधरित्र्योः प्रकृतयोरेव रोधाख्यतुल्यधर्मयोगात्तुल्ययोगिताभेदौ ताभ्यामेव जनस्य नभःसदां यथासंख्यान्वयाद्यथासंख्यालंकारः सापेक्षतया संकीर्यते ॥ १५ ॥ विनिवारितभानुतापमेकं सकलस्थापि मुरद्विषो बलस्य । शरजालमयं समं समन्तादुरु सञव नराधिपेन तेने ॥ १६ ॥ विनिवारितेति ॥ नराधिपेन सकलस्यापि मुरद्विषो हरेबलस्य सैन्यस्य

विनिवारितो भानुतापो येन तदेकमद्वितीयं शरजालमयं बाणवृन्दात्मकं उरु