पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०२
शिशुपालवधे

शिशुपालवधे ऋजुतेति ॥ ऋजुता अवक्रत्वं अकुटिलबुद्धित्वं च फलं शल्यं, श्रेयश्च तेन योगः शुद्धिलॊहशुद्धिनिर्विषत्वं च, अन्यत्र बाह्याभ्यन्तरशुद्धिस्तां भजन्तीति तद्भाजां गुरोर्महतः पक्षस्य कङ्कादिपत्रस्य, सहायस्य चाश्रयः आश्रयणमेषामस्तीति गुरुपक्षाश्रयिणां शिलीमुखानां शराणाम् । गुणिना ज्यावता नतिमागतेन आकर्षणाकुञ्चितकोटित्वं, विधेयत्वं च प्राप्तेन चापेन सह संधिः संबन्धः समञ्जसः साधीयान्बभूव । अबलवतां बलिनाननेण संधिरेवोचित इति भावः । अत्र प्रस्तुतचापशिलीमुखयोर्विशेषणसाम्यादप्रस्तुतारिविजिगीषुवस्तुप्रतीतेः समासोक्तिः । तच्च साम्यं वाच्यप्रतीयमानयोरभेदाध्यवसायात्सिद्धम् । न चात्र समानालंकारशङ्का कार्या । 'समानालंकृतिर्योगे वस्तुनोरनुरूपयोः' इत्यनुरूपयोरेव वस्तुनोर्योगेन तस्योपस्थानादित्यनुसंधेयम् । जिगीषुगुणयोगिनोरिह भेदात् ॥ ९॥ अविषह्यतमे कृताधिकारं वशिना कर्मणि चेदिपार्थिवेन । अरसद्धनुरुचकैदृढार्तिप्रसभाकर्पणवेपमानजीवम् ॥१०॥ अविषह्येति ॥ वशिना स्वतन्त्रेण चेदिपार्थिवेन अविषह्यतमे दुष्करे कर्मण्यरिजयव्यापारे कृताधिकारं कृतनियोगम् । नियुज्यमानमित्यर्थः । अत एव दृढयोरोः धनुष्कोट्योः प्रसभाकर्षणेन वेपमाना दोधूयमाना जीवा ज्या यस्य तत्, अन्यत्र दृढया. ताडनेन प्रसभाकर्षणेन च वेपमानः कम्पमानो जीवः प्राणो यस्येत्यर्थः । 'अर्तिः पीडाधनुष्कोट्योः' इत्यमरः । 'जीवः प्राणेऽस्त्रियां ना तु जन्तावात्मनि गीष्पतौ । त्रिषु जीवति मौव्या स्त्री' इति वैजयन्ती । धनुरुच्चकैररसत् अध्वनदाक्रन्दत् । यथा राज्ञा नियुक्तः पराधीनः बलादाकृष्यमाणः क्रोशति तद्वदित्यर्थः । अत्रापि प्रकृतविशेषणसाम्यादप्रकृतापराध्यधिकृतपुरुषप्रतीतेः समासोक्तिः ॥ १०॥ अनुसंततिपातिनः पटुत्वं दधतः शुद्धिभृतो गृहीतपक्षाः । वदनादिव वादिनोऽथ शब्दाः क्षितिभर्तुर्धनुषः शराः प्रसस्रुः ११ अन्विति ॥ अथाकर्षणानन्तरं क्षितिभर्तुश्चैद्यस्य धनुषः सकाशात् अनुसंतत्या पतन्तीत्यनुसंततिपातिनोऽविच्छेदवर्तिनः पटुत्वं लक्ष्यभेदपाटवं, वाचकत्वशक्तिं च दधतः शुद्धिभृतः लोहशुद्धिभृतः निर्विषा वा, अन्यत्र साधव इत्यर्थः । गृहीतपक्षाः स्वीकृतकङ्कादिपत्राः, अन्यत्र गृहीतनित्यत्वादिसाध्यार्थाः । 'पक्षः पार्श्वगरुत्साध्यसहायबलभित्तिषु' इति वैजयन्ती । शराः वादिनः कथकस्य वदनाच्छब्दाः प्रतिज्ञाहेत्वादय इव प्रसस्रुर्निर्जग्मुः श्लिष्टविशेषणेयसुपमेति केचित् । श्लेष एव प्रकृताप्रकृतविषय इत्यन्ये ॥ ११ ॥ गवलासितकान्ति तस्य मध्यस्थितघोरायतबाहुदण्डनासम् । ददृशे कुपितान्तकोन्नमद्धयुगभीमाकृति कार्मुकं जनेन ॥ १२ ॥

गवलेति ॥ 'गवलं माहिषं शृङ्गम्' इत्यमरः । तद्वदसितकान्ति कृष्णवर्णं