सामग्री पर जाएँ

पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/५२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४८८
शिशुपालवधे

 अथेति ॥ अथ चैद्यजयानन्तरं वपुषा राजन्परः पुमानदृश्यतेति पञ्चमेन संबन्धः । तद्वपुस्तावत्त्रिभिर्विशिनष्टि-वक्षोमणेः कौस्तुभस्य छायया छुरितानि व्याप्तान्यापीतवासांसि पीताम्बराणि यस्य तेन । अत एव स्फुरता इन्द्रधनुषा भिन्नाः संगतास्तडितो यस्य तेन तडित्त्वता मेघेनेव स्थितेनेत्यर्थः ॥ ८३ ॥

॥ द्व्यक्षरः॥

   नीलेनानालनलिननिलीनोल्ललनालिना ।
   ललनालालनेनालं लीलालोलेन लालिना ॥ ८४ ॥

 नीलेनेति ॥ पुनः कीदृशेन वपुषा । नीलेन श्यामलेन तथाऽनालं नालर- हितं यन्नलिनं तत्र निलीना आसन्नाः उल्ललन्तीत्युल्ललनाश्वलाश्चालयो यस्य तेन अनालनलिननिलीमोल्ललनालिना । मुखसौरभलोभपरिभ्रमद्भ्रमरणेत्यर्थः । ललनानां विलासिनीनां स्त्रीणां लालनेन उपलालनेन । वशीकरणेनेत्यर्थः । अलमत्यन्तं लीलालोलेन क्रीडालोलुपेन । 'लीलालानेन' इति पाठे लीलानां बिलासानामालानेन । आलयेनेत्यर्थः । लालयति भक्तानिति लालिना । भक्ता- नुकम्पिनेत्यर्थः । द्व्यक्षरानुप्रासोऽलंकारः ॥ ८४ ॥

   अपूर्वयेव तत्काल समागमसकामया ।
   दृष्टेन राजन्वपुषा कटाक्षैर्विजयश्रिया ॥ ८५ ॥

 अपूर्वयेति ॥ किंच अपूर्वयेव अपूर्वसमागमयेव तत्कालसमागमे सकामया साभिलाषया विजयश्रिया । चैद्यविरक्तयेति भावः । कटाक्षैरपाङ्गैर्दृष्टेनालोकितेन वपुषा राजन्दीप्यमानः । अत्र प्रस्तुतजयश्रीविशेषणसाम्यादप्रस्तुतानुरक्तमानि- नीप्रतीतेः समासोक्तिः प्रतीयमानाभेदाध्यवसायादपाङ्गदर्शनोत्प्रेक्षा च ॥ ८५ ॥

॥ द्व्यक्षरः ॥

   विभावी विभवी भाभो विभाभावी विवो विभीः ।
   भवाभिभावी भावावो भवाभावो भुवो विभुः ॥८६॥

 विभावीति ॥ विभावोऽस्यास्तीति विभावी प्रभावसंपन्नः विभवोऽस्यास्तीति

विभवी ऐश्वर्यवान् भस्य आभेवाभा यस्य स भाभः । नक्षत्रवदुज्वल इत्यर्थः । विभां विशिष्टाभां भावयति संपादयति विश्वस्येति विभाभावी । 'तस्य भासा सर्वमिदं विभाति' (मुण्डकोपनिषत् २।२।१०) इति श्रुतेः । भुवो प्यन्ताण्णिनिः । विना पक्षिणा वाति गच्छतीति विवः । पक्षिवाहन इत्यर्थः । 'आतोऽनुपसर्गे कः' (३।२।३)। विभीर्निर्भीकः । भवं संसारमभिभवतीति भवाभिभावी । भक्तानां संसारनिवर्तक इत्यर्थः । भुवो णिनिः । भावाञ्जन्तूनवतीति भावावः विश्वत्राता । 'भावो लीलाक्रियाचेष्टाभूत्यभिप्रायजन्तुषु' इति वैजयन्ती । अवतेः कर्मण्यण् । भवाभावोऽस्यास्तीति । संसारदुःखैरस्पृष्ट इत्यर्थः । अर्श-आदित्वादच्प्रत्ययः । भुवो भूमेः विभुर्भर्ता ॥ ८६ ॥