पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४९०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६०
शिशुपालवधे

र्ग्रहीतुं प्रक्रान्तानामारब्धानाम् । समन्तादवरुध्यमानानामित्यर्थः । अत एव संर- ब्धानां क्षुभितानां अत एव आजिभूमौ भ्राम्यतामनवतिष्ठमानानां वारणानां वारै- र्वृन्दैः वारी बन्धनस्थानम् । 'वारः सूर्यादिदिवसे वारों वरणवृन्दयोः । वारी कटीभबन्धन्योः' इति विश्वः । सस्मरे स्मृता । तद्धर्मयोगादिति भावः । कर्मणि लिट् । अत्र शून्यासनत्वादीनां विशेषणगत्या वारीस्मरणहेतुत्वात्काव्यलिङ्गम् ॥५६॥

 पौनःपुन्यादस्रगन्धेन मत्तो मृद्गन्कोपाल्लोकमायोधनोर्व्याम् ।
 पादे लग्नामत्र मालामिभेन्द्रः पाशीकल्पामायतामाचकर्ष ॥५७॥

 पौनःपुन्यादिति ॥ अत्र आयोधनोार्व्यां युद्धभूमौ पौनःपुन्यात् । पुनःपुनरा- वृत्तेरित्यर्थः । ब्राह्मणादित्वात्व्यञ्प्रत्ययः । अव्ययानां भमात्रे टिलोपस्य सायंप्रा- तिकाद्यर्थमुपसंख्यानमिति टिलोपः । अस्रगन्धेन । रक्तगन्धाघ्राणादित्यर्थः । मत्त इभेन्द्रो महागजः कोपाल्लोकं जनं मृद्गन्क्षुन्दन् पादे लग्नामीषदसमाप्तां पाशी- कल्पां पाशबन्धनसदृशीम् । 'पाशस्त्वश्वादिबन्धनम्' इति विश्वः । 'बह्वादि- भ्यश्च' (४।१।४५) इति विकल्पादीकारः । अभाषितपुंस्कत्वात् 'घरूप-' (६।३।४३) इत्यादिना ह्रस्वो न भवति । आयतां दीर्घां मालामाचकर्ष पाशीकल्पेत्यत्र तद्धितगता पूर्णापमा ॥ ५७ ॥

 कश्चिन्मूर्छामेत्य गाढप्रहारः सिक्तः शीतैः शीकरैर्वारणस्य ।
 उच्छश्वास प्रस्थिता तं जिघृक्षुर्व्यर्थाकूता नाकनारी मुमूर्च्छ ॥५८॥

 कश्चिदिति ॥ गाढः प्रहारो यस्य सः कश्चिद्वीरो मूर्च्छामेत्य वारणस्य शीतैः शीकरैः पुष्करतुषारैः सिक्तः सन् उच्छश्वास उज्जीवति स्म, किंतु तं मूर्च्छामागतं जिघृक्षुर्ग्रहीतुमिच्छुः । ग्रहेः सन्नन्तादुप्रत्ययः । प्रस्थिता । तं वरीतुमागतेत्यर्थः । नाकनारी व्यर्थाकूता तदुज्जीवनाद्विफलमनोरथा सती मुमूर्च्छ । अत्राकूतवै- यर्थ्यस्य विशेषणगत्या नाकनारीमूर्छाहेतुत्वात्काव्यलिङ्गं मूर्च्चासंबन्धातिश- योक्त्या संकीर्यते ॥ ५८॥

 लूनग्रीवात्सायकेनापरस्य द्यामत्युच्चैराननादुत्पतिष्णोः ।
 त्रेसे मुग्धैः सैंहिकेयानुकाराद्रौद्राकारादप्सरोवक्त्रचन्द्रैः ॥ ५९॥

 लूनग्रीवादिति ॥ अपरस्य सायकेन लूनग्रीवाच्छिन्नकण्ठात् अत एव द्यामाकाशं प्रति आशु उच्चैरुत्पतिष्णोरुत्पतनशीलात् । 'अलंकृञ्-' (३।२।१३६) इत्यादिना इष्णुच्प्रत्ययः । अत एव सिंहिकाया अपत्यं पुमान् सैंहिकेयो राहुः । 'तमस्तु राहुः स्वर्भानुः सैंहिकेयो विधुंतुदः' इत्यमरः । 'स्त्रीभ्यो ढक्' (४।१।१२०)। तमनुकरोतीति तदनुकारात् । तत्सदृशादित्यर्थः । कर्मण्यण्प्रत्ययः । रौद्राकाराद्भीषणाकृतेरस्य वीरस्य आननान्मुग्धैः सुन्दरैरप्सरसां वक्रैरेव चन्द्रैस्त्रेसे त्रस्तम् । भावे लिट् । अत्र राहुहेतुकत्रासस्य चन्द्र एव संभवाद्वक्त्रचन्द्रैरिति रूपकं सिद्धम् । तस्य सैहिकेयानुकारादिति स्पष्टोपमापेक्षत्वात्संकरः ॥ ५९ ॥