वृत्तम्' इति वधनिषेधश्रवणात् । यः पुरस्तादभ्यावर्ती परावर्ती संसुखोऽभि- मुखः । स्वकीयोऽपीति भावः । असौ परः शत्रुर्वध्य इत्यर्थः । प्राणलुब्धस्य स्वामिद्रोहित्वादित्यर्थः ॥ १८॥
सद्वंशवादङ्गसंसङ्गिनीत्वं नीत्वा कामं गौरवेणावबद्धा ।
नीता हस्तं वञ्चयित्वा परेण द्रोहं चक्रे कस्यचित्स्वा कृपाणी १९
सदिति ॥ सद्वंशत्वाच्छुद्धाकरत्वात्कुलीनत्वाच्चाङ्गसंसङ्गिनीत्वमङ्गसंबन्धित्वं नीत्वा । अगुणत्वविवक्षायां 'स्वतलोर्गुणवचनस्य' ( वा) इति न पुंवद्भावः । कामं गौरवेणादरेणावबद्धा संयता च कस्यचित्स्वा स्वकीया कृपाणी असिलता। परेणान्येन वञ्चयित्वा प्रतार्य हस्तं नीता स्वायत्तीकृता सती द्रोहं हिंसां व्यभि- चारं च चक्रे कृतवती । अत्र प्रकृतकृपाणीविशेषणसाम्यादप्रकृतस्वैरिणीप्रतीतेः समासोक्तिः ॥ १९॥
नीते भेदं धौतधाराभिघातादम्भोदाभे शात्रवेणापरस्य ।
सासृग्राजिस्तीक्ष्णमार्गस्य मार्गो विद्युद्दीप्तः कङ्कटे लक्ष्यते स्म ॥२०॥
नीत इति ॥ शात्रवेण शत्रुणा । प्रज्ञादित्वात्स्वार्थेऽण्प्रत्ययः । धौताया उत्तेजिताया धारायाः खङ्गधाराया अभिघाताद्भेदं नीते विदारितेऽम्भोदाभे मेघश्यामे अपरस्य भटस्य कङ्कटे कवचे। 'उरश्छदः कङ्कटकोऽजगरः कवचोऽस्त्रि- याम्' इत्यमरः । सहासृग्राज्या सासृग्राजिः सरक्तरेखः तीक्ष्णमार्गस्य खङ्गस्य मार्गः प्रहारो विद्युद्दीप्तस्तडिदुज्वलो लक्ष्यते स्म । उपमालंकारः ॥ २० ॥
आमूलान्तात्सायकेनायतेन स्यूते बाहौ मण्डुकश्लिष्टमुष्टेः ।
प्राप्यासह्यां वेदनामस्तधैर्यादप्यभ्रश्यच्चर्म नान्यस्य पाणेः ॥२१॥
आमूलान्तादिति ॥ अन्यस्य भटस्य बाहौ आयतेन दीर्घेण सायकेन आमू- लान्तान्मूलप्रदेशपर्यन्तम् । आकक्षमित्यर्थः । विकल्पादसमासः । स्यूते प्रोते सति असह्यां वेदनां व्यथां प्राप्य अत एवास्तधैर्यात्त्यक्तधैर्यादपि धारयितुमक्षमादपि मण्डुके संग्राहे श्लिष्टा संदष्टा मुष्टियस्य तस्मात्पाणेश्चर्म फलकम् । 'फलकोऽस्त्री फलं चर्म संग्राहो मुष्टिरस्य यः' इत्यमरः । नाभ्रश्यन्नापतत् । अत्र सायकप्रोत- मुष्टिश्लेषयोर्विशेषणगत्या धैर्यत्यागचर्मभ्रंशौ प्रति हेतुत्वात्काव्यलिङ्गभेदः ॥ २१ ॥
भित्त्वा घोणामायसेनाधिवक्षः स्थरीपृष्ठो गार्धपक्षेण विद्धः ।
शिक्षाहेतोर्गाढरज्जवेव बद्धो हर्तुं वक्त्रं नाशकदुर्मुखोऽपि ॥ २२ ॥
भित्त्वेति ॥ आयसेन अयोमयेन गाों गृध्रसंबन्धी पक्षः पत्रं यस्य तेन गार्धपक्षेण बाणविशेषेण घोणां नासां भित्त्वा । 'घोणा नासा च नासिका' इत्यमरः । अधिवक्षो वक्षसि । विभक्त्यर्थेऽव्ययीभावः । विद्धः प्रहतः । व्यधेः कर्मणि क्तः 'अहिज्या-' (६।१।१६) इत्यादिना संप्रसारणम् । स्थूरीपृष्ठो नवारूढोऽश्वः शिक्षैव हेतुः तस्य शिक्षाहेतोः शिक्षया निमित्तेन । शिक्षार्थमिति यावत् । 'षष्टी हेतुप्रयोगे' (२।३।२६) इति षष्ठी ।गाढरज्जवा गाढपाशेन बद्ध इवेत्युत्प्रेक्षा ।