रोदोरन्ध्रमिति ॥ केचिद्वीराः गुवीं महतीं संयतो युध एव निषीदन्त्यस्या- मिति निषद्यामापणम् । 'आपणस्तु निषद्यायाम्' इत्यमरः । 'संज्ञायां समजनि- पद-' (३।३।९९) इत्यादिना क्यप् । एत्य प्राप्य । आङ्पूर्वादिणः क्त्वो ल्यप् । देहस्यान्तरभ्यन्तरे मापितैः परिच्छिन्नैः । मातेर्माङो वा ण्यन्तात्कर्मणि क्तः । 'अर्तिर्ह्रा--' (७।३।३६) इत्यादिना पुगागमः । लोलैरस्थिरैः प्राणैरेव मूल्यैः प्राणमूल्यै रोदसोर्द्यावापृथिव्यो रन्ध्रमन्तरालं व्यश्नुवानानि व्याप्नुवन्ति । अश्नोते- लटः शानजादेशः । स्थावराणि स्थिराणि । यशांसि क्रीणन्ति स्म । स्वीचक्रुरि- त्यर्थः । अत्र न्यूनैः प्राणैस्ततोऽधिकयशःपरिवर्तनान्यूनपरिवृत्तिरलंकारः । 'सम- न्यूनाधिकानां च यदा विनिमयो भवेत् । साकं समाधिकन्यूनैः परिवृत्तिरसौ मता ॥' इति लक्षणात् ॥ १५॥
वीर्योत्साहश्लाघि कृत्वावदानं सङ्ग्रामाग्रे मानिनां लज्जितानाम् ।
अज्ञातानां शत्रुभिर्युक्तमुच्चैः श्रीमन्नाम श्रावयन्ति स्म नग्नाः॥१६॥
वीर्योत्साहेति ॥ सङ्ग्रामाग्रे रणाग्रे वीर्योत्साहाभ्यां श्लाघ्यते इति श्लाघि विक्रमाहंकारशोभि अवदानं महत्कर्म कृत्वा । 'अवदानं कर्म वृत्तम्' इत्यमरः । लज्जितानाम् । मानित्वात्स्वनामाख्याने संकोचवतामित्यर्थः । शत्रुभिरज्ञातानाम- ज्ञातनामकानां मानिनां मानशालिनां शूराणां संबन्धि श्रीमत् शौर्यश्रीयुक्तं नाम नग्नाः बन्दिनः । 'बन्दिनि क्षपणे नग्नः' इति विश्वः । उच्चैः श्रावयन्ति स्म । अयमसाविति कथयामासुरित्यर्थः । युक्तम् । सर्वमेतदुचितमित्यर्थः । अत्र लज्जामानाज्ञातयोर्विशेषणगत्या बन्दिश्रवणहेतुत्वात्काव्यलिङ्गभेदः ॥ १६ ॥
आधावन्तः संमुखं धारितानामन्यैरन्ये तीक्ष्णकौक्षेयकाणाम् ।
वक्षःपीठैरात्सरोरात्मनैव क्रोधेनान्धाः प्राविशन्पुष्कराणि ॥१७॥
आधावन्त इति ॥ क्रोधेनान्धा अपश्यन्तोऽन्ये भटाः आधावन्तोऽभिमु- खमापतन्तः सन्तः अन्यैः सैन्यैः प्रतिद्वन्द्वाभिसंमुखं धारितानां धृतानां तीक्ष्ण- कौक्षेयकाणां निशितासीनाम् । 'कुलकुक्षिग्रीवाभ्यः श्वास्यलंकारेषु' (४।२।९६) इति ढकञ्प्रत्ययः । पुष्कराणि फलानि । खड्गमुखानीत्यर्थः । 'पुष्करं तूर्यवक्त्रे च काण्डे खड्गफलेऽपि च' इति विश्वः । वक्षांसि पीठानीव वक्षःपीठैर्वक्षस्थलैः आत्स- रोरामुष्टेः । 'त्सरुः खनादिमुष्टौ स्यात्' इत्यमरः । 'आङ् मर्यादाभिविध्योः' (२॥१॥ १३) इति विकल्पादसमासः । आत्मना स्वयमेव । परप्रयत्नं विनेत्यर्थः । प्राविशन् प्रविष्टाः । अत्र क्रोधान्धविशेषणगत्या पुष्करप्रवेशहेतुत्वात्काव्यलिङ्गभेदः ॥ १७ ॥
मिश्रीभूते तत्र सैन्यद्वयेऽपि प्रायेणायं व्यक्तमासीद्विशेषः ।
आत्मीयास्ते ये पराञ्चः पुरस्तादम्यावर्ती संमुखो यः परोऽसौ १८
मिश्रीभूत इति ॥ तत्र युद्धे सैन्यद्वयेऽपि मिश्रीभूते मिलिते सति प्रायेणायं विशेषोऽसाधारणधर्मो व्यक्तमासीत् । क इत्याह-पुरस्तादग्रे ये पराञ्चः परामुखाः । परेऽपीति भावः । ते आत्मीयाः । अवध्या इत्यर्थः । 'न भीतं न परा