सामग्री पर जाएँ

पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४३
सप्तदशः सर्गः ।

 समस्थलीकृतविवरेण पूरिता महीभृतां बलरजसा महागुहाः।
 रहस्त्रपाविधुरवधूरतार्थिनां नभःसदामुपकरणीयतां ययुः ॥ ६६ ॥

 समेति ॥ समस्थलीकृतानि विवराणि निन्नस्थानानि येन तेन बलरजसा पूरिताः महीभृतां भूधराणां महागुहाः । रहो रहसि । अत्यन्तसंयोगे द्वितीया । त्रपया विधुराणां विलक्षाणां वधूनां रतं सुरतमर्थयन्त इति तदर्थिनां नभःसदां सुराणामुपकरणीयतामुपकारकत्वं ययुः । तासां रजःपूरणात्पुंसामन्धकरणत्वादिति भावः । 'कृत्यल्युटो बहुलम्' (३।३।११३) इत्यनीयरः कर्बर्थता । अत्र रजःपू- रणस्य विशेषणगत्योपकारकहेतुत्वात्काव्यलिङ्गभेदस्तथोपकारकत्वासंबन्धेऽपि संब- धोक्तेरतिशयोक्तिरिति संकरः ॥ ६६ ॥

 गते मुखच्छदपटसादृशीं दृशः पथस्तिरो दधति घने रजस्यपि ।
 मदानिलैरधिमधुचूतगन्धिभिर्द्विपा द्विपानभिययुरेव रंहसा ॥६७॥

 गत इति ॥ छाद्यतेऽनेनेति छदः । मुखस्य छदो मुखच्छदः । 'पुंसि संज्ञायां घः प्रायेण' (३।३।११८) इति घप्रत्ययः 'छादेर्धेऽद्वयुपसर्गस्य' (६४९६) इति ह्रस्वः । स चासौ पटश्च तत्सादृशीं तत्सादृश्यम् । ब्राह्मणादित्वात्व्यञ्प्रत्यये 'षिद्गौरादिभ्यश्च' (४।१।४१) इति ङीष् । स च ष्यञः पित्करणादीकारो बहुल मिति वामनवचनाद्वैकल्पिकः । गते प्राप्ते । गजानां युद्धपूर्वकाले मुखाव- रणकारणात्तत्सदृशे घने सान्द्रे रजसि दृशो दृष्टेः पथो मार्गांस्तिरोदधति छादयति सत्यपि । अधिमधोरधिकमकरन्दस्य चूतस्येव गन्धो येषां तैः । 'उपमानाच्च' (५।४।१३७) इति गन्धस्यत्वे तदेकान्तग्रहणं तु व्यभिचारि । मदानिलैरभि- ज्ञानैर्द्विपा गजाः द्विपान्गजान्प्रति रंहसा वेगेनाभिययुरेव । अत्र तिरोहितदृष्टेर- भियानविरोधस्य मदानिलैः परिहाराद्विरोधाभासोऽलंकारः ॥ ६७ ॥

 मदाम्भसा परिगलितेन सप्तधा गजाञ्जनः शमितरजश्चयानधः।
 उपर्यवस्थितघनपांशुमण्डलानलोकयत्ततपटमण्डपानिव ॥ ६८॥

 मदाम्भसेति ॥ सप्तधा 'कराकटाभ्यां मेढ्राच्च नेत्राभ्यां च मदस्रुतिः' इति पालकाप्ये । सप्तभिः स्रोतोभिः परिगलितेन स्रुतेन मदाम्भसा अधः शमितो रजश्चयो यैस्तान् उपर्यवस्थितानि तथैव स्थितानि धनानि सान्द्राणि पांशुमण्डलानि पूर्वोत्थरजःपुञ्जा येषां तान्गजान् जनो लोकस्तता उपरि वितताः पटमण्डपा येषां तानिवेत्युत्प्रेक्षा । अलोकयत् ॥ ६८ ॥

 अन्यूनोनन्नतयोऽतिमात्रपृथवः पृथ्वीधरश्रीभृत-
  स्तन्वन्तः कनकावलीभिरुपमां सौदामनीदामभिः ।
 वर्षन्तः शममानयन्नुपलसच्छृङ्गारलेखायुधाः
  काले कालियकायकालवपुषः पांसून्गजाम्भोमुचः ॥६९॥

इति श्रीमाघकृतौ शिशुपालवधे महाकाव्ये यके यदुवंश-
क्षोभणो नाम सप्तदशः सर्गः ॥ १७ ॥