पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४७२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४२
शिशुपालवधे

अत एवाविलोकनक्षमा विलोकनानर्हाः दिश एवाङ्गना दिगङ्गानाः शरीरिणां प्राणिनां क्षणमीपत्कालं परिहरणीयतामगम्यतां ययुः । तस्मात् 'मलवद्वाससं न संविशेदेव' इत्यादिनिषेधादिति भावः । श्लिष्टपरम्परितरूपकम् ॥ ६१ ॥

 निरीक्षितुं वियति समेत्य कौतुकात्पराक्रमं समरमुखे महीभृताम् ।
 रजस्ततावनिमिषलोचनोत्पलव्यथाकृति त्रिदशगणैः पलाय्यत ६२

 निरीक्षितुमिति ॥ त्रिदशगणैर्देवगणैः समरमुखे रणारम्भे महीभृतां राज्ञां पराक्रमं निरीक्षितुं वियति कौतुकात्समेत्य रजस्ततौ रजःस्तोमे न निमिषन्त्यनि- मिषाणि पक्ष्मपातरहितानि । मिषेः पचाद्यच् । कुटादित्वान्न गुणः । तेषां लोच. नोत्पलानां व्यथाकृति दुःखकारिण्यां सत्याम् । कृजः क्विप् । पलाय्यताधाव्यत ॥ भावे परापूर्वादयतेर्लङि तङ् 'उपसर्गस्यायतौ' (८।२।१९) इति रेफस्य लत्वम् । अत्र लोचनोत्पलानां व्यथाऽसंबन्धेऽपि संबन्वोक्तेरतिशयोक्तिभेदः ॥ ६२ ॥

 विषङ्गिणि प्रतिपदमापिवत्यपो हताचिरद्युतिनि समीरलक्ष्मणि ।
 शनैःशनैरुपचितपङ्कभारिकाः पयोमुचः प्रययुरपेतवृष्टयः ॥६३ ॥

 विषङ्गिणीति ॥ विषङ्गिणि विषक्ते अत एव हताचिरद्युतिनि विरमिता- चिरद्युतिनि समीरलक्ष्मणि वातकेतौ रजसि प्रतिपदं प्रतिक्षणमपोऽम्भांस्यपिब- त्याकर्षति सति अत एवापेतवृष्टयो निवृत्तवर्षाः पयोमुचः उपचिताः प्रवर्धिताः पङ्कभारिकाः पङ्कभरणानि येषां ते उपचितपङ्कमारिकाः सन्तः । 'पर्यायार्हर्णो- त्पत्तिषु ण्वुल' (३।३।१११) इत्यर्हणार्थे ण्वुल प्रत्ययः । अर्हणं च करणसामर्थ्यम् । अत एव भाराच्छनैः शनैः प्रययुः प्राप्ताः । अत्र पयोमुचां पङ्कभरणासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिः ॥ ६३ ॥

 नभोनदीव्यतिकरधौतमूर्तिभिर्वियद्गतैरनधिगतानि लेभिरे ।
 चलच्चमूतुरगखुराहतोत्पतन्महीरजःस्नपनसुखानि दिग्गजैः॥६४॥

 नभोनदीति ॥ नभोनदीव्यतिकरेणाकाशगङ्गाया अवगाहेन धौतमूर्तिभिः क्षालिताङ्गैः वियद्गतैः खेचरैः अत एव दिग्गजैरनधिगतान्यननुभूतचराणि चल- द्भिश्वमूतुरगखुरैराहतम् अत एवोत्पतदुद्गच्छन्महीरजस्तेन स्नपनमभिषेचनं तेन यानि सुखानि तानि लेभिरे । कुञ्जराः पांशुवर्षेणेत्युदाहृतम् । अत्रापि दिग्ग. जानां रजःस्नपनासंबन्धेऽपि संबन्धोक्तेरतिशयोक्तिः ॥ ६४ ॥

 गजव्रजाक्रमणभरावनम्रया रसातलं यदखिलमानशे भुवा ।
 नभस्तलं बहुलतरेण रेणुना ततोऽगमत्रिजगदिवैकतां स्फुटम् ६५

 गजेति ॥ यद्यस्माद्गजव्रजानामाक्रमणभरेण पादक्षेपगौरवेणावनम्रया भुवा- खिलं रसातलं पातालमानशे व्याप्तम् । यद्यस्माच्च नभस्तलं बहुलतरेण रेणुना आनशे ततः कारणात्रिजगजगत्रयम् । तद्धितार्थ-' (२।१।५१) इत्यादिना समाहारे द्विगुः । 'द्विगुरेकवचनम्' (२।४।१)। एकतां भूलोकतामिवागमत् । स्फुटमित्युत्प्रेक्षायाम् ॥ ६५॥

पाठा०-१ 'स्फुटं ततस्त्रिजगदगच्छदेकताम्'.