पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/४२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३९४
शिशुपालवधे

 दधत इति ॥ मेदिनीभृतो राजानः । धूमपटलेन पिहितस्य छादितस्य अत एव भयानकतरत्वमतिभयंकरत्वमुपगतवतो गिरेः समानतां सादृश्यं दधतो दधानाः सपदि समवर्मयन् संवर्मयन्ति स्म । सम्यग्वर्मणानहन्नित्यर्थः । 'सत्यापपाश-' (३।१।२५) इत्यादिना णिच् । उपमालंकारः॥ ७५ ॥

 परिमोहिणा परिजनेन कथमपि चिरादुपाहृतम् ।
 वर्म करतलयुगेन महत्तनुचूर्णपेषमपिषद्रुषा परः ॥ ७६ ॥

 परिमोहिणेति ॥ परोऽन्यो नृपः । परिमुह्यतीति परिमोही । 'संपृच-'(३।२।१४२) इत्यादिना धिनुण्प्रत्ययः । तेन । खेदयुक्तेनेत्यर्थः । परिजनेन सेवकजनेन कथमपि विलम्बेन कष्टसृष्ट्या चिरादुपाहृतमानीतं महद्वर्म संनाहं करतलयुगेन पाणितलद्वयेन तनुचूर्णपेषं पिष्ट्वा । 'शुष्कचूर्णरूक्षेषु पिषः' (३।४॥३५) इति णमुलप्रत्ययः । अपिषञ्चूर्णितवान् । तच्च जिगीषोर्दुनिमित्तमिति भावः। 'कषादिषु यथाविध्यनुप्रयोगः' (३।४।४६) इत्यनुप्रयोगः । पिषेर्लुडि 'पुषादि-' (३।१।५५) इति च्लेरङादेशः । अत्र वर्मणः पेषणासंबन्धेपि तत्संबन्धोक्तेरतिशयोक्तिः । तया चामानुषं वीर्यमस्य व्यज्यते ॥ ७६ ॥

 रणसंमदोदयविकासिबलकलकलाकुलीकृते ।
 शारिमशकदधिरोपयितुं द्विरदे मदच्युति जनः कथंचन ॥७७॥

 रणेति ॥ रणेन रणारम्भेण यः संमदो हर्षः । 'प्रमदसंमदौ हर्षे' (३।३।६८) इति निपातः । तस्योदयेन जन्मना विकासिभिर्विस्तारिभिर्बलकलकलैः सैन्यकोलाहलैराकुलीकृते संक्षोभिते । अत एव मदं च्योततीति मदच्युति मदस्राविणि । क्विप् । द्विरदे गजे जनः परिजनः शारिं पर्याणम् । 'ना पर्याणे विहङ्गे स्त्री शारिद्यूतगुडे न पुम्' इति वैजयन्ती । 'शारिर्नाऽक्षोपकरणे स्त्रियां शकुनिकान्तरे । युद्धार्थे गजपर्याणे व्यवहारान्तरे क्वचित् ॥' इति विश्वप्रकाशश्च । अधिरोपयितुमारोपयितुं कथंचन कृच्छ्रादशकच्छशाक । शकेर्लुंङि 'पुषादि-' (३।१।५५) इति च्लेरङादेशः । अत्र विशेषणगत्या सेनाकलकलस्य मदहेतुत्वान्मदस्य शारिदुरारोपत्वहेतुत्वाच्च काव्यलिङ्गद्वयं तत्सापेक्षत्वात्संकीर्यते ॥ ७७ ॥

 परितश्च धौतमुखरुक्मविलसदहिमांशुमण्डलाः ।
 तेनुरतनुवपुषः पृथिवीं स्फुटलक्ष्यतेजस इवात्मजाः श्रियः॥७८॥

 परित इति ॥ किं चेति चार्थः । धौतेषु शोधितेषु मुखरुक्मेषु मुखस्य रुक्माभरणेषु विलसत्प्रत्येकं प्रतिफलदहिमांशुमण्डलमर्कबिम्बं येषां ते तथोक्ताः । अतएव स्फुटलक्ष्यमन्तर्गत्वा बहिः स्फुरितं तेजोऽन्तःसारो येषां ते इव स्थिता इत्युत्प्रेक्षा । तेजो व्याख्यातं पञ्चमे तेजोनिरोधेत्यत्र । अतनुवपुषो महाकायाः श्रिय आत्मजा अश्वाः । 'लक्ष्मीपुत्रोऽश्व आढये च' इति वैजयन्ती । परितः पृथिवीं तेनुर्व्याप्तवन्तः ॥ ७८ ॥