नेति ॥ तत्र तस्मिन्कर्मणि यज्ञकर्मणि । अन्यथाश्रुतस्य शब्दस्यान्यथालिङ्गवचनादिभेदेन विपरिणमनमूहः । तत्र कुशलाः । प्रयोग एषामस्तीति प्रयोगिणः प्रयोक्तार ऋत्विजः आगमे आम्नाये निखिलाभिर्विभक्तिभिः प्रथमादिभिः सुब्विभक्तिभिस्ति ङ्विभक्तिभिश्च । विभक्तिग्रहणं वचनोपलक्षणम् । व्यक्तिभिर्लिङ्गैश्चाञ्जसा सुखेन निगदितुं पठितुं न भवन्त्यशक्यत्वादिति नाञ्जसा निगदितुम् । 'अञ्जस उपसंख्यानम्' (वा०) इति अलुक् । नञर्थस्य नशब्दस्य सुप्सुपेति समासः । अथवा अञ्जसेति तृतीयान्तप्रतिरूपकमव्ययं तत्त्वाथ । 'अञ्जसा तत्त्वतूर्णयोः' इति विश्वः । अञ्जसा तत्त्वत इत्यर्थः । अस्मि१न्पक्षे नैकपद्यनियमः । तं मन्त्रं कर्माङ्गदेवतारूपवाक्यं विपर्यणीनमन् विपरिणमन्ति स्म । विपरिणमितवन्त इत्यर्थः । विपरिपूर्वकाण्ण्यन्तात् णमधातोर्लुङ् । सन्वद्भावे 'सन्यतः' (७|४|७९) इत्यभ्यासस्येत्वम् । 'दीर्घो लघोः' (७|४|९४) इति दीर्घः । 'उपसर्गादसमासेऽपि णोपदेशस्य' (८|४|१४) इति णत्वम् । अत्र नाञ्जसेति पाठविशेषणगत्या मन्त्रविपरिणमनहेतुत्वात्पदार्थहेतुकं काव्यलिङ्गम् ॥ २३ ॥
संशयाय दधतोः सरूपतां दूरभिन्नफलयोः क्रियां प्रति ।
शब्दशासनविदः समासयोर्विग्रहं व्यवससुः स्वरेण ते ॥२४॥
संशयायेति ॥ संशयाय संदेहोत्पादनाय सरूपतां सादृश्यं दधतोः । उभयत्र रूपसाम्यादयं समासोऽयं वेति संशयं कुर्वतोरित्यर्थः । यथेन्द्रशत्रुरित्यत्रेन्द्रस्य शत्रुः शातयिता हन्तेति षष्ठीतत्पुरुषः, उतेन्द्रः शत्रुर्यस्येति बहुव्रीहिरिति सारूप्यसंशयः । तत्रानियमे दोषमाह-दूरेति । क्रिया प्रकृतं कर्म तां प्रति। तामुद्दिश्येत्यर्थः । दूरभिन्नमत्यन्तविलक्षणं फलं ययोर्दूरभिन्नफलयोस्तयोरर्थभेदात्कर्मणः फलभेदं प्रतिपादयतोरित्यर्थः । यथेन्द्रशत्रुरित्यत्रैव षष्ठीसमासस्येष्टत्वे वृत्रस्येन्द्रहन्तृत्वम्, बहुव्रीहौ तु तस्येन्द्रेण वध्यत्वमिति फलभेद इति भावः । समासयोरेवंविधयोः प्रसक्तयोः सतोरित्यर्थः । भावलक्षणे सप्तमी । शब्दशासनविदः शब्दशास्त्रज्ञाः । अन्येषामनधिकारादिति भावः । ते प्रकृता ऋत्विजः स्वरेण तत्तत्समासविहितस्वरवशेन विग्रहं वाक्येन समर्थाभिधानं व्यवससुनिश्चिक्युः । अस्मिन् स्वरेऽयं समासः, तत्रायं विग्रह इति अन्यतरपक्षावधारणं चक्रुः । यथेन्द्रशत्रुरित्यत्रैव पूर्वपदे उदात्तत्वेन बहुव्रीहिवरेण बहुव्रीहिसमासनिश्चयः । इन्द्रः शत्रुर्यस्येति विग्रहावधारणमित्यर्थः । व्यवपूर्वस्य स्यतेर्लिटि 'आदेश-' (८३५९) इत्यात्वे द्विर्वचनादिकार्ये झेरुसादेशः । अत्र संशयजनकत्वफले भेदप्रतिपादकपदार्थयोर्विशेषणगत्या संदिग्धे न्यायः प्रवर्तत इति न्यायेन विग्रहस्य व्यवसायहेतुकत्वात्पदार्थहेतुकं काव्यलिङ्गमलंकारः ॥ २४ ॥
लोलहेतिरसनाशतप्रभामण्डलेन लसता हसन्निव ।
प्राज्यमाज्यमसकृद्वषट्कृतं निर्मलीमसमलीढ पावकः ॥२५॥
लोलेति ॥ लसता प्रकाशमानेन लोलाश्चला हेतयो ज्वाला एव रसना रसज्ञाः । 'वह्नेयोर्वालकीलावर्चिहेंतिः शिखा स्त्रियाम्' इति, 'रसज्ञा रसना
पाठा०-१ 'यज्ञे नैव क्रमनियमः'.