पुरोनुवाक्यायामनूक्तायां तत्प्रकाशितदेवतोद्देशेनाध्वर्युहातृपठितयाज्यान्ते वषट्कारेण सोमादिकं हविरग्नावत्याक्षीदित्यर्थः । स्वभावोक्तिरलंकारः ॥ २० ॥
सप्तभेदकरकल्पितखरं साम सामविदसङ्गमुज्जगौ ।
तत्र सूनृतगिरश्च सूरयः पुण्यमृग्यजुषमध्यगीषत ॥ २१ ॥
सप्तेति ॥ तत्र क्रतौ । सामानि वेत्तीति सामवित् उद्गाता सप्तभेदं सप्तप्रकारं यथा तथा करेण हस्तेन कल्पिताः संपादिताः स्वरा निषादादयो यस्य तत् । करविन्यासभेदादिभिर्व्यञ्जितसप्तस्वरमित्यर्थः । 'निषादर्षभगान्धारषड्जमध्यमधैवताः । पञ्चमश्चेत्यमी सप्त' इत्यमरः । यद्वा स्वराः कष्टादयः । कष्टः प्रथमो द्वितीयो मन्दो नीच इत्यादयः । साम बृहद्रथन्तरादिकमसङ्गमस्खलितमुज्जगावुदगायत् । किंच सूनृतगिरः प्रियसत्यवाचः । 'प्रियं सत्यं च सूनृतम्' इत्यमरः । सूरयो विद्वांसो होत्राध्वर्वा्यदयः पुण्यं श्रेयस्करम् । ऋचश्च यजूंषि च तत् ऋग्यजुषम् 'अग्निमीळे' 'इषे त्वा' इत्यादिकम् । द्वन्द्वैकवद्भावः 'अचतुर' (५।४।७७) इत्यादिना द्वन्द्वे समासान्तनिपातः । अध्यगीषत । इङो लुडि 'विभाषालुङ्लुडोः' (२।४।५०) इति गाङादेशपक्षे 'गाङ् कुटादि' (१।२।१) इति सिचः कित्त्वे 'घुमास्था' (६४६६) इत्यादिना ईत्वम् । अत्र सामसामेत्यादौ वृत्त्यनुप्रासभेदो द्रष्टव्यः ॥ २१ ॥
बद्धदर्भमयकाञ्चिदामया वीक्षितानि यजमानजायया ।
शुष्मणि प्रणयनादिसंस्कृते तैर्हवींषि जुहवांबभूविरे ॥ २२ ॥
बद्धेति ॥ बद्धं दर्भभयं दर्भविकारं काञ्चिदाम रशनागुणो यस्यास्तया । आग्नीध्रसंनद्धयेत्यर्थः । 'आशासाना सौमनसमित्युत्तरेण गार्हपत्यमूर्ध्वर्जुमासीनां पत्नीं संनह्य तिष्ठन्तीं वाचयतीत्येके, मौञ्जन दाम्नान्यतरतः पाशेन योक्रेण च' इत्यापस्तम्बवचनात् । दामेति 'डाबुभाभ्यामन्यतरस्याम्' (४।१।१३) इति डाप्प्रत्ययः । यजमानो यष्टा । 'पूङ्यजोः शानन्' (३।२।१२८) इति यजेः शानन्प्रत्ययः । तस्य जायया पन्त्या वीक्षितानि दृष्टानि हवींष्याज्यानि । 'पत्नयवेक्षते' इत्याज्यस्य पत्नयवेक्षणसंस्कारविधानादर्थप्रधानत्वात्सर्वेषामाज्यादीनां प्राणभृन्न्यायेन वीक्षितत्वव्यपदेशः। प्रणयनं नाम गार्हपत्यादुद्धृत्य मन्त्रेणायतने सादनम्। आदिशब्दात् परिस्तरणसमिदाधानसंमार्गादिसंस्कारसंग्रहः । तैः प्रणयनादिभिः संस्कृते अहितातिशये शुष्मण्यग्नौ । 'बर्हिः शुष्मा कृष्णवर्त्मा' इत्यमरः । अत्राप्याहवनीये जुहोतीति हूयमानेऽध्वर्युः कर्ता । 'जुहूपात्रव्यापृतया स्रुवाहवनीयं प्रधानम्' इति न्यायवचनात् । तैः ऋत्विग्भिः जुहवांबभूविरे । जुहोतेः कर्मणि लिट् 'भीहीभृहुवाम्' (३।१।३९) इति विकल्पादाम्प्रत्ययः । अत्र विषयस्य योक्रस्यानुपादानेन विषयिणः काञ्चीगुणस्यैव तदभेदेन निर्देशानेदेऽभेदरूपातिशयोक्तेरनुप्रासेन संकरः ॥ २२ ॥
नाञ्जसा निगदितुं विभक्तिभिर्व्यक्तिभिश्च निखिलाभिरागमे ।
तत्र कर्मणि विपर्यणीनमन् मन्त्रमूहकुशलाः प्रयोगिणः ॥२३॥