पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३३०
शिशुपालवधे

 नवेति ॥ अथ प्रवेशानन्तरं स हरिस्तत्र संसदि सभायां नवभिर्हाटकेष्टकाभिः हिरण्येष्टकाभिश्चितम् । “हिरण्यं हेम हाटकम्' इत्यमरः । 'इष्टकेषीकामालानां चिततूलभारिषु' (६॥३॥६५) इति ह्रस्वः । पक्वमृत्तिकाविशेषवाचकस्येष्टकाशब्दस्य तादृशि सुवर्णविकारे सुवर्णघटवदुपचारात्प्रयोगः । क्षितिपस्य युधिष्ठिरस्य पस्त्यं सदनम् । 'निशान्तपस्त्यसदनम्' इत्यमरः । ददर्श । यत्सदनं गगनस्पृशामुच्चैस्तराणां मणिरुचां रत्नप्रभाणां चयेन समूहेन नाकिनां देवानामपि सदनान्युदस्सयताहसत् । स्मयतेरुत्पूर्वात्कर्तरि लङ् । अत्रापि नृपसदनस्य सुरसदनादाधिक्यासंबन्धेऽपि तत्संबन्धोक्तेरतिशयोक्तिः ॥ ६३ ॥

 उदयाद्रिमूर्ध्नि युगपञ्चकासतोर्दिननाथपूर्णशशिनोरसंभवाम् ।
 रुचिमासने रुचिरधाम्नि बिभ्रतावलघुन्यथ न्यषदतां नृपाच्युतौ ६४

 उदयाद्रीति ॥ अथ नृपसदनदर्शनानन्तरमुदयाद्रेर्मूर्ध्नि शिखरे युगपच्चकासतोः प्रकाशमानयोः । 'चकासृ दीप्तौ' इति धातोर्लटः शत्रादेशः । दिननाथपूर्णशशिनोः सूर्यपूर्णचन्द्रमसोरसंभवां संभवरहिताम् । तयोस्तथाभूतयोर्यौगपद्यायोगादभूतपूर्वामित्यर्थः । रुचिं शोभां बिभ्रतौ नृपाच्युतौ रुचिरधाम्न्युज्वलतेजसि । अलघुनि विपुले आसने सिंहासने न्यषदतामुपविष्टौ । सदेर्लुङि 'पुषादि-' (३॥१॥५५) इति च्लेरङादेशः 'सदिरप्रतेः' (८|३|६६) इति षत्वम् । अत्र संभावनया अर्कपूर्णेन्दुशोभासंबन्धोक्तेरसंबन्धरूपातिशयोक्तिः ॥ ६४ ॥

 सुतरां सुखेन सकलक्लमच्छिदा सनिदाघमङ्गमिव मातरिश्वना ।
 यदुनन्दनेन तदुदन्वतः पयः शशिनेव राजकुलमाप नन्दथुम् ॥६५॥

 सुतरामिति ॥ तद्राजकुलं कुरुकुलम् । सकलक्लमच्छिदा सकलदुःखहारिणा यदुनन्दनेन कृष्णेन सनिदाघं ससंतापमङ्गं मातरिश्वना वायुनेव उदकान्यस्य सन्तीत्युदन्वानुदधिः । 'उदन्वानुदधौ च' (८।२।१३) इति निपातः । तस्य पयो जलं शशिनेव सुतरामत्यन्तम् । 'किमेत्तिङव्यय-' (५।४।११) इत्यामुप्रत्ययः । सुखेनाक्लेशेन नन्दथुमानन्दमाप । 'स्यादानन्दथुरानन्दः' इत्यमरः । 'ट्वितोऽथुच्' (३।३।८९) इत्यथुच्प्रत्ययः । मालोपमा ॥६५॥

  अनवद्यवाद्यलयगामि कोमलं
   नवगीतमप्यनवगीततां दधत् ।
  स्फुटसात्त्विकाङ्गिकमनृत्यदुज्ज्वलं
   सविलासलासिकविलासिनीजनः ॥ ६६ ॥

 अनवद्येति ॥ सविलासो विलासयुक्तो लासिकविलासिनीजनो नर्तकस्त्रीजनः सविलासलासिकविलासिनीजनः । 'नर्तकीलासिके समे' इत्यमरः । अनवद्यमगर्ह्यं यत् वाद्यं वंशादि तस्य लयः साम्यं गीतस्य समकालत्वं तद्गामि । द्रुतविलम्बादिमानानुवर्तीत्यर्थः । 'तालः कालक्रियामानं लयः साम्यम्' इत्यमरः । नवं गीतं यस्य