पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२९
त्रयोदशः सर्गः ।

 नलिनीति ॥ यत्र सभायां निगूढसलिला दलच्छन्नत्वाददृश्यसलिला नलिनी । वर्तत इति शेषः । या नलिनी सुष्टु युध्यत इति सुयोधने दुर्योधने । 'भाषायां शासियुधिदृशिधृषिभ्यो युच् वक्तव्यः' (वा०)। स्थलमिति भ्रान्त्या अधः पतति सति अनिलात्मजस्य भीमसेनस्य प्रहसनेनाट्टहासेनाकुलानां क्षुभितानामखिलक्षितिपानां क्षयागमे नाशप्राप्तौ निमित्ततां ययौ । नलिनीदलच्छन्नत्वात्सुयोधनस्य जले स्थलभ्रान्तिः तया तस्य पातस्तेन भीमसेनप्रहासस्तेन राज्ञां क्षोभस्ततस्तेषां मारणो रणः प्रवृत्त इति परम्परया तत्क्षयकारणत्वं गतेत्यर्थः । अत्र सभावर्णनाङ्गतया भीमसेनादिचरितवर्णनादुदात्तालंकारभेदः । लक्षणं चोक्तम् ॥ ५९ ॥

 हसितुं परेण परितः परिस्फुरत्करवालकोमलरुचावुपेक्षितैः ।
 उदकर्षि यत्र जलशङ्कया जनैर्मुहुरिन्द्रनीलभुवि दूरमम्बरम् ॥६०॥

 हसितुमिति ॥ यत्र सभायां परितः परिस्फुरन्ती करवालकोमला असिश्यामा रुचिर्यस्यास्तस्यामिन्द्रनीलभुवि हसितुं परेण जानतान्येन जनेनोपेक्षितैः स्थलमेतत्, न जलमित्युपदिष्टैर्जनैरज्ञैरागन्तुकजनैर्जलशङ्कया जलभ्रान्त्या मुहुरमम्बरं वस्त्रमुदकर्षि नितम्बादुद्धृतम् । अत्रेन्द्रनीलस्थलसादृश्यात्सलिलभ्रान्तेर्भ्रान्तिमदलंकारः॥ ६०॥

 अभितः सदोऽथ हरिपाण्डवौ रथादमलांशुमण्डलसमुल्लसत्तनू ।
 अवतेरतुर्नयननन्दनौ नभः शशिभार्गवावुदयपर्वतादिव ॥ ६१ ॥

 अभित इति ॥ अथामलांशुमण्डलेन तेजःपुञ्जेन समुल्लसन्त्यौ भासमाने तनू मूर्ती ययोस्तौ नयननन्दनौ नेत्रानन्दकरौ हरिपाण्डवौ सदोऽभितः सभाभिमुखम् । 'अभितःपरित:-' (वा.) इति द्वितीया । रथात् शशिभार्गवौ अमलेत्यादिविशेषणविशिष्टौ शशिभार्गवौ चन्द्रशुक्रो नभोऽभितो नभोऽभिमुखमुदयाख्यात्पर्वतादुदयाचलादिव अवतरतुरवतीर्णवन्तौ । तरतेर्लिट् 'तॄफलभजत्रपश्च' (६।४।१२२) इत्येत्वाभ्यासलोपौ । उपमालङ्कारः ॥ ६१ ॥

 तदलक्ष्यरत्नमयकुड्यमादरादभिधातरीत इत इत्यथो नृपे ।
 धवलाश्मरश्मिपटलाविभावितप्रतिहारमाविशदसौ सदः शनैः ६२

 तदिति ॥ अथो रथावतरणानन्तरं असौ हरिः नृपे युधिष्ठिरे आदरादित इत इत्यभिधातरि सति । इत इत आगम्यतामित्यभिदधाने सतीत्यर्थः । तत्पूर्वोक्तमलक्ष्यरत्नमयकुड्यं प्रभापटलव्याप्त्या अदृश्यरत्नभित्तिकम् । धवलेन शुभ्रेण रश्मिपटलेन मणिप्रभापुञ्जेनाविभावितप्रतिहारमलक्ष्यद्वारम् । 'स्त्री द्वार्द्वारं प्रतीहारः' इत्यमरः । सदः सभां शनैराविशत्प्रविष्टवान् । अत्र कुड्यप्रतिहारयोरलक्ष्यत्वासंबन्धेऽपि तत्संबधोक्तेरतिशयोक्तिः ॥ ६२ ॥

 नवहाटकेष्टकचितं ददर्श स क्षितिपस्य पस्त्यमथ तत्र संसदि ।
 गगनस्पृशां मणिरुचां चयेन यत्सदनान्युदस्मयत नाकिनामपि ६३

पाठा०-१ 'बहुलेन'. २ 'बहुलेन=सान्द्रेण'.