'अस्य च्वौ' (७।४।३२) इतीकारः । घनैः सान्द्रैः धूपानामगुरुधूपानां धूमैः कृतो रेणुविभ्रमो रजोभ्रमो याभिस्ताः प्रचुरं बहुलमुद्धतेषूच्छूितेषु ध्वजेषु ध्वजस्तम्भेषु विलम्बीनि विलम्बमानानि वासांसि पताका यासु ताः पुरवीथयोऽतिपेतिरेऽतिपातिताः । अतिक्रान्ता इत्यर्थः । पतेः कर्मणि लिट् । एत्वाभ्यासलोपौ । अत्र सादृश्याद्भूरेणुभ्रान्त्या भ्रान्तिमदलंकारः । रेणुविभ्रमशब्देन रजोविलासस्यापि प्रतीतेस्तस्य विरजीकरणेन विरोधाद्विरोधाभासश्चेत्यनयोरेकवाचकानुप्रवेशलक्षणः संकरः॥४९॥
उपनीय बिन्दुसरसो मयेन या मणिदारु चारु किल वार्षपर्वणम् ।
विदधेऽवधूतसुरसमसंपदं समुपासदत्सपदि संसदं स ताम् ॥५०॥
उपनीयेति ॥ मयेनासुरशिल्पिना वृषपर्वा नाम कश्चिदसुरेश्वरः वृषपर्वण इदं वार्षपर्वणम् । 'तस्येदम्' (४।३।१२०) इत्यण् । चारु मनोहरं मणिरेव दारु काष्ठम् । मणिमयं स्तम्भादिकलापमित्यर्थः । तद्विन्दुसरसो हैमवतात्सरोविशेषादुपनीय समीपमानीय । किलेत्यैतिह्ये । या संसद्विदधे निर्मिता । अवधूताधरीकृता सुरसद्मसंपदिन्द्रभवनलक्ष्मीर्यया सा तां संसदं सभाम् 'सभासमि- तिसंसदः । आस्थानी क्लीबमास्थानं स्त्रीनपुंसकयोः सदः' इत्यमरः । स हरिः सपदि समुपासदत्प्रापत् । सदेर्लुङि 'पुषादि-' (३।१।५५) इति च्लेरङादेशः । पुरा किल खाण्डवदाहे पाण्डवेनाग्निदाहान्मोचितेन मयेन प्रत्युपकारार्थं पूर्वमात्मनैव बिन्दुसरसि गुप्तेन वृषपर्वगृहनिर्माणावशिष्टेन मणिशिलाकलापेन काञ्चनसभा धर्मराजाय निर्मितेति भारते । सभावर्णनाङ्गत्वेनार्जुनमयचरितवर्णनादुदात्तालंकारः । 'प्रभूतमहापुरुषचिन्तनं चेति सूत्रम् ॥ ५९॥ अथ दशभिः सभां वर्णयति-
अधिरात्रि यत्र निपतन्नभोलिहां कलधौतधौतशिलवेश्मनां रुचौ ।
पुनरप्यवापदिव दुग्धवारिधिक्षणगर्भवासमनिदाघदीधितिः॥५१॥
अधीत्यादि ॥ अधिरात्रि रात्रिषु । विभक्त्यर्थेऽव्ययीभावः । यत्र सभायां नभोलिहामभ्रंलिहाम् । क्विप् । कलधौतं रौप्यम् । 'कलधौतं रूप्यहेम्नोः' इत्यमरः । तद्वद्धौता धवलाः शिला येषां तानि वेश्मानि । स्फटिकभवनानीत्यर्थः । तेषां रुचौ प्रभायां निपतन् प्रविशन् । अनिदाघदीधितिरनुष्णरश्मिर्हिमांशुः । पुनरपि दुग्धवारिधौ क्षीराब्धौ क्षणं गर्भवासम् । न तु मथनात्प्रागिव चिरगर्भवासमिति भावः । अवापत्प्रापदिवेत्युत्प्रेक्षा । तया वेश्मनां चन्द्रमण्डलातिक्रमो व्यज्यते ॥ ५१ ॥
लयनेषु लोहितकनिर्मिता भुवः शितिरत्नरश्मिहरितीकृतान्तराः ।
जमदग्निसूनुपितृतर्पणीरपो वहति स्म या विरलशैवला इव ॥५२।।
लयनेष्विति ॥ लीयते एष्विति लयनानि तेषु लयनेषु गृहेषु शितिरत्नानां नीलमणीनां रश्मिभिः हरितीकृतानि हरितवर्णीकृतान्यन्तराणि मध्यानि यासां ताः पाठा०-१ वारिधेः'. २ वारिधेः= क्षीराब्धेः'.
6