पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२५
त्रयोदशः सर्गः ।

एव सतृष्णस्यैव सतश्चक्षुषि सतृष्णे सत्येव । अनादृत्येत्यर्थः । षष्ठी चानादरे (२।३। ३८) इति षष्ठी । एष हरिरभियात्यभिगच्छतीत्यखिद्यत खेदं गतः । खिदेर्दैवादिकात्कर्तरि लुङ् । अत्रोत्प्रेक्ष्यते-नेति । यो जन एनं हरिं सततमीक्षते असावपि खलु वितृष्णतां न व्रजति न समुपैतीति न विवेद । नित्यदर्शनेऽप्यपूर्ववदेव भवतीति नाबुध्यतेत्यर्थः । वेद चेन्नाखिद्येतेति भावः । अत्राखिद्यतेति स्त्रीणां प्रारब्धहरिवीक्षणसुखविच्छेदकृतविषादाख्यसंचारिभावनिबन्धनात्प्रेयोलंकारः तदुत्थापिता चेयमुक्तावेदनोत्प्रेक्षेति संकरः । 'प्रारब्धकार्यासिध्यादेर्विषादः सत्त्वसंक्षयः' इति दशरूपके (४३१) । सत्त्वसंक्षयश्चित्तभङ्गः ॥ ४६ ॥

 अकृतस्वसद्मगमनादरः क्षणं लिपिकर्मनिर्मित इव व्यतिष्ठत ।
 गतमच्युतेन सह शून्यतां गतः प्रतिपालयन्मन इवाङ्गनाजनः ४७

 अकृतेति ॥ अङ्गनाजनः अच्युतेन सह गतं मनः प्रतिपालयन् प्रतीक्षमाण इवेत्युत्प्रेक्षा । शून्यतां निरोजस्कतां गतः । अकृतस्वसद्मगमनादरः निवृत्तनिज- गृहप्राप्त्यपेक्षश्च सन् लिपिकर्मनिर्मितः चित्रलिखित इवेत्युत्प्रेक्षा । क्षणं व्यतिष्ठत विस्पन्दमास्तेत्यर्थः। 'समवप्रविभ्यः स्थः' (१॥३॥२२) इत्यात्मनेपदम् । अतः शून्यतानुभावाञ्चिन्तावगम्यते । 'ध्यानचिन्ते हितानाप्तेः शून्यताश्वासतापकृत्' इति दशरूपके' (४।१६) । अत्रोत्प्रेक्षयोः सापेक्षत्वात्संकरः ॥ ४७ ॥

 अलसैर्मदेन सुदृशः शरीरकैः खगृहान्प्रति प्रतिययुः शनैःशनैः ।
 अलघुप्रसारितविलोचनाञ्जलिद्रुतपीतमाधवरसौघनिर्भरैः ॥४८॥

 अलसैरिति ॥ अलघु अधिकं प्रसारितैर्विलोचनैरेवाञ्जलिभिः द्रुतं सत्वरम् । 'लघु क्षिप्रमरं द्रुतम्' इत्यमरः । पीतो यो माधवो हरिरेव रसोऽमृतम् । अन्यत्र 'मधु मद्यं तत्संबन्धि रसो माधुर्यं माधवरसः । 'रसो रागे विषे वीर्ये तिक्तादौ पारदे द्रवे । रेतस्यास्वादने हेम्नि निर्यासेऽमृतशब्दयोः ॥' इति वैजयन्ती । तस्यौधः समूहस्तेन निर्भरैर्दुभरैः । गुरुभिरिति यावत् । अत एव मदेनालसैर्मन्थरैः शरीरकाणि । अल्पशरीराणीत्यर्थः । 'अल्पे' (५।३।८५) इति परिमाणे कन्प्रत्ययः । तैरुपलक्षिताः सुदृशः शनैःशनैः स्वगृहान्प्रति प्रतिययुः प्रतिनिर्गताः। स्वयं लघून्यपि द्रव्याणि रसद्रवभरणाद्गुरु भवन्तीति भावः । अत्र माधवरसौघनिर्भरत्वविशेषणगत्या शनैःशनैः प्रतियानहेतुत्वात्कार्यहेतुकं काव्यलिङ्गं, तच्च माधवरसेनेति श्लेषमूलातिशयोक्त्युत्थापितमिति संकरः ॥ ४८ ॥

 नवगन्धवारिविरजीकृताः पुरो घनधूपधूमकृतरेणुविभ्रमाः ।
 प्रचुरोद्धतध्वजविलम्बिवाससः पुरवीथयोऽथ हरिणातिपेतिरे ४९

 नवेति ॥ अथ पुरप्रवेशानन्तरं हरिणा पुरः पूर्वं नवगन्धवारिभिः नूतनगन्धवासितोदकैर्विरजीकृता अविरजसो विरजसः संपद्यमानाः कृताः । 'अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च' (५।४।५१) इत्यभूततद्भावे च्विप्रत्यये सकारलोपः ।


शिशु० २८