इति विश्वः । पञ्चभिरिन्द्रियैः सममिव पञ्चभिर्नरेन्द्रसूनुभी राजपुत्रैः पाण्डवैः सहासौ हरिस्तत्पुरं प्रविशति स्म । जीवो हि देहादेहान्तरं पूर्वेन्द्रियैः सह प्रवि- शति । लिङ्गशरीरस्यानपायादिति भावः । श्लेषसंकीर्णेयमुपमा ॥२८॥
तनुभि स्त्रिनेत्रनयनानवेक्षितस्मरविग्रहद्युतिभिरद्युतन्नराः ।
प्रमदाश्च यत्र खलु राजयक्ष्मणः परतो निशाकरमनोरमैर्मुखैः॥२९॥
तनुभिरिति ॥ यत्र पुरे नराः पुरुषाः त्रिनेत्रख्यम्बकः । 'पूर्वपदात्संज्ञायाम- गः' (८।४।३) इति णत्वं तु रघुनाथादिवण्णत्वरहितस्य संज्ञात्वे न प्रवर्तते । तस्य नयनेनानवेक्षितस्य स्मरविग्रहस्य द्युतिरिव द्युतिर्यासां ताभिस्तनुभिमूर्तिभिः । 'स्त्रियां मूर्तिस्तनुस्तनूः' इत्यमरः। अद्युतन् द्योतन्तेऽस्म । 'द्युत दीप्तौ' 'द्युभ्द्यो लुङि' (१।३।९१) इति विकल्पात्परस्मैपदं । 'पुषादि' (३।११५५) सूत्रेण च्लेरङादेशः । प्रमदाः स्त्रियश्च राज्ञश्चन्द्रस्य यक्ष्मा राजयक्ष्मा क्षयरोगः । 'राजानं यक्ष्मा आरत्' इति श्रवणात् । 'राजयक्ष्मा क्षयः शोथः' इत्यमरः । तस्मात्परतः । पूर्वमित्यर्थः । निशाकरवन्मनोरमैः । अक्षीणेन्दुसुन्दरैरित्यर्थः । मुखैरद्युतन् । तत्पुरं प्रविष्ट इति पूर्वेणान्वयः । उपमयोः संसृष्टिः ॥ २९ ॥
अवलोकनाय सुरविद्विषां द्विषः पटहप्रणादविहितोपहूतयः ।
अवधीरितान्यकरणीयसत्वराः प्रतिरथ्यमीयुरथ पौरयोपितः॥३०॥
अवलोकनायेति ॥ अथ हरेः पुरप्रवेशानन्तरं पटहप्रणादैर्दुन्दुभिध्वनिभिर्विहितोपहूतयः । कृताह्वाना इवेत्यर्थः । पुरे भवाः पौरास्तेषां योषितः पौरयोषितः । स्त्रियाः पुंवद्भावः । सुरद्विषामसुराणां द्विषो हरेरवलोकनाय दर्शनार्थमवधीरितान्यकरणीयास्त्यक्तान्यकार्याः ताश्च ताः सत्वराश्च ताः सत्यः रथ्यां प्रति प्रतिरथ्यम् । यथार्थेऽव्ययीभावः । ईयुः प्राप्ताः । एतेन स्त्रीणां हरिविलोकने कालाक्षमत्वलक्षणमौत्सुक्यमुक्तम् । अत्र पौराङ्गनाप्राप्तेः प्रवेशवाद्यश्रवणानन्तर्यात्तदुपाह्वानोत्प्रेक्षा व्यञ्जकाप्रयोगाद्गम्या ॥ ३० ॥
अथाष्टादशभिः पौराङ्गनाशृङ्गारचेष्टां वर्णयति-
अभिवीक्ष्य सामिकृतमण्डनं यतीः कररुद्धनीविगलदंशुकाः स्त्रियः।
दधिरेऽधिभित्ति पटहप्रतिस्वनैः स्फुटमट्टहासमिव सौधपङ्क्तयः॥३१
अभीति ॥ सामिकृतमण्डनमर्धविरचितप्रसाधनं यथा तथा यतीर्गच्छन्तीः । इणः शतरि ङीप् । कररुद्भनीवीनि करगृहीतग्रन्थीनि गलदंशुकानि स्रंसमानपरिधानानि यासां ताः । लसदिति पाठान्तरं तदा लसदुल्लसदित्यर्थः । अंशुकं वस्त्रमात्रे स्यात्परिधानोत्तरीययोः' इति शब्दार्णवे । स्त्रियः स्त्रीरभिवीक्ष्य सौधपङ्क्तयः यः अधिभित्ति भित्तिषु । भक्त्यर्थेऽव्ययीभावः । पटहप्रतिस्वनैस्तूर्यप्रतिध्वनिभिः स्फुटमुद्गतमट्टहासमुच्चैर्हसितमिव दधिरे इवेत्युत्प्रेक्षा । विकृतिदर्शनाद्धासो भवतीति भावः । अत्र कुतूहलाख्या चेष्टोक्ता । 'कुतूहलं रम्यदृष्टौ चापल्यं परिकीर्तितम्' इति लक्षणात् ॥ ३१ ॥