पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३१९
त्रयोदशः सर्गः ।

दृढभक्तिरित्यादि भवति । भावसाधनायां तु दृढभक्तिर्भवत्येव' इत्याह । तदेत- त्सर्वमस्माभिः कालिदासत्रयसंजीविन्यां 'दृढभक्तिरिति ज्येष्टे' (रघुवंशे १२।१९) इत्यादिषु विवेचितम् । तस्माद्विकासिभक्तिभिरित्यत्रापि मतभेदेन पूर्वपदस्य स्त्रीत्वे नपुंसकत्वे च रूपसिद्धिरस्तीति सिद्धम् ॥ २४ ॥

 गतयोरभेदमिति सैन्ययोस्तयोरथ भानुजह्नुतनयाम्भसोरिव ।
 प्रतिनादितामरविमानमानकैर्नितरां मुदा परमयेव दध्वने ॥२५॥

 गतयोरिति ॥ इति इत्थं गतयोः सैन्ययोः भानुजह्वतनये यमुनाजाह्नव्यौ तयोरम्भसी प्रवाहौ तयोरिवाभेदमैक्यं गतयोः सतोः । 'यस्य च भावेन भाव- लक्षणम्' (२।३।३७) इति सप्तमी । एतेन सैन्ययोरवार्यत्वमुक्तम् । अथ सैन्य- मेलनानन्तरम् । आनकैर्मङ्गलदुन्दुभिभिः परमया मुदेव हर्षेणेवेत्युत्प्रेक्षा । प्रति- नादितानि प्रतिध्वनितान्यमरविमानानि द्रष्टुमागत्याम्बरस्थितानि विमानानि देव- यानानि यस्मिन्कर्मणि तद्यथा तथा नितरां दध्वने ध्वनितम् । भावे लिट् ॥२५॥

 मखमीक्षितुं क्षितिपतेरुपेयुषां परितः प्रकल्पितनिकेतनं बहिः ।
 उपरुध्यमानमिव भूभृतां बलैः पुटभेदनं दनुसुतारिरैक्षत ॥२६॥

 मखमिति ॥ क्षितिपतेर्धर्मराजस्य मखं क्र्ततुमीक्षितुमुपेयुषां ततस्तत आग- तानां भूभृतां राज्ञां बलैः सैन्यैः बहिः परितः प्रकल्पितानि निर्मितानि निकेत- नानि निवासा यस्य तदत एवोपरुध्यमानं शत्रुसेनावेष्ट्यमानमिव स्थितमित्यु- त्प्रेक्षा । पुटभेदनं पत्तनं मयकृतमिन्दप्रस्थम् । 'पत्तनं पुटभेदनम्' इत्यमरः । दनुसुतारिर्दानवहन्ता हरिः पुरोऽग्रे ऐक्षतापश्यत् ॥ २६ ॥

 प्रतिनादपूरितदिगन्तरः पतन्पुरगोपुरं प्रति स सैन्यसागरः ।
 रुरुचे हिमाचलगुहामुखोन्मुखः पयसां प्रवाह इव सौरसैन्धवः २७

 प्रतीति ॥ प्रतिनादैः प्रतिध्वानैः पूरितं व्यासं दिशामन्तरमन्तरालं येन सः पुरगोपुरं पुरद्वारं प्रति । 'गोपुरं तु पुरद्वारि द्वारमात्रे नपुंसकम्' इति विश्वः । एवं च न परशब्दस्य पौनरुक्त्यशङ्का । पतन धावन् स सैन्यसागरः सेनासमुद्रः हिमाचलगुहामुखस्योन्मुखोऽभिमुखः सुरसिन्धोर्गङ्गाया अयं सौरसैन्धवः । 'हृद्भगसिन्ध्वन्ते पूर्वपदस्य च' (७।३।१९) इत्युभयपदवृद्धिः । पयसां प्रवाह इव रुरुचे रेजे । उपमालंकारः ॥ २७ ॥

 असकृट्टहीतबहुदेहसंभवस्तदसौ विभक्तनवगोपुरान्तरम् ।
 पुरुषः पुरं प्रविशति स पञ्चभिः सममिन्द्रियैरिव नरेन्द्रसूनुभिः २८

 असकृदिति ॥ असकृद्धहुशो गृहीतो लोकधारणाय स्वीकृतो बहुषु देहेषु मत्स्यकूर्मादिषु शरीरेषु संभवः प्रादुर्भावो येन सः, अन्यत्र स्वकर्मणा प्राक्तनयोनिसंबन्धरूपसंभव इत्यर्थः । असौ पुरुषः पुराणपुरुषो हरिर्जीवश्च विभक्तानि नवानि प्रत्यग्राणि गोपुरान्तराणि द्वारविशेषा यस्य तत् , अन्यत्र नवसंख्याकानि गोपुरान्तराणीन्द्रियद्वारभेदा यस्मिंस्तत् पुरं पत्तनं शरीरं च । 'पुरं पुरि शरीरे च'