पृष्ठम्:शिशुपालवधम् (मल्लिनाथव्याख्योपेतम्).djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
प्रथमः सर्गः ।

निसर्गचित्रोज्वलसूक्ष्मपक्ष्मणा लसब्दिसच्छेदसिताङ्गसङ्गिना ।
चकासतं चारुचमूरुचर्मणा कुथेन नागेन्द्रमिवेन्द्रवाहनम् ॥ ८॥

 निसर्गेति ॥ पुनः निसर्गात्स्वभावादेव चित्राणि शबलान्युज्वलानि भास्व- राणि सूक्ष्माणि पक्ष्माणि लोमानि यस्य तेन लसन् यो बिसच्छेदो मृणालखण्डः । 'छेदः खण्डोऽस्त्रियाम्' इति त्रिकाण्डशेषः । तद्वत्सितेऽङ्गे वपुषि सङ्गिना सक्तेन चारुणा मनोहरेण चमूरुचर्मणा मृगत्वचा कुथेन पृष्ठास्तरणेन । 'प्रवेण्यास्तरणं वर्णः परिस्तोमः कुथो द्वयोः' इत्यमरः । इन्द्रवाहनं नागेन्द्रमैरावतमिव चकासतं शोभमानम् । इन्द्रस्य वाहनमिति स्वस्वामिभावमात्रस्य विवक्षितत्वात् 'वाहन- माहितात्' (८।४।८) इति न णत्वम् । यथाह वामनः -'नेन्द्रवाहनशब्दे णत्व- माहितत्वस्याविवक्षितत्वात्' इति । चकासतेः शतरि 'नाभ्यस्ताच्छतुः' (७।१।७८) इति नुमभावः । 'जक्षित्यादयः षट्' (६।१।६) इत्यभ्यस्तसंज्ञा ॥ ८॥

अजस्रमास्फालितवल्लकीगुणक्षतोज्ज्वलाङ्गुष्ठनखांशुभिन्नया ।
पुरः प्रवालैरिव पूरितार्धया विभान्तमच्छस्फटिकाक्षमालया ॥९॥

 अजस्रमिति ॥ पुनरजस्रं प्राचुर्येणास्फालितास्ताडिताः । सौष्ठवपरीक्षार्थ न्युब्जाङ्गुष्ठेन तन्त्रीताडनं प्रसिद्धम् । तेषां वल्लकीगुणानां वीणातन्त्रीणां क्षतेन संघर्षणेनोज्वलैरङ्गुष्टनखांशुभिर्भिन्नया मिश्रया । तद्रागरक्तयेत्यर्थः । अत एव पुरः पुरोभागे प्रवालैर्विद्रुमैः। '-अथ विद्रुमः पुंसि प्रवालं पुंनपुंसकम्' इत्यमरः । पूरि- तार्धयेव स्थितया अच्छस्फटिकाक्षमालया स्वच्छस्फटिकानां मालया । जपमाल- येत्यर्थः । 'अच्छो भल्लूके स्फटिकेऽमलेच्छाभिमुखेऽव्ययम्' इति हेमचन्द्रः । तथा प्रसिद्धस्फटिकग्रहणादृषेर्मोक्षार्थित्वं व्यज्यते । 'स्फटिको मोक्षदः परम्' इति मोक्षा- र्थिनां स्फटिकाक्षमालाभिधानात् । विभान्तं भासमानम् । भातेः शतृप्रत्ययः । अत्र नखांशुभिन्नयेति स्वगुणत्यागेनान्यगुणस्वीकारलक्षणस्तद्गुणालंकार उक्तः । 'तद्गुणः स्वगुणत्यागात्' इति ॥ ९॥

रणद्भिराघट्टनया नभस्वतः पृथग्विभिन्नश्रुतिमण्डलैः स्वरैः ।
स्फुटीभवद्रामविशेषमूर्च्छनामवेक्षमाणं महतीं मुहुर्मुहुः ॥१०॥

 रणद्भिरिति ॥ पुनः नभस्वतो वायोराघट्टनया आघातेन पृथगसंकीर्ण रण- द्भिर्ध्वनद्भिः । अनुरणनोत्पद्यमानैरित्यर्थः । 'श्रुत्यारब्धमनुरणनं स्वरः' इति लक्ष- णात् । तदुक्तं रत्नाकरे—'श्रुत्यनन्तरभावी यः स्निग्धोऽनुरणनात्मकः । स्वनो रञ्ज- यति श्रोतुश्चित्तं स स्वर उच्यते ॥' इति । श्रुतिर्नाम स्वरारम्भकावयवः शब्दवि- शेषः । तदुक्तम्-'प्रथमश्रवणाच्छब्दः श्रूयते ह्रस्वमात्रकः । सा श्रुतिः संपरिज्ञेया

स्वरावयवलक्षणा ॥' इति । विभिन्नानि प्रतिनियतसंख्यया व्यवस्थितानि श्रुतीनां


पाठा०-१ '०माश्रावित' इति पाठः.